बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इति प्रस्तुतम् ; तत्र यतो जगज्जातम् , यन्मयम् , यस्मिंश्च लीयते, तदेकं ब्रह्म — इति ज्ञापितम् । किमात्मकं पुनः तज्जगत् जायते, लीयते च ? पञ्चभूतात्मकम् ; भूतानि च नामरूपात्मकानि ; नामरूपे सत्यमिति ह्युक्तम् ; तस्य सत्यस्य पञ्चभूतात्मकस्य सत्यं ब्रह्म । कथं पुनः भूतानि सत्यमिति मूर्तामूर्तब्राह्मणम् । मूर्तामूर्तभूतात्मकत्वात् कार्यकरणात्मकानि भूतानि प्राणा अपि सत्यम् । तेषां कार्यकरणात्मकानां भूतानां सत्यत्वनिर्दिधारयिषया ब्राह्मणद्वयमारभ्यते सैव उपनिषद्व्याख्या । कार्यकरणसत्यत्वावधारणद्वारेण हि सत्यस्य सत्यं ब्रह्म अवधार्यते । अत्रोक्तम् ‘प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । १ । २०) इति ; तत्र के प्राणाः, कियत्यो वा प्राणविषया उपनिषदः का इति च — ब्रह्मोपनिषत्प्रसङ्गेन करणानां प्राणानां स्वरूपमवधारयति — पथिगतकूपारामाद्यवधारणवत् ॥
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि । अयं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ १ ॥
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद, तस्येदं फलम् ; किं तत् ? सप्त सप्तसङ्ख्याकान् ह द्विषतः द्वेषकर्तॄन् भ्रातृव्यान् भ्रातृव्या हि द्विविधा भवन्ति, द्विषन्तः अद्विषन्तश्च — तत्र द्विषन्तो ये भ्रातृव्याः तान् द्विषतो भ्रातृव्यान् अवरुणद्धि ; सप्त ये शीर्षण्याः प्राणा विषयोपलब्धिद्वाराणि तत्प्रभवा विषयरागाः सहजत्वात् भ्रातृव्याः । ते हि अस्य स्वात्मस्थां दृष्टिं विषयविषयां कुर्वन्ति ; तेन ते द्वेष्टारो भ्रातृव्याः, प्रत्यगात्मेक्षणप्रतिषेधकरत्वात् ; काठके चोक्तम् — ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्’ (क. उ. २ । १ । १) इत्यादि ; तत्र यः शिश्वादीन्वेद, तेषां याथात्म्यमवधारयति, स एतान् भ्रातृव्यान् अवरुणद्धि अपावृणोति विनाशयति । तस्मै फलश्रवणेनाभिमुखीभूतायाह — अयं वाव शिशुः । कोऽसौ ? योऽयं मध्यमः प्राणः, शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा शरीरमाविष्टः — बृहन्पाण्डरवासः सोम राजन्नित्युक्तः, यस्मिन् वाङ्मनःप्रभृतीनि करणानि विषक्तानि — पड्वीशशङ्कुनिदर्शनात् स एष शिशुरिव, विषयेष्वितरकरणवदपटुत्वात् ; शिशुं साधानमित्युक्तम् ; किं पुनस्तस्य शिशोः वत्सस्थानीयस्य करणात्मन आधानम् तस्य इदमेव शरीरम् आधानं कार्यात्मकम् — आधीयतेऽस्मिन्नित्याधानम् ; तस्य हि शिशोः प्राणस्य इदं शरीरमधिष्ठानम् ; अस्मिन्हि करणान्यधिष्ठितानि लब्धात्मकानि उपलब्धिद्वाराणि भवन्ति, न तु प्राणमात्रे विषक्तानि ; तथा हि दर्शितमजातशत्रुणा — उपसंहृतेषु करणेषु विज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय उपलभमान उपलभ्यते — तच्च दर्शितं पाणिपेषप्रतिबोधनेन । इदं प्रत्याधानं शिरः ; प्रदेशविशेषेषु — प्रति — प्रत्याधीयत