समितिर्विद्वत्सभा तां गच्छतीति विद्वानेवोच्यतामिति चेन्नेत्याह —
पाण्डित्यस्येति ।
सर्वशब्दो वेदचतुष्टयविषयः । औक्षेणेत्यादितृतीया सहार्थे । देशविशेषापेक्षया कालविशेषापेक्षया वा मांसनियमः । अथशब्दस्तु पूर्ववाक्येषु यथारुचि विकल्पार्थः ॥१८॥