बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
आख्यायिकासम्बन्धः प्रसिद्ध एव । मृत्योरतिमुक्तिर्व्याख्याता काललक्षणात् कर्मलक्षणाच्च ; कः पुनरसौ मृत्युः, यस्मात् अतिमुक्तिर्व्याख्याता ? स च स्वाभाविकाज्ञानसङ्गास्पदः अध्यात्माधिभूतविषयपरिच्छिन्नः ग्रहातिग्रहलक्षणो मृत्युः । तस्मात्परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाणि अग्न्यादित्यादीनि उद्गीथप्रकरणे व्याख्यातानि ; अश्वलप्रश्ने च तद्गतो विशेषः कश्चित् ; तच्च एतत् कर्मणां ज्ञानसहितानां फलम् । एतस्मात्साध्यसाधनरूपात्संसारान्मोक्षः कर्तव्य इत्यतः बन्धनरूपस्य मृत्योः स्वरूपमुच्यते ; बद्धस्य हि मोक्षः कर्तव्यः । यदपि अतिमुक्तस्य स्वरूपमुक्तम् , तत्रापि ग्रहातिग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम् ; तथा चोक्तम् — ‘अशनाया हि मृत्युः’ (बृ. उ. १ । २ । १) ; ‘एष एव मृत्युः’ (श. ब्रा. १० । ५ । २ । ३) इति आदित्यस्थं पुरुषमङ्गीकृत्य आह, ‘एको मृत्युर्बहवा’ (श. ब्रा. १० । ५ । २ । १६) इति च ; तदात्मभावापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते ; न च तत्र ग्रहातिग्रहौ मृत्युरूपौ न स्तः ; ‘अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः’ (बृ. उ. १ । ५ । १२) ‘मनश्च ग्रहः स कामेनातिग्राहेण गृहीतः’ (बृ. उ. ३ । २ । ७) इति वक्ष्यति — ‘प्राणो वै ग्रहः सोऽपानेनातिग्राहेण’ (बृ. उ. ३ । २ । २) इति, ‘वाग्वै ग्रहः स नाम्नातिग्राहेण’ (बृ. उ. ३ । २ । ३) इति च । तथा त्र्यन्नविभागे व्याख्यातमस्माभिः । सुविचारितं चैतत् — यदेव प्रवृत्तिकारणम् , तदेव निवृत्तिकारणं न भवतीति ॥
केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते ; अतः कारणात् — पूर्वस्मात्पूर्वस्मात् मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानः — व्यावृत्त्यर्थमेव प्रतिपद्यते, न तु तादर्थ्यम् — इत्यतः आद्वैतक्षयात् सर्वं मृत्युः, द्वैतक्षये तु परमार्थतो मृत्योराप्तिमतिमुच्यते ; अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले । सर्वमेतत् एवम् अबार्हदारण्यकम् । ननु सर्वैकत्वं मोक्षः, ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति श्रुतेः — बाढं भवत्येतदपि ; न तु ‘ग्रामकामो यजेत’ (तै. आ. १२ । १० । ४) ‘पशुकामो यजेत’ (तै. आ. १६ । १२ । ८) इत्यादिश्रुतीनां तादर्थ्यम् ; यदि हि अद्वैतार्थत्वमेव आसाम् , ग्रामपशुस्वर्गाद्यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन् ; गृह्यन्ते तु कर्मफलवैचित्र्यविशेषाः ; यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत् । अथ तादर्थ्येऽपि अनुनिष्पादितपदार्थस्वभावः संसार इति चेत् , यथा च रूपदर्शनार्थ आलोके सर्वोऽपि तत्रस्थः प्रकाश्यत एव — न, प्रमाणानुपपत्तेः ; अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानाम् , अन्यस्यानुनिष्पादितत्वे प्रमाणानुपपत्तिः — न प्रत्यक्षम् , नानुमानम् , अत एव च न आगमः । उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत् , कुल्याप्रणयनालोकादिवत् — तन्नैवम् , वाक्यधर्मानुपपत्तेः ; न च एकवाक्यगतस्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते ; कुल्याप्रणयनालोकादौ अर्थस्य प्रत्यक्षत्वाददोषः । यदप्युच्यते — मन्त्रा अस्मिन्नर्थे दृष्टा इति — अयमेव तु तावदर्थः प्रमाणागम्यः ; मन्त्राः पुनः किमस्मिन्नर्थे आहोस्विदन्यस्मिन्नर्थे इति मृग्यमेतत् । तस्माद्ग्रहातिग्रहलक्षणो मृत्युः बन्धः, तस्मात् मोक्षो वक्तव्य इत्यत इदमारभ्यते । न च जानीमो विषयसम्बन्धाविव अन्तरालेऽवस्थानम् अर्धजरतीयं कौशलम् । यत्तु मृत्योरतिमुच्यते इत्युक्त्वा ग्रहातिग्रहावुच्येते, तत्तु अर्थसम्बन्धात् ; सर्वोऽयं साध्यसाधनलक्षणो बन्धः, ग्रहातिग्रहाविनिर्मोकात् ; निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो भवति । तस्मात् तादर्थ्येन आरम्भः ॥
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥
अथ हैनम् — ह - शब्द ऐतिह्यार्थः ; अथ अनन्तरम् अश्वले उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारवः ऋतभागस्यापत्यम् आर्तभागः पप्रच्छ ; याज्ञवल्क्येति होवाचेति अभिमुखीकरणाय ; पूर्ववत्प्रश्नः — कति ग्रहाः कत्यतिग्रहा इति । इति - शब्दो वाक्यपरिसमाप्त्यर्थः । तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यात् , अनिर्ज्ञातेषु वा ; यदि तावत् ग्रहा अतिग्रहाश्च निर्ज्ञाताः, तदा तद्गतस्यापि गुणस्य सङ्ख्याया निर्ज्ञातत्वात् कति ग्रहाः कत्यतिग्रहा इति सङ्ख्याविषयः प्रश्नो नोपपद्यते ; अथ अनिर्ज्ञाताः तदा सङ्ख्येयविषयप्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यम् , न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः ; अपि च निर्ज्ञातसामान्यकेषु विशेषविज्ञानाय प्रश्नो भवति — यथा कतमेऽत्र कठाः कतमेऽत्र कालापा इति ; न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः, येन विशेषार्थः प्रश्नः स्यात् ; ननु च ‘अतिमुच्यते’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५) इत्युक्तम् , ग्रहगृहीतस्य हि मोक्षः, ‘स मुक्तिः सातिमुक्तिः’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५), (बृ. उ. ३ । १ । ६) इति हि द्विरुक्तम् , तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च — ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाताः वाक्चक्षुःप्राणमनांसि, तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् — न, अनवधारणार्थत्वात् ; न हि चतुष्ट्वं तत्र विवक्षितम् ; इह तु ग्रहातिग्रहदर्शने अष्टत्वगुणविवक्षया कतीति प्रश्न उपपद्यत एव ; तस्मात् ‘स मुक्तिः सातिमुक्तिः’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५), (बृ. उ. ३ । १ । ६) इति मुक्त्यतिमुक्ती द्विरुक्ते ; ग्रहातिग्रहा अपि सिद्धाः । अतः कतिसङ्ख्याका ग्रहाः, कति वा अतिग्रहाः इति पृच्छति । इतर आह — अष्टौ ग्रहा अष्टावतिग्रहा इति । ये ते अष्टौ ग्रहा अभिहिताः, कतमे ते नियमेन ग्रहीतव्या इति ॥
प्राणो वै ग्रहः सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति ॥ २ ॥
तत्र आह — प्राणो वै ग्रहः — प्राण इति घ्राणमुच्यते, प्रकरणात् ; वायुसहितः सः ; अपानेनेति गन्धेनेत्येतत् ; अपानसचिवत्वात् अपानो गन्ध उच्यते ; अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति ; तदेतदुच्यते — अपानेन हि गन्धाञ्जिघ्रतीति ॥
वाग्वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३ ॥
जिह्वा वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४ ॥
चक्षुर्वै ग्रहः स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥
श्रोत्रं वै ग्रहः स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्शृणोति ॥ ६ ॥
मनो वै ग्रहः स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७ ॥
हस्तौ वै ग्रहः स कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति ॥ ८ ॥
त्वग्वै ग्रहः स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥
वाग्वै ग्रहः — वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन वाक् ग्रहः ; स नाम्नातिग्राहेण गृहीतः — सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण । अतिग्राहेणेति दैर्घ्यं छान्दसम् ; वक्तव्यार्था हि वाक् ; तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता ; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः ; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते ; वक्तव्यासङ्गेन प्रवृत्ता सर्वानर्थैर्युज्यते । समानमन्यत् । इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति ॥ १० ॥
उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः — याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्योरन्नम् — यदिदं व्याकृतं सर्वं मृत्योरन्नम् , सर्वं जायते विपद्येत च ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् — का स्वित् का नु स्यात् सा देवता, यस्या देवताया मृत्युरप्यन्नं भवेत् — ‘मृत्युर्यस्योपसेचनम्’ (क. उ. १ । २ । २५) इति श्रुत्यन्तरात् । अयमभिप्रायः प्रष्टुः — यदि मृत्योर्मृत्युं वक्ष्यति, अनवस्था स्यात् ; अथ न वक्ष्यति, अस्माद्ग्रहातिग्रहलक्षणान्मृत्योः मोक्षः नोपपद्यते ; ग्रहातिग्रहमृत्युविनाशे हि मोक्षः स्यात् ; स यदि मृत्योरपि मृत्युः स्यात् भवेत् ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः — अतः दुर्वचनं प्रश्नं मन्वानः पृच्छति ‘का स्वित्सा देवता’ इति । अस्ति तावन्मृत्योर्मृत्युः ; ननु अनवस्था स्यात् — तस्याप्यन्यो मृत्युरिति — नानवस्था, सर्वमृत्योः मृत्य्वन्तरानुपपत्तेः ; कथं पुनरवगम्यते — अस्ति मृत्योर्मृत्युरिति ? दृष्टत्वात् ; अग्निस्तावत् सर्वस्य दृष्टो मृत्युः, विनाशकत्वात् , सोऽद्भिर्भक्ष्यते, सोऽग्निः अपामन्नम् , गृहाण तर्हि अस्ति मृत्योर्मृत्युरिति ; तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना ; तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति ; बन्धनं हि ग्रहातिग्रहलक्षणमुक्तम् ; तस्माच्च मोक्ष उपपद्यत इत्येतत्प्रसाधितम् । अतः बन्धमोक्षाय पुरुषप्रयासः सफलो भवति ; अतोऽपजयति पुनर्मृत्युम् ॥
