बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेतीन्द्रलोकेषु गार्गीति कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि मातिप्राक्षीरिति ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥
यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तर आत्मेत्युक्तम् , तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणात् ग्रन्थ आरभ्यते । पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्बहिर्भावेन व्यवस्थितानि ; तेषां यत् बाह्यं बाह्यम् , अधिगम्याधिगम्य निराकुर्वन् द्रष्टुः साक्षात्सर्वान्तरोऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः — अथ हैनं गार्गी नामतः, वाचक्नवी वचक्नोर्दुहिता, पप्रच्छ ; याज्ञवल्क्येति होवाच ; यदिदं सर्वं पार्थिवं धातुजातम् अप्सु उदके ओतं च प्रोतं च — ओतं दीर्घपटतन्तुवत् , प्रोतं तिर्यक्तन्तुवत् , विपरीतं वा — अद्भिः सर्वतोऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः ; अन्यथा सक्तुमुष्टिवद्विशीर्येत । इदं तावत् अनुमानमुपन्यस्तम् — यत् कार्यं परिच्छिन्नं स्थूलम् , कारणेन अपरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति दृष्टम् — यथा पृथिवी अद्भिः ; तथा पूर्वं पूर्वम् उत्तरेणोत्तरेण व्यापिना भवितव्यम् — इत्येष आ सर्वान्तरादात्मनः प्रश्नार्थः । तत्र भूतानि पञ्च संहतान्येव उत्तरमुत्तरं सूक्ष्मभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते ; न च परमात्मनोऽर्वाक् तद्व्यतिरेकेण वस्त्वन्तरमस्ति, ‘सत्यस्य सत्यम्’ (बृ. उ. २ । ३ । ६) इति श्रुतेः ; सत्यं च भूतपञ्चकम् , सत्यस्य सत्यं च पर आत्मा । कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति — तासामपि कार्यत्वात् स्थूलत्वात् परिच्छिन्नत्वाच्च क्वचिद्धि ओतप्रोतभावेन भवितव्यम् ; क्व तासाम् ओतप्रोतभाव इति । एवमुत्तरोत्तरप्रश्नप्रसङ्गो योजयितव्यः । वायौ गार्गीति ; ननु अग्नाविति वक्तव्यम् — नैष दोषः ; अग्नेः पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन् ओतप्रोतभावो नोपदिश्यते । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । तान्येव भूतानि संहतानि अन्तरिक्षलोकाः ; तान्यपि — गन्धर्वलोकेषु गन्धर्वलोकाः, आदित्यलोकेषु आदित्यलोकाः, चन्द्रलोकेषु चन्द्रलोकाः नक्षत्रलोकेषु नक्षत्रलोकाः, देवलोकेषु देवलोकाः, इन्द्रलोकेषु इन्द्रलोकाः, विराट्शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाः, ब्रह्मलोकेषु ब्रह्मलोका नाम — अण्डारम्भकाणि भूतानि ; सर्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राण्युपभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पञ्चेति बहुवचनभाञ्जि । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति — स होवाच याज्ञवल्क्यः — हे गार्गि मातिप्राक्षीः स्वं प्रश्नम् , न्यायप्रकारमतीत्य आगमेन प्रष्टव्यां देवताम् अनुमानेन मा प्राक्षीरित्यर्थः ; पृच्छन्त्याश्च मा ते तव मूर्धा शिरः व्यपप्तत् विस्पष्टं पतेत् ; देवतायाः स्वप्रश्न आगमविषयः ; तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः, आनुमानिकत्वात् ; स यस्या देवतायाः प्रश्नः सा अतिप्रश्न्या, न अतिप्रश्न्या अनतिप्रश्न्या, स्वप्रश्नविषयैव, केवलागमगम्येत्यर्थः ; ताम् अनतिप्रश्न्यां वै देवताम् अतिपृच्छसि । अतो गार्गी मातिप्राक्षीः, मर्तुं चेन्नेच्छसि । ततो ह गार्गी वाचक्नव्युपरराम ॥
इति तृतीयाध्यायस्य षष्ठं ब्राह्मणम् ॥