इति प्रत्याधानम् । प्राणः स्थूणा अन्नपानजनिता शक्तिः — प्राणो बलमिति पर्यायः ; बलावष्टम्भो हि प्राणः अस्मिन् शरीरे — ‘स यत्रायमात्माबल्यं न्येत्य सम्मोहमिव’ (बृ. उ. ४ । ४ । १) इति दर्शनात् — यथा वत्सः स्थूणावष्टम्भः एवम् । शरीरपक्षपाती वायुः प्राणः स्थूणेति केचित् । अन्नं दाम — अन्नं हि भुक्तं त्रेधा परिणमते ; यः स्थूलः परिणामः, स एतद्द्वयं भूत्वा, इमामप्येति — मूत्रं च पुरीषं च ; यो मध्यमो रसः, स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्तधातुकमुपचिनोति ; स्वयोन्यन्नागमे हि शरीरमुपचीयते, अन्नमयत्वात् ; विपर्ययेऽपक्षीयते पतति ; यस्तु अणिष्ठो रसः — अमृतम् ऊर्क् प्रभावः — इति च कथ्यते, स नाभेरूर्ध्वं हृदयदेशमागत्य, हृदयाद्विप्रसृतेषु द्वासप्ततिनाडीसहस्रेष्वनुप्रविश्य, यत्तत् करणसङ्घातरूपं लिङ्गं शिशुसंज्ञकम् , तस्य शरीरे स्थितिकारणं भवति बलमुपजनयत् स्थूणाख्यम् ; तेन अन्नम् उभयतः पाशवत्सदामवत् प्राणशरीरयोर्निबन्धनं भवति ॥
इदानीं तस्यैव शिशोः प्रत्याधान ऊढस्य चक्षुषि काश्चनोपनिषद उच्यन्ते —
तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षन्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका तयादित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद ॥ २ ॥
तमेताः सप्ताक्षितय उपतिष्ठन्ते — तं करणात्मकं प्राणं शरीरेऽन्नबन्धनं चक्षुष्यूढम् एताः वक्ष्यमाणाः सप्त सप्तसङ्ख्याकाः अक्षितयः, अक्षितिहेतुत्वात् , उपतिष्ठन्ते । यद्यपि मन्त्रकरणे तिष्ठतिरुपपूर्वः आत्मनेपदी भवति, इहापि सप्त देवताभिधानानि मन्त्रस्थानीयानि करणानि ; तिष्ठतेः अतः अत्रापि आत्मनेपदं न विरुद्धम् । कास्ता अक्षितय इत्युच्यन्ते — तत् तत्र या इमाः प्रसिद्धाः, अक्षन् अक्षणि लोहिन्यः लोहिताः राजयः रेखाः, ताभिः द्वारभूताभिः एनं मध्यमं प्राणं रुद्रः अन्वायत्तः अनुगतः ; अथ याः अक्षन् अक्षणि आपः धूमादिसंयोगेनाभिव्यज्यमानाः, ताभिः अद्भिर्द्वारभूताभिः पर्जन्यो देवतात्मा अन्वायत्तः अनुगत उपतिष्ठत इत्यर्थः । स च अन्नभूतोऽक्षितिः प्राणस्य, ‘पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति’ (प्र. उ. २ । १०) इति श्रुत्यन्तरात् । या कनीनका दृक्शक्तिः तया कनीनकया द्वारेण आदित्यो मध्यमं प्राणमुपतिष्ठते । यत्कृष्णं चक्षुषि, तेन एनमग्निरुपतिष्ठते । यच्छुक्लं चक्षुषि, तेन इन्द्रः । अधरया वर्तन्या पक्ष्मणा एनं पृथिवी अन्वायत्ता, अधरत्वसामान्यात् । द्यौः उत्तरया, ऊर्ध्वत्वसामान्यात् । एताः सप्त अन्नभूताः प्राणस्य सन्ततमुपतिष्ठन्ते — इत्येवं यो वेद, तस्यैतत्फलम् — नास्यान्नं क्षीयते, य एवं वेद ॥
तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम् । तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपमिति प्राणा वै यशो विश्वरूपं प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३ ॥