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते ॥ ११ ॥
परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तः विद्वान् , सोऽयं पुरुषः यत्र यस्मिन्काले म्रियते, उत् ऊर्ध्वम् , अस्मात् ब्रह्मविदो म्रियमाणात् , प्राणाः - वागादयो ग्रहाः नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः — क्रामन्त्यूर्ध्वम् उत्क्रामन्ति, आहोस्विन्नेति । नेति होवाच याज्ञवल्क्यः — नोत्क्रामन्ति ; अत्रैव अस्मिन्नेव परेणात्मना अविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्त्वे समवनीयन्ते, एकीभावेन समवसृज्यन्ते, प्रलीयन्त इत्यर्थः — ऊर्मय इव समुद्रे । तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति — ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र . उ. ६ । ५) इति — परेणात्मना अविभागं गच्छन्तीति दर्शितम् । न तर्हि मृतः — न हि ; मृतश्च अयम् — यस्मात् स उच्छ्वयति उच्छूनतां प्रतिपद्यते, आध्मायति बाह्येन वायुना पूर्यते, दृतिवत् , आध्मातः मृतः शेते निश्चेष्टः ; बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः ॥
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव सतेन लोकं जयति ॥ १२ ॥
मुक्तस्य किं प्राणा एव समवनीयन्ते ? आहोस्वित् तत्प्रयोजकमपि सर्वम् ? अथ प्राणा एव, न तत्प्रयोजकं सर्वम् , प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः ; अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यते — इत्येवमर्थः उत्तरः प्रश्नः । याज्ञवल्क्येति होवाच — यत्रायं पुरुषो म्रियते किमेनं न जहातीति ; आह इतरः — नामेति ; सर्वं समवनीयते इत्यर्थः ; नाममात्रं तु न लीयते, आकृतिसम्बन्धात् ; नित्यं हि नाम ; अनन्तं वै नाम ; नित्यत्वमेव आनन्त्यं नाम्नः । तदानन्त्याधिकृताः अनन्ता वै विश्वे देवाः ; अनन्तमेव स तेन लोकं जयति — तन्नामानन्त्याधिकृतान् विश्वान्देवान् आत्मत्वेनोपेत्य तेन आनन्त्यदर्शनेन अनन्तमेव लोकं जयति ॥
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमार्तभागावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयाञ्चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥
ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपम् ; तस्य च मृत्योः मृत्युसद्भावान्मोक्षश्चोपपद्यते ; स च मोक्षः ग्रहातिग्रहरूपाणामिहैव प्रलयः, प्रदीपनिर्वाणवत् ; यत्तत् ग्रहातिग्रहाख्यं बन्धनं मृत्युरूपम् , तस्य यत्प्रयोजकं तत्स्वरूपनिर्धारणार्थमिदमारभ्यते — याज्ञवल्क्येति होवाच ॥
अत्र केचिद्वर्णयन्ति — ग्रहातिग्रहस्य सप्रयोजकस्य विनाशेऽपि किल न मुच्यते ; नामावशिष्टः अविद्यया ऊषरस्थानीयया स्वात्मप्रभवया परमात्मनः परिच्छिन्नः भोज्याच्च जगतो व्यावृत्तः उच्छिन्नकामकर्मा अन्तराले व्यवतिष्ठते ; तस्य परमात्मैकत्वदर्शनेन द्वैतदर्शनमपनेतव्यमिति — अतः परं परमात्मदर्शनमारब्धव्यम् — इति ; एवम् अपवर्गाख्यामन्तरालावस्थां परिकल्प्य उत्तरग्रन्थसम्बन्धं कुर्वन्ति ॥
तत्र वक्तव्यम् — विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यसनानि कथमिति ; समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते ; ‘मृतः शेते’ (बृ. उ. ३ । २ । ११) इति ह्युक्तम् ; न मनोरथेनाप्येतदुपपादयितुं शक्यते । अथ जीवन्नेव अविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्तु किं निमित्तमिति वक्तव्यम् ; समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्येत, तत् पूर्वमेव निराकृतम् ; कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान् मृतः समवनीतप्राणः जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयात् , असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः विरक्तः परमात्मदर्शनाभिमुखः स्यात् । न च उभयम् एकप्रयत्ननिष्पाद्येन साधनेन लभ्यम् ; हिरण्यगर्भप्राप्तिसाधनं चेत् , न ततो व्यावृत्तिसाधनम् ; परमात्माभिमुखीकरणस्य भोज्याद्व्यावृत्तेः साधनं चेत् , न हिरण्यगर्भप्राप्तिसाधनम् ; न हि यत् गतिसाधनम् , तत् गतिनिवृत्तेरपि । अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणः नामावशिष्टः परमात्मज्ञानेऽधिक्रियते, ततः अस्मदाद्यर्थं परमात्मज्ञानोपदेशः अनर्थकः स्यात् ; सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते — ‘तद्यो यो देवानाम्’ (बृ. उ. १ । ४ । १०) इत्याद्यया श्रुत्या । तस्मात् अत्यन्तनिकृष्टा शास्त्रबाह्यैव इयं कल्पना । प्रकृतं तु वर्तयिष्यामः ॥
तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं बन्धनमित्येतन्निर्दिधारयिषया आह — यत्रास्य पुरुषस्य असम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्य — वाक् अग्निमप्येति, वातं प्राणोऽप्येति, चक्षुरादित्यमप्येति — इति सर्वत्र सम्बध्यते ; मनः चन्द्रम् , दिशः श्रोत्रम् , पृथिवीं शरीरम् , आकाशमात्मेत्यत्र आत्मा अधिष्ठानं हृदयाकाशमुच्यते ; स आकाशमप्येति ; ओषधीरपियन्ति लोमानि ; वनस्पतीनपियन्ति केशाः ; अप्सु लोहितं च रेतश्च — निधीयते इति — पुनरादानलिङ्गम् ; सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते ; न तु करणान्येवापक्रामन्ति प्राङ्मोक्षात् ; तत्र देवताभिरनधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि, विदेहश्च कर्ता पुरुषः अस्वतन्त्रः किमाश्रितो भवतीति पृच्छ्यते — क्वायं तदा पुरुषो भवतीति — किमाश्रितः तदा पुरुषो भवतीति ; यम् आश्रयमाश्रित्य पुनः कार्यकरणसङ्घातमुपादत्ते, येन ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत् किमिति प्रश्नः । अत्रोच्यते — स्वभावयदृच्छाकालकर्मदैवविज्ञानमात्रशून्यानि वादिभिः परिकल्पितानि ; अतः अनेकविप्रतिपत्तिस्थानत्वात् नैव जल्पन्यायेन वस्तुनिर्णयः ; अत्र वस्तुनिर्णयं चेदिच्छसि, आहर सोम्य हस्तम् आर्तभाग हे — आवामेव एतस्य त्वत्पृष्टस्य वेदितव्यं यत् , तत् वेदिष्यावः निरूपयिष्यावः ; कस्मात् ? न नौ आवयोः एतत् वस्तु सजने जनसमुदाये निर्णेतुं शक्यते ; अत एकान्तं गमिष्यावः विचारणाय । तौ हेत्यादि श्रुतिवचनम् । तौ याज्ञवल्क्यार्तभागौ एकान्तं गत्वा किं चक्रतुरित्युच्यते — तौ ह उत्क्रम्य सजनात् देशात् मन्त्रयाञ्चक्राते ; आदौ लौकिकवादिपक्षाणाम् एकैकं परिगृह्य विचारितवन्तौ । तौ ह विचार्य यदूचतुरपोह्य पूर्वपक्षान्सर्वानेव — तच्छृणु ; कर्म हैव आश्रयं पुनः पुनः कार्यकरणोपादानहेतुम् तत् तत्र ऊचतुः उक्तवन्तौ — न केवलम् ; कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंसतुस्तौ, कर्म हैव तत्प्रशशंसतुः — यस्मान्निर्धारितमेतत् कर्मप्रयुक्तं ग्रहातिग्रहादिकार्यकरणोपादानं पुनः पुनः, तस्मात् पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति, तद्विपरीतेन विपरीतो भवति पापः पापेन — इति एवं याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु, ततः अशक्यप्रकम्पत्वात् याज्ञवल्क्यस्य, ह जारत्कारव आर्तभाग उपरराम ॥
इति तृतीयाध्यायस्य द्वितीयं ब्राह्मणम् ॥
मृत्योर्मुक्त्यतिमुक्ती द्वे पूर्वस्मिन्ब्राह्मणे गते ।।
मृत्युरूपावधृतये परं ब्राह्मणमुच्यते ।। १ ।।
किंलक्षणेन ग्रस्तोऽयं मृत्युनेति प्रचोदिते ।।
ग्रहातिग्रहरूपेण ग्रस्तोऽयमिति कथ्यते ।। २ ।।
अधिभूताधियज्ञादिपरिच्छेदफलात्मकः ।।
मोहासङ्गास्पदो मृत्युर्ग्रहातिग्रहलक्षणः ।। ३ ।।
इतो मुक्तस्य रूपाणि त्वग्न्यादीनि पुराऽब्रवम् ।।
उद्गीथब्राह्मणे पूर्वमश्वलब्राह्मणे तथा ।। ४ ।।
फलं च ज्ञानयुक्तानां कर्मणामेतदिष्यते ।।
उत्पत्त्याद्यन्वयात्तस्मादनित्यं स्याद्घटादिवत् ।। ५ ।।
अतो यथोक्तादेतस्मात्साध्यसाधनलक्षणात् ।।
संसारद्बन्धनान्मोक्षः कर्तव्यो ज्ञानहेतुतः ।। ६ ।।
ज्ञानकर्मफलं दिव्यं यदि नाम पुरोदितम् ।।
ग्रहातिग्रहबन्धेन तथाऽपि सितमेव तत् ।। ७ ।।
वाङ्भनःप्राणरूपाणां त्र्यन्नात्मन्यपि संभवात् ।।
ग्रहातिग्रहरूपाणां नातो मुक्तः प्रजापतिः ।। ८ ।।
वागादयो ग्रहा ज्ञाताश्चतुष्ट्वं चाविवक्षितम् ।।
अतिमोक्षातिदेशोक्तेस्तद्विशेषोऽथ भण्यते ।। ९ ।।
ग्रहा घ्राणादयो ज्ञेया गन्धाद्यास्तदतिग्रहाः ।।
ग्रहैर्गन्धादयो ग्रस्ता ग्रहाश्चाऽऽत्मा च गोचरैः ।। १० ।।
अपानेनाऽऽहृतो गन्धो घ्राणस्यैति वशं यथा ।।
चक्षुरादिग्रहास्तद्वत्प्राणादिसचिवैरिह ।। ११ ।।
