बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायः
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः ।
‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्येवमाद्या वाजसनेयिब्राह्मणोपनिषत् । तस्या इयमल्पग्रन्था वृत्तिः आरभ्यते, संसारव्याविवृत्सुभ्यः संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्याप्रतिपत्तये । सेयं ब्रह्मविद्या उपनिषच्छब्दवाच्या, तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् ; उपनिपूर्वस्य सदेस्तदर्थत्वात् । तादर्थ्याद्ग्रन्थोऽप्युपनिषदुच्यते । सेयं षडध्यायी अरण्येऽनूच्यमानत्वादारण्यकम् ; बृहत्त्वात्परिमाणतो बृहदारण्यकम् ॥
तस्यास्य कर्मकाण्डेन सम्बन्धोऽभिधीयते । सर्वोऽप्ययं वेदः प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनपरः, सर्वपुरुषाणां निसर्गत एव तत्प्राप्तिपरिहारयोरिष्टत्वात् । दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञानस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वात् नागमान्वेषणा । न चासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टप्राप्तिपरिहारेच्छा स्यात् ; स्वभाववादिदर्शनात् । तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रवर्तते । ‘येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके’ (क. उ. १ । १ । २०) इत्युपक्रम्य ‘अस्तीत्येवोपलब्धव्यः’ (क. उ. २ । ३ । १३) इत्येवमादिनिर्णयदर्शनात् ; ‘यथा च मरणं प्राप्य’ (क. उ. २ । २ । ६) इत्युपक्रम्य ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इति च ; ‘स्वयं ज्योतिः’ (बृ. उ. ४ । ३ । ९) इत्युपक्रम्य ‘तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २) ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (बृ. उ. ३ । २ । १३) इति च ; ‘ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इत्युपक्रम्य ‘विज्ञानमयः’ (बृ. उ. २ । १ । १६) इति च — व्यतिरिक्तात्मास्तित्वम् । तत्प्रत्यक्षविषयमेवेति चेत् , न ; वादिविप्रतिपत्तिदर्शनात् । न हि देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकायतिका बौद्धाश्च नः प्रतिकूलाः स्युः नास्त्यात्मेति वदन्तः । न हि घटादौ प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते, नास्ति घट इति । स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत् , न ; निरूपितेऽभावात् । न हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्रतिपत्तिर्भवति । वैनाशिकास्त्वहमिति प्रत्यये जायमानेऽपि देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते । तस्मात्प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः । तथानुमानादपि । श्रुत्या आत्मास्तित्वे लिङ्गस्य दर्शितत्वात् लिङ्गस्य च प्रत्यक्षविषयत्वात् नेति चेत् , न ; जन्मान्तरसम्बन्धस्याग्रहणात् । आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिकलिङ्गविशेषैश्च, तदनुसारिणो मीमांसकास्तार्किकाश्चाहंप्रत्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवाणीति कल्पयन्तो वदन्ति प्रत्यक्षश्चानुमेयश्चात्मेति ॥