तत् तत्र एतस्मिन्नर्थे एष श्लोकः मन्त्रो भवति — अर्वाग्बिलश्चमस इत्यादिः । तत्र मन्त्रार्थमाचष्टे श्रुतिः — अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । कः पुनरसावर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ? इदं तत् ; शिरः चमसाकारं हि तत् ; कथम् ? एष हि अर्वाग्बिलः मुखस्य बिलरूपत्वात् , शिरसो बुध्नाकारत्वात् ऊर्ध्वबुध्नः । तस्मिन् यशो निहितं विश्वरूपमिति — यथा सोमः चमसे, एवं तस्मिन् शिरसि विश्वरूपं नानारूपं निहितं स्थितं भवति । किं पुनस्तत् ? यशः — प्राणा वै यशो विश्वरूपम् — प्राणाः श्रोत्रादयः वायवश्च मरुतः सप्तधा तेषु प्रसृताः यशः — इत्येतदाह मन्त्रः, शब्दादिज्ञानहेतुत्वात् । तस्यासत ऋषयः सप्त तीर इति — प्राणाः परिस्पन्दात्मकाः, त एव च ऋषयः, प्राणानेतदाह मन्त्रः । वागष्टमी ब्रह्मणा संविदानेति — ब्रह्मणा संवादं कुर्वन्ती अष्टमी भवति ; तद्धेतुमाह — वाग्घ्यष्टमी ब्रह्मणा संवित्त इति ॥
इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवं वेद ॥ ४ ॥
के पुनस्तस्य चमसस्य तीर आसत ऋषय इति — इमावेव गोतमभरद्वाजौ कर्णौ — अयमेव गोतमः अयं भरद्वाजः दक्षिणश्च उत्तरश्च, विपर्ययेण वा । तथा चक्षुषी उपदिशन्नुवाच — इमावेव विश्वामित्रजमदग्नी दक्षिणं विश्वामित्रः उत्तरं जमदग्निः, विपर्ययेण वा । इमावेव वसिष्ठकश्यपौ — नासिके उपदिशन्नुवाच ; दक्षिणः पुटो भवति वसिष्ठः ; उत्तरः कश्यपः — पूर्ववत् । वागेव अत्रिः अदनक्रियायोगात् सप्तमः ; वाचा ह्यन्नमद्यते ; तस्मादत्तिर्हि वै प्रसिद्धं नामैतत् — अत्तृत्वादत्तिरिति, अत्तिरेव सन् यदत्रिरित्युच्यते परोक्षेण । सर्वस्य एतस्यान्नजातस्य प्राणस्य, अत्रिनिर्वचनविज्ञानादत्ता भवति । अत्तैव भवति नामुष्मिन्नन्येन पुनः प्रत्यद्यते इत्येतदुक्तं भवति — सर्वमस्यान्नं भवतीति । य एवम् एतत् यथोक्तं प्राणयाथात्म्यं वेद, स एवं मध्यमः प्राणो भूत्वा आधानप्रत्याधानगतो भोक्तैव भवति, न भोज्यम् ; भोज्याद्व्यावर्तत इत्यर्थः ॥
इति द्वितीयाध्यायस्य द्वितीयम् ब्राह्मणम् ॥
जगज्जनिस्थितिध्वंसा यस्मात्सिध्यन्ति तत्परम् ।।
ब्रह्मेति प्राक्प्रतिज्ञाय यथावदुपदर्शितम् ।। १ ।।
तस्योपनिषदित्युक्तं तद्व्याख्याऽत्राधुनोच्यते ।।
आ मैत्रेय्याः परब्रह्मसत्यस्य प्रतिपत्तये ।। २ ।।
सृष्टिप्रस्ताव एतस्मिन्प्राणादेर्जन्म सूत्रितम् ।।
यतोऽतः प्राणसंबन्धात्पूर्वं व्याख्या प्रपञ्च्यते ।। ३ ।।
ततः परेण लोकादेरपि याथात्म्यमुच्यते ।।
अध्यात्ममधिदैवं च देवताकरणाश्रयम् ।। ४ ।।
प्राणादि सर्वमेवेदं पञ्चभूतसतत्त्वकम् ।।
न हि भूतातिरेकेण प्रतीचः किंचिदिष्यते ।। ५ ।।
प्राणा वै सत्यमित्युक्तं के प्राणा इति यत्नतः ।।
व्याख्यायन्तेऽथ ते प्राणास्तथोपनिषदश्च याः ।। ६ ।।
प्राणेन मध्यमेनान्नं जग्धं वागादितर्पणम् ।।
यथा करोति तद्वाच्यं प्राणोपनिषदश्च याः ।। ७ ।।