गन्धादिविषया धीस्थाः कर्मसंबोधिता यतः ।।
प्रयुञ्जते हि घ्राणादींस्ततस्ते स्युरतिग्रहाः ।। १२ ।।
योऽयं मृत्युरिह प्रोक्तो मृत्युस्तस्यापि चापरः ।।
अस्ति नास्तीति वा ब्रूहि याज्ञवल्क्य यथातथम् ।। १३ ।।
अस्ति चेदनवस्था स्यादनिर्मोक्षो न चेद्भवेत् ।।
इति प्रतिवचः कष्टं मत्वैनं पर्यपृच्छत ।। १४ ।।
न कश्चिन्नियतो भावो मृत्युरित्युपदिश्यते ।।
विनाशको यतो मृत्युर्विनाश्यान्प्रति भण्यते ।। १५ ।।
मृत्योरपि सतो मृत्युरस्त्येवेति मयोच्यते ।।
न चानवस्थेहाऽऽप्नोति सर्वमृत्युत्वकारणात् ।। १६ ।।
सर्वान्नभक्षणादग्निर्मृत्युस्तावदसावपि ।।
अपामन्नं भवन्दृष्टो बह्वीनां तनुविग्रहः ।। १७ ।।
अग्निर्हिरण्यगर्भो वा ह्यापस्तत्कारणं मताः ।।
कार्याणां मारणान्मृत्युः कारणं प्रथितं भुवि ।। १८ ।।
प्रत्यग्याथात्म्यविज्ञानं मृत्युरज्ञानरूपिणः ।।
संसारहेतोर्मृत्योः स्यान्नापीहास्त्यनवस्थितिः ।। १९ ।।
निरुणद्धि यथा जन्म तन्नाशमपि तत्तथा ।।
प्रत्यग्याथात्म्यविज्ञानं नानवस्थाऽप्यतो भवेत् ।। २० ।।
अन्येऽतो मृत्यवो गौणास्तैर्मृतौ स्यात्पुनर्जनिः ।।
प्राक्तनान्यपि जन्मानि सम्यग्ज्ञानं तु हन्ति नः ।। २१ ।।
यथोक्त एव व्याख्याने युक्तेयं स्यात्फलश्रुतिः ।।
न तु निःशेषसंसारविध्वंसिन्यात्मबोधने ।। २२ ।।
समस्तमृत्योस्तमसः सम्यगात्मावबोधनम् ।।
मृत्युस्तत्फलविज्ञप्त्यै परो ग्रन्थोऽवतार्यते ।। २३ ।।
सम्यग्ज्ञातात्मयाथात्म्यो यदाऽयं म्रियते पुमान् ।।
किमुत्क्रामन्त्यतः प्राणा उताहो नेति भण्यताम् ।। २४ ।।
उत्क्रान्तौ स्यादनिर्मोक्षो जन्मार्थं मरणं यतः ।।
अमृतिश्चाप्यनुत्क्रान्तौ सत्सु प्राणेषु का मृतिः ।। २५ ।।
दुःशकोत्तरमित्येवं प्रश्नं मत्वाऽन्वपृच्छत ।।
आर्तभागो मुनिर्विद्वान्स च नेति तमब्रवीत् ।। २६ ।।
अकर्त्रात्मपरिज्ञानाद्ध्वस्ताविद्यस्य सर्वतः ।।
देहान्तरग्रहाभावात्प्राणोत्क्रान्तेरसंभवः ।। २७ ।।
यदैव सम्यग्विज्ञानं जातमस्याऽऽगमोक्तितः ।।
प्राणाः सहेतवः सर्वे तदैवास्ता निरन्वयाः ।। २८ ।।
नान्वयं सहते प्रत्यङ्न चापि व्यतिरेकताम् ।।
कौटस्थ्यैकत्वहेतुभ्यां प्रत्यग्याथात्म्यवस्तुनः ।। २९ ।।
ध्वस्तध्वान्तस्य विज्ञानादतो हेतुफलात्मनाम् ।।
दृशौ स्यात्समवनयः सर्पादीनां यथा स्रजि ।। ३० ।।
न स्वकारणसंसर्गस्तस्य ज्ञानादपह्नुतेः ।।
निष्फलं च भवेज्ज्ञानं यदि कारणसंगतिः ।। ३१ ।।
उत्क्रामन्ति न चेत्प्राणा नायं तर्हि मृतो भवेत् ।।
देहस्यैव मृतेर्नैवं जीवो न म्रियते सदा ।। ३२ ।।
जीवापेतमिति ह्युक्तेर्जन्मादेश्च निषेधतः ।।
यत्संबन्धादचित्कोऽपि जीवतीत्यभिधीयते ।। ३३ ।।
देहस्तस्य कथं मृत्युर्जीवस्येहोपपद्यते ।।
यतोऽतो देहमरणं प्रात्यक्ष्यादुपपद्यते ।। ३४ ।।
प्राणा एव विलीयन्ते किंवाऽन्यदपि कृत्स्नतः ।।
प्रयोजकादि निःशेषं म्रियमाणाद्विपश्चितः ।। ३५ ।।
प्राणमात्रविनाशे स्याद्भूयो जन्म प्रयोजकात् ।।
सप्रयोजकतन्नाशे मुक्तिरस्योपपद्यते ।। ३६ ।।
किमेनं न जहातीति पृष्टो नामेत्यथाब्रवीत् ।।
न किंचिन्न जहातीति प्रसिद्धेरिदमुच्यते ।। ३७ ।।
नाममात्रावशेषं तदित्युक्तौ गम्यते यतः ।।
न किंचिदवशिष्टं स्यादिति यद्वत्तथेह तत् ।। ३८ ।।
शब्दार्थश्चाऽऽकृतिर्यस्मान्नातो नाम विनश्यति ।।
आनन्त्यं नित्यतैवास्य नाम्नो न व्यक्तिभूरिता ।। ३९ ।।
मृत्योः प्रयोजकं यत्स्याद्ग्रहातिग्रहरूपिणः ।।
तत्स्वरूपावधृतये प्रारब्धैषोत्तरा श्रुतिः ।। ४० ।।
वैश्वानरवरादत्र केचिदाहुर्महाधियः ।।
देहद्वयविमोकेऽपि नैव मुक्तः पुमानिति ।। ४१ ।।
नाममात्रावशेषोऽसावन्तरालेऽवतिष्ठते ।।
परात्मनः परिच्छिन्नोऽविद्ययोषररूपया ।। ४२ ।।
उच्छिन्नकामकर्माऽसौ कृत्स्नतत्फलभोगतः ।।
उच्छिन्नाशेषबुद्ध्यादिस्तत्कारणपरिक्षयात् ।। ४३ ।।
अद्वैतदर्शनेनास्य द्वैतदृष्ट्यपनुत्तये ।।
पर आरभ्यते ग्रन्थो ब्रह्मविद्यावबुद्धये ।। ४४ ।।
अत्र यत्प्रतिवक्तव्यं तदुक्तमसकृत्पुरा ।।
जिह्रेम्यत्र पुनर्वक्तुं पुनरुक्तगिरा भृशम् ।। ४५ ।।
भाष्योपात्तमतो ब्रूमो नानुपात्तं कथंचन ।।
पिष्टपेषणवत्सर्वं पूर्वपक्षोक्तिदूषणम् ।। ४६ ।।
द्वैतदृष्ट्यैव निःशेषद्वैतकार्यपरिक्षयात् ।।
न भूतमात्रोपादाने बीजमस्ति मनागपि ।। ४७ ।।
पुमर्थावसितेः शास्रं कृतार्थं विनिवर्तते ।।
अद्वैतदर्शनेनातो नास्ति किंचित्प्रयोजनम् ।। ४८ ।।
अद्वैतदर्शनार्थाय शास्रारम्भोऽत एव च ।।
नैवोपपद्यते कृत्स्नपुरुषार्थावसानतः ।। ४९ ।।
उपपन्नस्तदारम्भो मिथःकार्यपृथक्त्वतः ।।