यः सर्वान्तर इत्युक्तस्तन्निर्णयविवक्षया ।।
आ शाकल्यात्परो ग्रन्थ इतो व्याख्यायतेऽधुना ।। १ ।।
विशेषणस्य सर्वस्य साक्षादित्यादिकस्य च ।।
सर्वोन्तरविनिर्णीतौ निर्णयः स्यात्कथं न्विति ।। २ ।।
अशनायाद्यतिक्रान्त्या प्रश्नार्थाविष्कृतिः कृता ।।
न सम्यगिति मन्वाना गार्ग्यपृच्छदतः पुनः ।। ३ ।।
क्षित्यादेर्वियदन्तस्य यावन्नैकात्म्यमुच्यते ।।
निर्णीतार्थो न तावत्स्यात्प्रश्नः साक्षादितीरितः ।। ४ ।।
बुभुक्षाद्येकदेहस्थनिषेधादनिषेधतः ।।
क्षित्यादेर्वियदन्तस्य नातः प्रश्नार्थनिर्णयः ।। ५ ।।
य एते पार्थिवा भावा लोष्टकुम्भादयो मताः ।।
तेषामन्तर्बहिर्व्याप्तिः पृथिव्यैवेह लक्ष्यते ।। ६ ।।
यथैव पार्थिवा भावाः पृथिव्यैवं धरित्र्यपि ।।
अद्भिरन्तर्बहिश्चेयं व्याप्तैवेह समीक्ष्यते ।। ७ ।।
एवं दृष्टं यतस्तस्माद्गार्गी पप्रच्छ लिङ्गतः ।।
प्रश्नं यदिदमित्येवं याज्ञवल्क्यं महाधियम् ।। ८ ।।
ओतप्रोतात्मना कार्यं येन येन समाप्लुतम् ।।
तस्य तस्यान्यसंव्याप्तिर्दृष्टा लोके क्षितेर्यथा ।। ९ ।।
अद्भिश्चेयं क्षितिर्व्याप्ता तस्मात्तसामपीष्यते ।।
अन्येन केनचिद्व्याप्तिर्व्यापकत्वाद्यथा भुवः ।। १० ।।
प्रत्युक्तिर्गार्गि वायावित्येवमेवोत्तरेष्वपि ।।
वाक्येषु प्रतिपत्तव्या प्रत्युक्तिप्रश्नयोर्गतिः ।। ११ ।।
पार्थिवाप्यौ समाश्रित्य तेजोऽभिव्यज्यते यतः ।।
धातू न तु स्वतन्त्रं सन्नावदत्तेजसीत्यतः ।। १२ ।।
सूक्ष्मताव्यापिते ज्ञेये भूम्यादेरुत्तरोत्तरम् ।।
अक्षरात्मावसानानां पूर्वपूर्वप्रहाणतः ।। १३ ।।
आरम्भकबहुत्वाच्च बहूक्तिरिह गृह्यते ।।
आत्मनोऽन्यद्यतः सर्वं पञ्चभूतात्मकं विदुः ।। १४ ।।
द्वात्रिंशद्गुणितो मार्गो रथगत्या विवस्वतः ।।
य उक्तस्तस्य संस्थित्या तस्थुरिन्द्रान्तदेवताः ।। १५ ।।
स्थूलसूक्ष्मात्मना सर्वास्तारतम्येन संस्थिताः ।।
व्याप्यव्यापितयाऽन्योन्यं सर्वतःपरिमण्डलाः ।। १६ ।।
प्रजापतिर्विराडत्र योऽण्डस्यान्तर्व्यवस्थितः ।।
ओतप्रोतानि तत्त्वानि तेन पूर्वाणि सर्वशः ।। १७ ।।
तस्योतप्रोतभावोऽयं ब्रह्मलोकेषु भण्यते ।।
अण्डारम्भकभूतानां ब्रह्मलोकाभिधेष्यते ।। १८ ।।
तदेतल्लोकनिर्माणमोतप्रोतात्मनोदितम् ।।
अण्डान्तमेव व्याख्यातं किमन्यदवशिष्यते ।। १९ ।।
समष्टिव्यष्टिभावेन वायुः सर्वाश्रयः पुरा ।।
व्याख्यातो यः स वक्तव्यस्तदर्थः प्रश्न उत्तरः ।। २० ।।
ओतोः प्रोताश्च कस्मिन्नु ब्रह्मलोका इतीर्यताम् ।।
इति पृष्टोऽब्रवीद्रार्गि माऽतिप्राक्षीः कथंचन ।। २१ ।।
माऽतीत्य प्रश्नविषयं गार्गि प्राक्षीः कथंचन ।।
मा ते मूर्धा व्यपप्तेति त्वामहं वारयाम्यतः ।। २२ ।।
उचितोऽस्या भवेत्प्रश्नो देवता येन पृच्छ्यते ।।
वर्तते यस्तमुल्लङ्घ्य सोऽतिप्रश्नोऽनुमोच्यते ।। २३ ।।
या तमर्हति पूर्वोक्ता साऽतिप्रश्न्येह देवता ।।
तदन्यत्वादिमां त्वाहुरनतिप्रश्न्यनामिकाम् ।। २४ ।।
तामेतामनतिप्राशन्यामतिप्रश्नेन साहसात् ।।
पृच्छन्त्या मूर्धपातस्ते स्यादेव स्वापराधतः ।। २५ ।।
स्थूलान्यनुमया युक्तं प्रष्टुं तत्त्वानि कामतः ।।
इयं तु न तथा स्थूला यां त्वं पृच्छसि देवताम् ।। २६ ।।
अचिन्त्या चाप्रतर्क्या च प्राणभावेन च स्थिता ।।
नातोऽन्येन प्रमाणेन प्रष्टव्या देवताऽऽगमात् ।। २७ ।।
एतस्मादेव हेतोस्तां तर्कशास्त्रेषु तार्किका ।।
नैवानुमिन्वते त्रासात्पृथिव्यादीन्यथा तथा ।। २८ ।।
प्राणोऽयमनिरुक्तो हि कस्तं निर्वक्तुमर्हति ।।
मानान्तरेणाऽऽगमतो मा प्राक्षीरित्यतो वचः ।। २९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिक तृतीयाध्यायस्य षष्ठं गार्गिब्राह्मणम्