तत्सवितुर्वरेण्यं वरणीयं श्रेष्ठं पदं धीमहीति संबन्धः । वाता वायुभेदा मधु सुखमृतायते वहन्ति । सिन्धवो नद्यो मधु क्षरन्ति मधुररसान्स्रवन्ति । ओषधीश्चास्मान्प्रति माध्वीर्मधुरसाः सन्तु । देवस्य सवितुर्भर्गस्तेजोऽन्नं वा प्रस्तुतं पदं चिन्तयामः । नक्तं रात्रिरुतोषतो दिवसाश्च मधु प्रीतिकराः सन्तु । पार्थिवं रजो मधुमदनुद्वेगकरमस्तु । द्यौश्च पिता नोऽस्माकं मधु सुखकरोऽस्तु । यः सविता नोऽस्माकं धियो बुद्धीः प्रचोदयात्प्रेरयेत्तस्य तद्वरेण्यमिति संबन्धः । वनस्पतिः सोमोऽस्माकं मधुमानस्तु । गावो रश्मयो दिशो वा माध्वीः सुखकराः सन्तु । अन्तशब्दादितिशब्दाच्चोपरिष्टादुक्त्वेत्यनुषङ्गः । एवं ग्रासचतुष्टये निवृत्ते सत्यवशिष्टे द्रव्ये किं कर्तव्यं तत्राऽऽह —
यथेति ।
पात्रावशिष्टस्य परित्यागं वारयति —
यदिति ।
निर्णिज्य प्रक्षाल्येति यावत् ।
पाणिप्रक्षालनवचनसामर्थ्यात्प्राप्तं शुद्ध्यर्थं स्मार्तमाचमनमनुजानाति —
अप आचम्येति ।
एकपुण्डरीकशब्दोऽखण्डश्रेष्ठवाची ॥६॥