द्वैताद्वैतात्मसंदृष्ट्योर्दन्तोलूखलयोरिव ।। ५० ।।
आसङ्गकार्यमुच्छिन्नं द्वैतदृष्ट्याऽऽत्मनो यतः ।।
आसङ्ग एव भूतानामुपादानमिहेष्यते ।। ५१ ।।
स एष द्वैतदृष्ट्याऽत्र कर्मपक्षो निराकृतः ।।
कामश्च वासनाः सर्वा माहारजनपूर्विकाः ।। ५२ ।।
सर्वं चेद्विनिवृत्तं स्यात्किमन्यदवशिष्यते ।।
तत्परिच्छेदि विज्ञानमविद्यैवावशिष्यते ।। ५३ ।।
कर्माऽऽरम्भे विकर्त्रेव स्वाश्रयस्य सदेष्यते ।।
इयत्ता कारकावस्था परिच्छिज्ज्ञानमेव तु ।। ५४ ।।
सैषाऽविद्या परिच्छेत्री ययाऽयं परमात्मनः ।।
संसारित्वं परिच्छिन्नो विज्ञानात्मत्वमश्नुते ।। ५५ ।।
निवृत्तो द्वैतविषयाद्यद्यप्येष तथाऽपि तु ।।
संसारावस्थ एवाथं द्वैतत्वाद्ब्रह्मभेदतः ।। ५६ ।।
यतोऽनवसितं वाक्यं पुमर्थानवसानतः ।।
प्रवर्तते पुरेवातो ब्रह्मण्यप्ययसिद्धये ।। ५७ ।।
एकवाक्यत्वमेतस्माद्दूैताद्वैतार्थवाक्ययोः ।।
मोहाध्वस्तेर्न चाशेषः पुरुषार्थः समाप्यते ।। ५८ ।।
परिच्छेदं हि यत्कार्यं तदेव विनिवर्तते ।।
ध्वान्तोच्छित्तौ विकर्तुत्वं कर्मणस्त्वनुवर्तते ।। ५९ ।।
आसङ्गश्च तथैवाऽऽस्ते ते एते सङ्गकर्मणी ।।
अनिवृत्ते सती भूयोऽविद्यां जनयितुं क्षमे ।। ६० ।।
अविनिर्भागवृत्तित्वात्सर्वदैव परस्परम् ।।
न चाविशुद्धे द्वैतार्थे शक्यमद्वैतमीक्षितुम् ।। ६१ ।।
इत्यादिपूर्वपक्षोक्तिदूषणेष्वाभिधास्यते ।।
ग्रन्थभूयस्त्वसंत्रासान्नेह कृत्स्नोऽभिधीयते ।। ६२ ।।
भूरि दूषणमत्रोक्तं श्रुत्या च स्वयमेव च ।।
पुरुषो वा इति ह्युक्त्या तथाऽस्मादिति वाक्यतः ।। ६३ ।।
कारणादक्षरादन्नं पुरुषेणेह कर्मणा ।।
अव्याकृतादिभावेन व्रीह्यादित्वाय जन्यते ।। ६४ ।।
तत्रैवं सति यद्येतद्येतैव हि केवलम् ।।
न जन्यतेऽतः क्षीयेत न त्वेतन्नेह जन्यते ।। ६५ ।।
नित्यं भुङ्क्ते यथैवान्नमात्मा वाग्देहबुद्धिभिः ।।
अक्षीणैः कर्मसंतानैस्तथैव जनयत्यपि ।। ६६ ।।
भूतानि क्षीयमाणानि कर्मणा परमात्मनः ।।
पुरुषेणेह जन्यन्ते तस्मात्स पुरुषोऽक्षितिः ।। ६७ ।।
पूर्वकर्मोपभोगो यः पुरुषाणां शुभाशुभः ।।
तस्मादासङ्गवैशेष्यादन्यस्य प्रक्रिया पुनः ।। ६८ ।।
तत्रैवं सति सासङ्गाः प्रायेण प्राणिनो यतः ।।
अतः कामाशयवशात्सृज्यतेऽन्नं मुहुर्मुहुः ।। ६९ ।।
क्षीयन्तेऽन्याश्च भोगेन चीयन्तेऽन्याश्च कर्मणा ।।
भूतमात्राः प्रदीपस्य संतानेनार्चिषो यथा ।। ७० ।।
परस्परात्तृभोज्यत्वसंस्कारोपनिबन्धनम् ।।
विज्ञानात्मभिरारब्धं बंभ्रमीत्यखिलं जगत् ।। ७१ ।।
विज्ञानात्मा हि यः कश्चित्कर्मणा येन केनचित् ।।
साधियूताधिदैवस्य जगतः सर्गकारणम् ।। ७२ ।।
श्रुत्यैतत्स्वयमेवोक्तं कर्म न क्षीयते यथा ।।
दैववागादिसंपत्तिस्तथा त्र्यन्नात्मदर्शिनः ।। ७३ ।।
इदं तत्तदिदं चेति त्रिषु कालेषु नित्यताम् ।।
प्राहास्य विद्यमानस्य विक्रियामात्रमेव तु ।। ७४ ।।
यद्यत्कामयते चास्मादविद्याकामकर्मणाम् ।।
ब्रह्मण्यवस्थितस्यापि त्वक्षयत्वं श्रुतिर्जगौ ।। ७५ ।।
कृत्स्नप्राप्त्या क्षयो नातो विद्यते कामकर्मणोः ।।
प्रमाणासंभवात्तस्मादसमीचीनमुच्यते ।। ७६ ।।
व्यक्ततायाः क्षयो यस्तु कारणात्मतया श्रुतः ।।
तादृक्क्षयः सुषुप्तेऽपि नैवास्माभिर्निवार्यते ।। ७७ ।।
प्रत्यक्तत्त्वपरिज्ञानजन्मैव ध्वंसहेतुताम् ।।
द्वैतस्यैति पुमर्थश्च नातोऽन्यत्किंचिदिष्यते ।। ७८ ।।
तमेतमिति च तथा सर्वेषामपि कर्मणाम् ।।
प्रत्यग्ज्ञानसमुत्पत्तौ विनियोगः प्रदर्शितः ।। ७९ ।।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।। ८० ।।
भोगक्षयेण काम्यानां निषिद्धानां च कर्मणाम् ।।
क्षय आरब्धकार्याणां ज्ञानिनोऽपि, न बोधतः ।। ८१ ।।
आभवादर्जितानां तु सर्वेषामपि कर्मणाम् ।।
क्षयोऽनारब्धकार्याणां सम्यग्ज्ञानप्रसूतितः ।। ८२ ।।
ज्ञानोत्पत्तौ क्षये मानं कर्मणां विद्यते यथा ।।
कृत्स्रप्राप्त्या क्षये मानं न तथा किंचिदिष्यते ।। ८३ ।।
परिच्छेत्री न चाविद्या तमोरूपा हि सा यतः ।।
आच्छादिकाऽतः सा युक्ता समस्तव्यस्तरूपिणः ।। ८४ ।।
न चापि मिथ्याविज्ञानं परिच्छेदकमिष्यते ।।
परिच्छिनत्ति किं व्योम नीलज्ञानं मनागपि ।। ८५ ।।
सतो हि व्यञ्जकं मानं, न तु तत्कुम्भकारवत् ।।
मेयवस्त्वनुरोधित्वात्परिच्छेदकता धियः ।। ८६ ।।
यथावस्त्वनुरोधित्वमज्ञनस्यापि चेन्मतम् ।।
मुक्ते मेये सदा मुक्तिर्बन्धो वा स्याद्विपर्यये ।। ८७ ।।
नाऽऽत्माऽनान्मीयकार्यस्य स्यादुपादानकारणम् ।।
अतादात्म्यान्न हि घटं जनयन्तीह तन्तवः ।। ८८ ।।
