वेदनाम्ना व्यवहारो लोके नास्तीत्याशङ्क्याऽऽह —
तदस्येति ।
यत्तद्वेद इति नाम तदस्य गुह्यं भवति । वेदनं वेदोऽनुभवः सर्वस्य निजं स्वरूपमित्यर्थः ॥२६॥