सर्वथाप्यस्त्यात्मा देहान्तरसम्बन्धीत्येवं प्रतिपत्तुर्देहान्तरगतेष्टानिष्टप्राप्तिपरिहारोपायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्मकाण्डमारब्धम् । न त्वात्मनः इष्टानिष्टप्राप्तिपरिहारेच्छाकारणमात्मविषयमज्ञानं कर्तृभोक्तृस्वरूपाभिमानलक्षणं तद्विपरीतब्रह्मात्मस्वरूपविज्ञानेनापनीतम् । यावद्धि तन्नापनीयते, तावदयं कर्मफलरागद्वेषादिस्वाभाविकदोषप्रयुक्तः शास्त्रविहितप्रतिषिद्धातिक्रमेणापि प्रवर्तमानो मनोवाक्कायैर्दृष्टादृष्टानिष्टसाधनान्यधर्मसंज्ञकानि कर्माण्युपचिनोति बाहुल्येन, स्वाभाविकदोषबलीयस्त्वात् । ततः स्थावरान्ताधोगतिः । कदाचिच्छास्त्रकृतसंस्कारबलीयस्त्वम् । ततो मनआदिभिरिष्टसाधनं बाहुल्येनोपचिनोति धर्माख्यम् । तद्द्विविधम् — ज्ञानपूर्वकं केवलं च । तत्र केवलं पितृलोकादिप्राप्तिफलम् । ज्ञानपूर्वकं देवलोकादिब्रह्मलोकान्तप्राप्तिफलम् । तथा च शास्त्रम् — ‘आत्मयाजी श्रेयान्देवयाजिनः’ (शत. ब्रा. १ । २ । ६ । ११३) इत्यादि । स्मृतिश्च ‘द्विविधं कर्म वैदिकम्’ (मनु. १२ । ८८) इत्याद्या । साम्ये च धर्माधर्मयोर्मनुष्यत्वप्राप्तिः । एवं ब्रह्माद्या स्थावरान्ता स्वाभाविकाविद्यादिदोषवती धर्माधर्मसाधनकृता संसारगतिर्नामरूपकर्माश्रया । तदेवेदं व्याकृतं साध्यसाधनरूपं जगत् प्रागुत्पत्तेरव्याकृतमासीत् । स एष बीजाङ्कुरादिवदविद्याकृतः संसारः आत्मनि क्रियाकारकफलाध्यारोपलक्षणोऽनादिरनन्तोऽनर्थ इत्येतस्माद्विरक्तस्याविद्यानिवृत्तये तद्विपरीतब्रह्मविद्याप्रतिपत्त्यर्थोपनिषदारभ्यते ॥
अस्य त्वश्वमेधकर्मसम्बन्धिनो विज्ञानस्य प्रयोजनम् — येषामश्वमेधे नाधिकारः, तेषामस्मादेव विज्ञानात्तत्फलप्राप्तिः, विद्यया वा कर्मणा वा, ‘तद्धैतल्लोकजिदेव’ (बृ. उ. १ । ३ । २८) इत्येवमादिश्रुतिभ्यः । कर्मविषयत्वमेव विज्ञानस्येति चेत् , न ; ‘योऽश्वमेधेन यजते य उ चैनमेवं वेद’ (तै. सं. ५ । ३ । १२) इति विकल्पश्रुतेः । विद्याप्रकरणे चाम्नानात् , कर्मान्तरे च सम्पादनदर्शनात् , विज्ञानात्तत्फलप्राप्तिरस्तीत्यवगम्यते । सर्वेषां च कर्मणां परं कर्माश्वमेधः, समष्टिव्यष्टिप्राप्तिफलत्वात् । तस्य चेह ब्रह्मविद्याप्रारम्भे आम्नानं सर्वकर्मणां संसारविषयत्वप्रदर्शनार्थम् । तथा च दर्शयिष्यति फलमशनायामृत्युभावम् । न नित्यानां संसारविषयफलत्वमिति चेत् , न ; सर्वकर्मफलोपसंहारश्रुतेः । सर्वं हि पत्नीसम्बद्धं कर्म ; ‘जाया मे स्यादेतावान्वै कामः’ (बृ. उ. १ । ४ । १७) इति निसर्गत एव सर्वकर्मणां काम्यत्वं दर्शयित्वा, पुत्रकर्मापरविद्यानां च ‘अयं लोकः पितृलोको देवलोकः’ इति फलं दर्शयित्वा, त्र्यन्नात्मकतां चान्ते उपसंहरिष्यति ‘त्रयं वा इदं नाम रूपं कर्म’ (बृ. उ. १ । ६ । १) इति — सर्वकर्मणां फलं व्याकृतं संसार एवेति । इदमेव त्रयं प्रागुत्पत्तेस्तर्ह्यव्याकृतमासीत् । तदेव पुनः सर्वप्राणिकर्मवशाद्व्याक्रियते बीजादिव वृक्षः । सोऽयं व्याकृताव्याकृतरूपः संसारोऽविद्याविषयः क्रियाकारकफलात्मकतयात्मरूपत्वेनाध्यारोपितोऽविद्ययैव मूर्तामूर्ततद्वासनात्मकः । अतो विलक्षणोऽनामरूपकर्मात्मकोऽद्वयो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि क्रियाकारकफलभेदादिविपर्ययेणावभासते । अतोऽस्मात्क्रियाकारकफलभेदस्वरूपात् ‘एतावदिदम्’ इति साध्यसाधनरूपाद्विरक्तस्य कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्ज्वामिव सर्पविज्ञानापनयाय ब्रह्मविद्या आरभ्यते ॥