परात्मनः स्वतोऽविद्या बहिष्ठे कामकर्मणी ।।
आगते नत्वविद्याया भवतैवैतदुच्यते ।। ८९ ।।
न चाप्यविद्यामसतीं शक्नुतः कामकर्मणी ।।
तदकारणतः कर्तुं मृत्स्नेभाश्वादिकं यथा ।। ९० ।।
न चात्यन्तासतो जन्म कुर्याल्लोकेऽपु कारणम् ।।
नर्ते धरां सुवृष्ट्याऽपि पद्मिनीसंभवोऽम्बरात् ।। ९१ ।।
ब्रह्मैव चेदविद्याया जन्मनः कारणं मतम् ।।
तस्मिन्सति समुच्छित्तिरविद्यायाः कथं भवेत् ।। ९२ ।।
आत्यन्तिकी समुच्छित्तिः स्याच्चेन्मोहस्य कारणे ।।
सत्येव नश्वरस्यास्य स्वतः किं साधनैर्वद ।। ९३ ।।
न चेत्ते शक्नुतोऽविद्यां रक्षितुं कामकर्मणी ।।
विद्यमानां विनष्टां तु कर्तुं ते शक्नुतः कथम् ।। ९४ ।।
कामकर्मादिहानेऽपि यद्यविद्याऽवशिष्यते ।।
नेतीति वचसो व्याख्या तथा सति विरुध्यते ।। ९५ ।।
नेतीति प्रथमः शब्दो मूर्तामूर्तनिषेधकृत् ।।
द्वितीयो नेति यः सोऽथ भावनाप्रतिषेधकृत् ।। ९६ ।।
भावनादिविशेषेषु यच्छान्तेष्ववशिष्यते ।।
निष्कलं तत्परं ब्रह्म नेति नेत्युपदिश्यते ।। ९७ ।।
ज्ञातं ब्रह्म यथावच्च न चापागात्ततस्तमः ।।
इत्येतदविरुद्धं स्यात्प्रसादाज्जातवेदसः ।। ९८ ।।
द्वैतार्थस्य विशुद्धिश्च कीदृश्यत्र विवक्षिता ।।
अद्वैतानभिसंबन्धो नाशो वा मलशुद्धिवत् ।। ९९ ।।
समस्तव्यस्तसंदृष्टौ नाद्वैताद्वैूतता पृथक् ।। १०० ।।
तयोरैकात्म्यतो युक्ता नापि तन्नाश इष्यते ।।
नष्टे द्वैतेऽखिले न स्यात्समस्तव्यस्तदर्शनम् ।। १०१ ।।
शीतोष्णयोरिव कथं परस्परविरोधिनोः ।।
एकत्र समवायः स्यात्समस्तव्यस्तधर्मयोः ।। १०२ ।।
अपूर्वादिषु जीवत्सु श्रुतिवाक्येषु शक्यते ।।
नेश्वरेणापि निर्वक्तुं समास्तव्यस्तताऽऽत्मनः ।। १०३ ।।
न च कुम्भादिवदृष्टिरात्मनोऽव्यतिरेकतः ।।
अनात्मत्वप्रसक्तिः स्याद्रष्टृदृश्यप्रभेदतः ।। १०४ ।।
नो चेत्समस्तदृष्ट्यौव व्यस्तदृष्टिः समाप्यते ।।
आत्मनीति श्रुतेर्वाक्यप्रमाणं प्रसज्यते ।। १०५ ।।
येनाश्रुतं श्रुतमिति कस्मिन्न्विति तथा वचः ।।
इत्यादि सुविरुद्धं स्यान्न चापीहापरा मितिः ।। १०६ ।।
समस्तव्यस्तसंदृष्टौ न किंचिदपि दृश्यते ।।
पूर्णाज्ञानैकहेतुत्वाद्रज्जुसर्पादिदृष्टिवत् ।। १०७ ।।
अणून्प्रत्येकशः सर्वान्स गृह्णीयादयत्नतः ।।
द्वैतभेदानिमान्सर्वानेकैकस्य न वेत्ति यः ।। १०८ ।।
सर्वेष्वपि च दृष्टेषु द्वेतभेदेषु केनचित् ।।
आनन्त्यं ब्रह्मता चास्य दुर्घटा स्यात्तथा सति ।। १०९ ।।
द्रव्यदृष्ट्या समीक्ष्यन्ते धर्मा नीलादयो यथा ।।
आत्मदृष्ट्या तथेक्ष्यन्ते नानात्मानो विरोधतः ।। ११० ।।
तथाचेहाऽऽगमवचः पराञ्चीति विरुद्धताम् ।।
आत्मानात्मार्थसंदृष्ट्योः स्फुटं नः प्रत्यपीपदत् ।। १११ ।।
आत्मा वा अर इत्युक्तौ नैवानात्मेक्षणे विधिः ।।
अनूद्यैव यथाप्राप्तमात्मदृष्टिर्विधीयते ।। ११२ ।।
यत्र यत्र विधिर्दृष्टस्तत्र तत्राऽऽत्मकर्मकः ।।
कृत्स्नानात्मानुवादेन प्रत्यग्दृष्टिर्विधीयते ।। ११३ ।।
साध्यसाधनसंबन्धविज्ञानं नान्यतः श्रुतेः ।।
तदन्येषु पदार्थेषु प्रत्यक्षादिप्रमाणतः ।। ११४ ।।
सर्वमानातिवर्त्यात्मप्रतिपत्तौ ततः श्रुतिः ।।
निमित्तत्वेन सन्मानं सुषुप्तोत्थापकोक्तिवत् ।। ११५ ।।
मन्त्राम्नायोऽप्युपन्यस्तो यथेह न विरुध्यते ।।
तथोदर्के प्रवक्ष्यामः सर्वं भद्रं ततोऽस्त्विदम् ।। ११६ ।।
परापरत्वभेदेन द्वे विद्ये समुदीरिते ।।
विद्याविद्ये इहोच्येते तमोवस्त्ववसानतः ।। ११७ ।।
तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।।
तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते ।। ११८ ।।
ध्वस्ताध्यात्मादिसंभेदः प्रत्यङ्भोहैकमात्रभाक् ।।
द्रष्टव्य इत्यादिविधौ प्रवर्तेत जडः कथम् ।। ११९ ।।
इत्यादि पूर्वमेवोक्तं दूषणं दूषितात्मनाम् ।।
आत्मानमेवेत्यत्रैव न भूयोऽत्राभिधीयते ।। १२० ।।
सुविस्पष्टार्थतो भाष्यं टीकां नैव व्यपेक्षते ।।
तस्माद्भाष्याक्षरैरेव शेषोऽर्थोऽत्र प्रतीयताम् ।। १२१ ।।
ग्रहातिग्रहरूपं तत्प्रयुक्तं केन बन्धनम् ।।
प्रयोजकावधृतये याज्ञवल्क्येत्युवाच ह ।। १२२ ।।
कर्माश्रयत्वतो लिङ्गादविद्वानिह गृह्यते ।।
प्रकृताया विभक्तेश्च विभक्त्यन्तरसंश्रयात् ।। १२३ ।।
यत्रास्याविदुषः पुंसो मृतस्याऽऽयुष्परिक्षयात् ।।
स्वयोनिं वाक्समप्येति वातं प्राणोऽनुगच्छति ।। १२४ ।।
अग्न्यादिदेवतांशा ये भोगार्थं कर्मणाऽर्जिताः ।।
वागादिशब्दैरुच्यन्ते त एवात्र न पौरुषाः ।। १२५ ।।
पुंसः कर्मक्षये स्वांशान्संहरन्ति यथायथम् ।।
अग्न्यादिदेवताः सोऽयमुपसंहार उच्यते ।। १२६ ।।
