बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
अथ वंशः पौतिमाष्यो गौपवनाद्गौपवनः पौतिमाष्यात्पौतिमाष्यो गौपवनाद्गौपवनः कौशिकात्कौशिकः कौण्डिन्यात्कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १ ॥
आग्निवेश्यादाग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्चानभिम्लात आनभिम्लातादानभिम्लात आनभिम्लातादानभिम्लातो गौतमाद्गौतमः सैतवप्राचीनयोग्याभ्यां सैतवप्राचीनयोग्यौ पाराशर्यात्पारशर्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्च गौतमाच्च गौतमो भारद्वाजाद्भारद्वाजः पाराशर्यात्पाराशर्यो बैजवापायनाद्बैजवापायनः कौशिकायनेः कौशिकायनिः ॥ २ ॥
घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्य आसुरायणाच्च यास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद्गौतमो गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहारितो गालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वंसनान्मृत्युः प्राध्वंसनः प्रध्वंसनात्प्रध्वंसन एकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३ ॥
अथेदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः । मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च । तत्र वंश इव वंशः — यथा वेणुः वंशः पर्वणः पर्वणो हि भिद्यते तद्वत् अग्रात्प्रभृति आ मूलप्राप्तेः अयं वंशः ; अध्यायचतुष्टयस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते ; तत्र प्रथमान्तः शिष्यः पञ्चम्यन्त आचार्यः ; परमेष्ठी विराट् ; ब्रह्मणो हिरण्यगर्भात् ; ततः परम् आचार्यपरम्परा नास्ति । यत्पुनर्ब्रह्म, तन्नित्यं स्वयम्भु, तस्मै ब्रह्मणे स्वयम्भुवे नमः ॥
इति द्वितीयाध्यायस्य षष्ठं ब्राह्मणम् ॥
स्तुत्यर्थं ब्रह्मविद्याया ब्रह्मविद्वंश उच्यते ।।
जपोऽयं ब्रह्मविज्ञानजन्मने चोद्यते श्रुतौ ।। १ ।।
पुंमत्यूहोत्थिताशङ्कानिवृत्त्यर्थं यथोदितम् ।।
ब्रह्मज्ञानस्य वा वंशो यत्नाच्छ्रुत्याऽयमुच्यते ।। २ ।।
यस्यानुशासनं तस्य स्वयंभोः प्रतिपत्तये ।।
पौतिमाष्यादिको ग्रन्थः श्रुत्याऽथ प्रतिपाद्यते ।। ३ ।।
अग्रात्प्रभृति वंशोऽयमावेदब्रह्ममूलतः ।।
भिन्नहेतुनिषेधार्थं स्वयंभु ब्रह्म शब्द्यते ।। ४ ।।
यस्मादपरतन्त्रोऽयं वेदात्मा ब्रह्म भण्यते ।।
मनोवाक्कर्मभिस्तस्माद्भक्त्या तस्मै नमः सदा ।। ५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयाध्यायस्य षष्ठं ब्राह्मणम्
शतानि दश पञ्चैव श्लोकाः सप्तदशापरे ।।
श्लोकसंख्याऽत्र विज्ञेया चतुर्थाध्यायवार्तिके ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीसुरेश्वराचार्यविरचिते बृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयोऽध्यायः