तत्र तावदश्वमेधविज्ञानाय ‘उषा वा अश्वस्य’ इत्यादि । तत्राश्वविषयमेव दर्शनमुच्यते, प्राधान्यादश्वस्य । प्राधान्यं च तन्नामाङ्कितत्वात्क्रतोः प्राजापत्यत्वाच्च ॥
ओं । उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि । ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥
उषा इति, ब्राह्मो मुहूर्तः उषाः ; वैशब्दः स्मारणार्थः, प्रसिद्धं कालं स्मारयति ; शिरः, प्राधान्यात् ; शिरश्च प्रधानं शरीरावयवानाम् ; अश्वस्य, मेध्यस्य मेधार्हस्य यज्ञियस्य, उषाः शिर इति सम्बन्धः । कर्माङ्गस्य पशोः संस्कर्तव्यत्वात्कालादिदृष्टयः शिरआदिषु क्षिप्यन्ते ; प्राजापत्यत्वं च प्रजापतिदृष्ट्यध्यारोपणात् ; काललोकदेवतात्वाध्यारोपणं च प्रजापतित्वकरणं पशोः ; एवंरूपो हि प्रजापतिः ; विष्णुत्वादिकरणमिव प्रतिमादौ । सूर्यश्चक्षुः, शिरसोऽनन्तरत्वात्सूर्याधिदैवतत्वाच्च ; वातः प्राणः, वायुस्वाभाव्यात् ; व्यात्तं विवृतं मुखम् अग्निर्वैश्वानरः ; वैश्वानर इत्यग्नेर्विशेषणम् ; वैश्वानरो नामाग्निर्विवृतं मुखमित्यर्थः, मुखस्याग्निदैवतत्वात् ; संवत्सर आत्मा ; संवत्सरो द्वादशमासस्त्रयोदशमासो वा ; आत्मा शरीरम् ; कालावयवानां च संवत्सरः शरीरम् ; शरीरं चात्मा, ‘मध्यं ह्येषामङ्गानामात्मा’ (ऐ. आ. २ । ३ । ५) इति श्रुतेः ; अश्वस्य मेध्यस्येति सर्वत्रानुषङ्गार्थं पुनर्वचनम् । द्यौः पृष्ठम् , ऊर्ध्वत्वसामान्यात् ; अन्तरिक्षमुदरम् , सुषिरत्वसामान्यात् ; पृथिवी पाजस्यं पादस्यम् , पाजस्यमिति वर्णव्यत्ययेन, पादासनस्थानमित्यर्थः ; दिशश्चतस्रोऽपि पार्श्वे, पार्श्वेन दिशां सम्बन्धात् ; पार्श्वयोर्दिशां च सङ्ख्यावैषम्यादयुक्तमिति चेत् , न ; सर्वमुखत्वोपपत्तेरश्वस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोषः ; अवान्तरदिश आग्नेय्याद्याः पर्शवः पार्श्वास्थीनि ; ऋतवोऽङ्गानि, संवत्सरावयवत्वादङ्गसाधर्म्यात् ; मासाश्चार्धमासाश्च पर्वाणि सन्धयः, सन्धिसामान्यात् ; अहोरात्राणि प्रतिष्ठाः ; बहुवचनात्प्राजापत्यदैवपित्र्यमानुषाणि ; प्रतिष्ठाः पादाः, प्रतितिष्ठत्येतैरिति ; अहोरात्रैर्हि कालात्मा प्रतितिष्ठति, अश्वश्च पादैः ; नक्षत्राण्यस्थीनि, शुक्लत्वसामान्यात् ; नभो नभःस्था मेघाः, अन्तरिक्षस्योदरत्वोक्तेः ; मांसानि, उदकरुधिरसेचनसामान्यात् । ऊवध्यम् उदरस्थमर्धजीर्णमशनं सिकताः, विश्लिष्टावयवत्वसामान्यात् ; सिन्धवः स्यन्दनसामान्यात् नद्यः गुदा नाड्यः, बहुवचनाच्च ; यकृच्च क्लोमानश्च हृदयस्याधस्ताद्दक्षिणोत्तरौ मांसखण्डौ ; क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव ; पर्वताः, काठिन्यादुच्छ्रितत्वाच्च ; ओषधयश्च क्षुद्राः स्थावराः, वनस्पतयो महान्तः, लोमानि केशाश्च यथासम्भवम् ; उद्यन्नुद्गच्छन्भवति सविता आ मध्याह्नात् अश्वस्य पूर्वार्धः नाभेरूर्ध्वमित्यर्थः ; निम्लोचन्नस्तं यन् आ मध्याह्नात् जघनार्धोऽपरार्धः, पूर्वापरत्वसाधर्म्यात् ; यद्विजृम्भते गात्राणि विनामयति विक्षिपति, तद्विद्योतते विद्योतनम् , मुखघनविदारणसामान्यात् ; यद्विधूनुते गात्राणि कम्पयति, तत्स्तनयति, गर्जनशब्दसामान्यात् ; यन्मेहति मूत्रं करोत्यश्वः, तद्वर्षति वर्षणं तत् , सेचनसामान्यात् ; वागेव शब्द एव अस्याश्वस्य वागिति, नात्र कल्पनेत्यर्थः ॥