यो ह वा इति प्रश्नोक्तिस्तस्यायमिति निर्णयः ।।
शरीरेऽभ्याहितः प्राणो मूर्ध्नि प्रत्याहितस्तथा ।। ८ ।।
विषयेष्वनभिष्वङ्गाच्छिशुः प्राणोऽभिधीयते ।।
वागादेरिव नाऽऽसङ्गो यतः प्राणस्य विद्यते ।। ९ ।।
शीर्षण्यप्राणसंस्था ये शब्दाद्यासङ्गलक्षणाः ।।
भ्रातृव्यास्ते सहोत्पत्तेः प्रत्यग्दृष्ट्यपहारतः ।। १० ।।
शरीरमस्याऽऽधानं स्याच्छरीरेऽवस्थितो यतः ।।
सामान्यवृत्त्या प्राणोऽयं तस्मादाधानमुच्यते ।। ११ ।।
शरीराश्रयिणं प्राणं यतो वागादयः श्रिताः ।।
अलं स्वकार्यनिष्पत्तौ न तु प्राणैकसंश्रिताः ।। १२ ।।
प्रति प्रत्याहितत्वाच्च प्रत्याधानं शिरो विदुः ।।
शिरोदेशविशेषेषु प्रति प्रति स आहितः ।। १३ ।।
अन्नपानसमुत्था हि शक्तिः प्राणो बलं तथा ।।
बलावष्टम्भ एतस्मिन्प्राणो देहेऽवतिष्ठते ।। १४ ।।
अबल्यं नीत्वेति तथा प्राणोत्क्रान्तिः प्रवक्ष्यते ।।
उच्छ्ट्वासादिक्रियं केचिद्वायुं स्थूणां प्रचक्षते ।। १५ ।।
जाठराग्न्यभिसंबन्धाज्जग्धमन्नं त्रिधा क्रमात् ।।
परिणामं व्रजत्यतत्स्थूलमध्यमसूक्ष्मतः ।। १६ ।।
स्थूलांशः पृथिवीमेति पुरीषं मूत्रमेव च ।।
स्थूलदेहोपचित्यर्थो मध्यमोंऽशः प्रकीर्तितः ।। १७ ।।
यस्तु सूक्ष्मो रसोऽन्नस्य भागोऽमृतमितीर्यते ।।
स हृद्देशं समागम्य नाडीमध्यसमाश्रयः ।। १८ ।।
हृदयाद्विप्रकीर्णाभिर्नाडीभिर्लिङ्गदेवताः ।।
प्रीणयन्नुपचिन्वश्च दामान्नमिति भण्यते ।। १९ ।।
देहं रसादिना बद्ध्वा सूक्ष्मांशेन शिशुं तथा ।।
पाशद्वयाभिसंबन्धादन्नं दामेति शब्द्यते ।। २० ।।
दाम प्रतनुतां याति यदा कर्मक्षयात्तदा ।।
यथास्वं यान्त्यथ प्राणा देहादुच्छिन्नबन्धनाः ।। २१ ।।
प्रत्याधानसमूढस्य शिशोस्तस्यैव काश्चन ।।
अक्ष्ण्युपनिषदो वाच्यास्तमेता इत्यतः श्रुतिः ।। २२ ।।
उपासतेऽक्षणि प्राणं रुद्राद्याः सप्त देवताः ।।
अक्षीणा इति ता ज्ञात्वा नान्नक्षयमुपाश्नुते ।। २३ ।।
मूर्ध्नि प्रत्याहितं प्राणमृषयः प्राणसंज्ञकाः ।।
रुद्राद्य मध्यमे यत्नात्सततं पर्युपासते ।। २४ ।।
अक्षण्येव यतः पूर्वं व्याख्यातो देवतागणः ।।
श्रोत्रादिकारणार्थोऽथं श्लोकस्तस्मादुदाहृतः ।। २५ ।।
विश्वरूपं यशो ज्ञेयं शब्दाद्यर्थावभासकम् ।।
तेजस्तच्चाप्यनेकात्मविभिन्नार्थावभासनात् ।। २६ ।।
तीरे तस्याऽऽसते सप्त वायवः करणाश्रयाः ।।
ऋषयश्च यशश्चेति प्राणा उक्तेन हेतुना ।। २७ ।।
वक्तृत्वात्तृत्वभेदेन वाग्द्विधैकैव भिद्यते ।।
सप्तमी चाष्टमी चेति सैवैका प्रोच्यते ततः ।। २८ ।।
वर्णनिष्पादनं वाचा तथाऽऽद्यरसवेदनम् ।।
भवेद्द्विकर्मसंयोगात्सप्तमी चाष्टमी च वाक् ।। २९ ।।
विशिष्टाह्वानसिद्ध्यर्थमृषीणामुत्तरा श्रुतिः ।।
इमावेवेति च तथा फलवत्स्यादुपासनम् ।। ३० ।।
सर्वस्येति फलोक्तिः स्यादुक्तोपासनकर्मणः ।।
अन्नात्तृत्वनिषेधार्थं सर्वमस्येति भण्यते ।। ३१ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयाध्यायस्य द्वितीयं ब्राह्मणम्