पुंसो देहग्रहे भूयो देहस्थानेषु देवताः ।।
अंशं निदधति स्वं स्वं कर्मभोगप्रसिद्धये ।। १२७ ।।
हृद्याकाश इहाऽऽमेति स्यादाकाशाप्ययत्वतः ।।
प्रश्नस्य विषयत्वेन विज्ञानात्मोपयोगतः ।। १२८ ।।
अधिष्ठातृवियुक्तानि न्यस्तदात्रोपमानि हि ।।
वागादिकरणानीति नालं पुंभोगसिद्धये ।। १२९ ।।
विदेहदेवतः कायं भवत्येष पुमानिति ।।
आश्रयं केति पुंसोऽसावप्राक्षीन्मुनिसत्तमम् ।। १३० ।।
किं कारणात्मतामेति किंवा केनचिदात्मना ।।
अवतिष्ठत एवायं किवा कर्मैव संश्रितः ।। १३१ ।।
गुणान्वा यदि वेशानं कालं वा दैवमेव वा ।।
यदृच्छां संततिं शून्यं विनाशं वेति भण्यताम् ।। १३२ ।।
प्रश्नेन भावितस्तुष्टः पाणिमस्याग्रहीदृषिः ।।
अन्यासाधारणं प्रश्नमप्राक्षीदिति विस्मितः ।। १३३ ।।
असाधारण्यसिद्ध्यर्थमावामेवेत्यतोऽवदत् ।।
विद्यागुप्तिश्च बहुशः श्रुतावपि समीक्ष्यते ।। १३४ ।।
आवयोरेव विज्ञानं यथेदं प्रागभूदितः ।।
आवामेव तथैवोर्ध्वं वेदिष्यावो यथोदितम् ।। १३५ ।।
सजने प्रश्न एतस्मिन्ख्याप्यमाने त्वयोदिते ।।
न सिध्येदावयोरुक्तं प्रयोजनमिदं ध्रुवम् ।। १३६ ।।
न त्वन्योक्तिपरित्रासाद्याज्ञवल्क्योऽब्रवीदिदम् ।।
जल्पे वाद्यतिरेकेण नान्यो वक्ति यतस्ततः ।। १३७ ।।
परिशिष्टानपि प्रश्नानुत्क्रम्य व्याकरोदसौ ।।
सजनादिति नातः स्यादन्योक्तिभयकारणम् ।। १३८ ।।
साध्वेतदिति संभाव्य सजनादुत्ससर्पतुः ।।
याज्ञवल्क्यार्तभागौ तावुत्क्रम्य च जजल्पतुः ।। १३९ ।।
सजनात्तावथोत्क्रम्य मिथस्तत्र यदूचतुः ।।
तत्सर्वं श्रुतिराचख्यावस्मत्प्रियचिकीर्षया ।। १४० ।।
कर्मादिपरतन्त्रत्वात्स्वाश्रयो नायमिष्यते ।।
संसारभूमिवर्तित्वान्न चाऽऽत्मा कारणाश्रयः ।। १४१ ।।
अचित्कत्वात्प्रधानादि पुंसो न स्थानमिष्यते ।।
न कर्म तत्फलं वेत्ति न च कस्यैति संगतिम् ।। १४२ ।।
न चेश्वरे स्थितिस्तस्य शास्रानारम्भसक्तितः ।।
कृतनाशाकृतप्राप्ती प्राप्नुतो नुस्तथा सति ।। १४३ ।।
दैवाधिष्ठित एवायं कर्मकालवशानुगः ।।
प्रवर्ततां चेत्पुरुषो नैवमप्युपपद्यते ।।
जडत्वादिति पूर्वोक्तो दोषोऽत्रापि च विद्यते ।। १४४ ।।
सदेवताकं पूर्वोक्तं समर्थमिति चेन्मतम् ।। १४५ ।।
प्रवृत्तिरप्रवृत्तिर्वा देवतैश्वर्यतः सदा ।।
नियमे हेत्वसद्भावान्न स्यान्नैयमिकी स्थितिः ।। १४६ ।।
न चापि केवलं कर्म पुंसः स्यादाश्रयो यतः ।।
अचेतनत्वानित्यत्वदोषदुष्टं पुरोदितम् ।। १४७ ।।
मयाऽयमनुयातव्यः कर्ता चायं ममाभवत् ।।
कालादिविषयं ज्ञानं ध्वंसिनः कर्मणः कुतः ।। १४८ ।।
यत एवमतः सर्वे कालदैवेश्वरादयः ।।
कर्मप्रधानाः पुंसः स्यादाश्रयोऽयमनुत्तमः ।। १४९ ।।
इठो यदृच्छा नियतिः कारणत्वेन नाऽऽश्रिताः ।।
संततौ चानवस्थानान्नाऽऽश्रयत्वं प्रमाणतः ।। १५० ।।
न कर्म पूर्वस्कन्धेषु नष्टन्वादुपपद्यते ।।
न चेह परिणामः स्यादुत्तरस्कन्धसंगतौ ।। १५१ ।।
अनिष्ठितं न कर्मापि फलायालं भवेत्कचित् ।।
न चैकत्रैकदा स्थानं विरोधाज्जन्मनाशयोः ।। १५२ ।।
न च स्कन्धातिरेकेण स्थिरः कश्चिदपीष्यते ।।
भोगमोक्षाभिसंबन्धी यं प्रत्येतत्प्रवर्तते ।। १५३ ।।
अनारम्भश्च शून्येऽपि यथाऽयमुपलभ्यते ।।
मितेश्चासंभवाच्छून्यं सर्वथा नोपपद्यते ।। १५४ ।।
यत एवमतो न्याय्यं कर्मैवास्य समाश्रयः ।।
संसारभूमौ पुंसः स्यात्कालादेस्तत्प्रधानतः ।। १५५ ।।
कर्मप्राधान्यमेवातः स्वयमेवाब्रवीच्छ्रुतिः ।।
कालदैवेश्वरादिभ्यः कालादेस्तत्प्रयुक्तितः ।। १५६ ।।
सति कर्मणि वैचित्र्यं भूतानामुपपद्यते ।।
कर्मशब्देन विद्या च भावना कर्म चोच्यते ।। १५७ ।।
देहारम्भे न शुद्धस्य कर्मणः शक्तिरिष्यते ।।
तस्मात्र्रितयमप्येतत्कर्मशब्देन भण्यते ।। १५८ ।।
कारणानां यथोक्तानां यच्च तौ प्रशशंसतुः ।।
कर्मैवोक्तेषु सर्वेषु प्रशशंसतुरादरात् ।। १६० ।।
कारणत्वाविशेषेऽपि किं प्रधानमितीक्षणे ।।
कर्मणः स्यात्प्रशंसैवं तत्प्राधान्योपपत्तितः ।। १६१ ।।
वशीकृत्येश्वरादीनि कारणानि स्वतन्त्रवत् ।।
कर्म सिध्यद्यतो दृष्टं प्रधानं कर्म तेन तत् ।। १६२ ।।
क्रियां प्रत्यगुणीभूतं नेश्वराद्यपि सिध्यति ।।
कर्मातस्तेषु सर्वेषु प्रधानमिति भण्यते ।। १६३ ।।
यस्मादेवतः प्रेतो देवताविरहेऽपि ना ।।
देहादस्मात्परिभ्रष्टः कर्मप्राधान्यसंश्रयात् ।। १६४ ।।
पुण्यः पुण्येन भवति पापः पापेन कर्मणा ।।
इति श्रौतं वचो ज्ञेयमागमैकप्रमाणतः ।। १६५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य द्वितीयमार्तभागब्राह्मणम्