बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ य इच्छेद्दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७ ॥
दुहितुः पाण्डित्यं गृहतन्त्रविषयमेव, वेदेऽनधिकारात् । तिलौदनं कृशरम् ॥

वेदविषयमेव तत्पाण्डित्यं किं न स्यादत आह —

वेद इति ॥१७॥