कदा पुनरिदमोदनपाकादि कर्तव्यं तदाह —
अथेति ।
कोऽसौ स्थालीपाकविधिः कथं वा तत्र होमस्तत्राऽऽह —
गार्ह्य इति ।
गृहे प्रसिद्धो गार्ह्यः । अत्रेति पुत्रमन्थकर्मोक्तिः । अतो मद्भार्यातः सकाशाद्भो विश्वावसो गन्धर्वत्वमुत्तिष्ठान्यां च जायां प्रपूर्व्यां तरुणीं पत्या सह संक्रीडमानामिच्छाहं पुनः स्वामिमां जायां समुपैमीति मन्त्रार्थः ॥१९॥