अविदुषामतिगर्हितमिदं कर्मेत्यत्राऽऽचार्यपरम्परासम्मतिमाह —
एतद्धेति ।
पशुकर्मणो वाजपेयसंपन्नत्वमिदंशब्दार्थः । अविदुषामवाच्ये कर्मणि प्रवृत्तानां दोषित्वमुपसंहर्तुमितिशब्दः ।
विदुषो लाभमविदुषश्च दोषं दर्शयित्वा क्रियाकालात्प्रागेव रेतःस्खलने प्रायश्चित्तं दर्शयति —
श्रीमन्थमिति ।
यः प्रतीक्षते तस्य रेतो यदि स्कन्दतीति योजना ॥४॥