अहर्वा अश्वं पुरस्तान्महिमान्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुः । हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान्समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥
अहर्वा इति, सौवर्णराजतौ महिमाख्यौ ग्रहावश्वस्याग्रतः पृष्ठतश्च स्थाप्येते, तद्विषयमिदं दर्शनम् । अहः सौवर्णो ग्रहः, दीप्तिसामान्याद्वै । अहरश्वं पुरस्तान्महिमान्वजायतेति कथम् ? अश्वस्य प्रजापतित्वात् ; प्रजापतिर्ह्यादित्यादिलक्षणोऽह्ना लक्ष्यते ; अश्वं लक्षयित्वाजायत सौवर्णो महिमा ग्रहः, वृक्षमनु विद्योतते विद्युदिति यद्वत् । तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रः योनिः, विभक्तिव्यत्ययेन ; योनिरित्यासादनस्थानम् । तथा रात्री राजतो ग्रहः, वर्णसामान्याज्जघन्यत्वसामान्याद्वा । एनमश्वं पश्चात्पृष्ठतो महिमा अन्वजायत ; तस्यापरे समुद्रे योनिः । महिमा महत्त्वात् । अश्वस्य हि विभूतिरेषा, यत्सौवर्णो राजतश्च ग्रहावुभयतः स्थाप्येते । तावेतौ वै महिमानौ महिमाख्यौ ग्रहौ, अश्वमभितः सम्बभूवतुः उक्तलक्षणावेव सम्भूतौ । इत्थमसावश्वो महत्त्वयुक्त इति पुनर्वचनं स्तुत्यर्थम् । तथा च हयो भूत्वेत्यादि स्तुत्यर्थमेव । हयो हिनोतेर्गतिकर्मणः, विशिष्टगतिरित्यर्थः ; जातिविशेषो वा ; देवानवहत् देवत्वमगमयत् , प्रजापतित्वात् ; देवानां वा वोढाभवत् ; ननु निन्दैव वाहनत्वम् ; नैष दोषः ; वाहनत्वं स्वाभाविकमश्वस्य, स्वाभाविकत्वादुच्छ्रायप्राप्तिर्देवादिसम्बन्धोऽश्वस्य इति स्तुतिरेवैषा । तथा वाज्यादयो जातिविशेषाः ; वाजी भूत्वा गन्धर्वानवहदित्यनुषङ्गः ; तथार्वा भूत्वासुरान् ; अश्वो भूत्वा मनुष्यान् । समुद्र एवेति परमात्मा, बन्धुर्बन्धनम् , बध्यतेऽस्मिन्निति ; समुद्रो योनिः कारणमुत्पत्तिं प्रति ; एवमसौ शुद्धयोनिः शुद्धस्थितिरिति स्तूयते ; ‘अप्सुयोनिर्वा अश्वः’ (तै. सं. २ । ३ । १२) इति श्रुतेः प्रसिद्ध एव वा समुद्रो योनिः ॥
इति प्रथमाध्यायस्य प्रथमं ब्राह्मणम् ॥
तत्राश्वविषयं तावदादौ दर्शनमुच्यते ।।
प्राजापत्यत्वहेतोश्चाप्यश्वनामाङ्कितत्वतः ।। १ ।।
अश्वस्य यच्छिरः साक्षात्तदुषा इति चिन्तयेत् ।।
हरेरवयवेष्वेवं योज्या कालादिदृष्टयः ।। २ ।।
संस्कार्यत्वात्पशोरेवं दृष्टीरङ्गेषु योज्येत् ।।
कालादावमरवाङ्गत्वान्नाश्वदृष्टिर्विधित्स्यते ।। ३ ।।
सत्स्वश्वादिषु कालादिदृष्टीरङ्गेषु योजयेत् ।।
असत्स्वात्मानमेवाश्वं कल्पयित्वा नियोजयेत् ।। ४ ।।
कर्तारमश्वमग्निं च चित्यं सर्वं प्रजापतिम् ।।
अश्चमेधफलं चार्कं वेत्ति मृत्युं यथोदितम् ।। ५ ।।
अकर्ताऽप्यश्चमेधस्य ब्राह्मणश्चेह बुद्धिमान् ।।
क्रत्वात्मा मृत्युरस्मीति तादात्म्यं सोऽधिगच्छति ।। ६ ।।
अश्वसंज्ञपनात्पूर्वं तथोर्ध्वं चापि हाटक -
राजतात्मकपात्राभ्यां गृह्येते तत्र यौ ग्रहौ ।।
महिमाख्यौ तयोरेतदहर्वा इति दर्शनम् ।। ७ ।।
व्यत्ययेनाववोद्धव्या प्रथमार्थे च सप्तमी ।। ८ ।।
समुद्र ईश्वरो ज्ञेयो योनिः कारंणमुच्यते ।।
सर्वस्य जगतो यंस्मादीश एवेह कारणम् ।। ९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमं ब्राह्मणम्