सान्निध्यात्खिलकाण्डस्य वंशोऽयमिति शङ्कां निवर्तयन्वंशब्राह्मणतात्पर्यमाह —
अथेति ।
विद्याभेदादतीतस्य काण्डद्वयस्य प्रत्येकं वंशभाक्त्वेऽपि नास्य पृथक्त्वभागित्वं खिलत्वेन तच्छेषत्वात् । तथा च समाप्तौ पठितो वंशः समस्तस्यैव प्रवचनस्य भविष्यतीत्यर्थः ।
पूर्वौ वंशौ पुरुषविशेषितौ तृतीयस्तु स्त्रीविशेषितस्तत्र किं करणमित्याशङ्क्याऽऽह —
स्त्रीप्राधान्यादिति ।
तदेव स्फुटयति —
गुणवानिति ।
कीर्त्यते ब्राह्मणेनेति संबन्धः । शुक्लानि यजूंषीत्यस्य व्याख्यानमव्यामिश्राणीति । दोषैरसंकीर्णानि पौरुषेयत्वदोषद्वाराभावादित्यर्थः । अयातयामान्यदुष्टान्यगतार्थानीत्यर्थः । पाठक्रमेण मनुष्यादिः प्रजापतिपर्यन्तो वंशो व्याख्यातः ।
संप्रत्यर्थक्रममाश्रित्याऽऽह —
प्रजापतिमिति ।
अधोमुखत्वं पाठक्रमापेक्षयोच्यते ।
तत्रापि प्रजापतिमारभ्य साञ्जीवीपुत्रपर्यन्तं वाजसनेयिशाखासु सर्वास्वेको वंश इत्याह —
समानमिति ।
प्रवचनाख्यस्य वंशात्मनो ब्रह्मणः संबन्धात्प्रजापतिर्विद्यां लब्धवानित्याह —
ब्रह्मण इति ।
तस्याधिकारिभेदादवान्तरभेदं दर्शयति —
तच्चेति ।
प्रजापतिमुखप्रबन्धः प्रपञ्चः सैव परम्परा तयेति यावत् ।
तस्य परमात्मरूपं स्वयम्भूत्वमभिदधाति —
अनादीति ।
तस्यापौरुषेयत्वेनासंभावितदोषतया प्रामाण्यमभिप्रेत्य विशिनष्टि —
नित्यमिति ।
आदिमध्यान्तरेषु कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति मन्वानः सन्नाह —
तस्मै ब्रह्मणे नम इति ॥१ – ४॥