अथ हैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्यासीद्भार्या गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति सोऽब्रवीत्पतञ्जलः काप्यो नाहं तद्भगवन्वेदेति सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति सोऽब्रवीत्पतञ्जलः काप्यो नाहं तं भगवन्वेदेति सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्योऽब्रवीत्तदहं वेद तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति यो वा इदं कश्चिद्ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ १ ॥
इदानीं ब्रह्मलोकानाम् अन्तरतमं सूत्रं वक्तव्यमिति तदर्थ आरम्भः ; तच्च आगमेनैव प्रष्टव्यमिति इतिहासेन आगमोपन्यासः क्रियते — अथ हैनम् उद्दालको नामतः, अरुणस्यापत्यम् आरुणिः पप्रच्छ ; याज्ञवल्क्येति होवाच ; मद्रेषु देशेषु अवसाम उषितवन्तः, पतञ्जलस्य — पतञ्जलो नामतः — तस्यैव कपिगोत्रस्य काप्यस्य गृहेषु यज्ञमधीयानाः यज्ञशास्त्राध्ययनं कुर्वाणाः । तस्य आसीत् भार्या गन्धर्वगृहीता ; तमपृच्छाम — कोऽसीति । सोऽब्रवीत् — कबन्धो नामतः, अथर्वणोऽपत्यम् आथर्वण इति । सोऽब्रवीद्गन्धर्वः पतञ्जलं काप्यं याज्ञिकांश्च तच्छिष्यान् — वेत्थ नु त्वं हे काप्य जानीषे तत्सूत्रम् ; किं तत् ? येन सूत्रेण अयं च लोकः इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि, सन्दृब्धानि सङ्ग्रथितानि स्रगिव सूत्रेण विष्टब्धानि भवन्ति येन — तत् किं सूत्रं वेत्थ । सोऽब्रवीत् एवं पृष्टः काप्यः — नाहं तद्भगवन्वेदेति — तत् सूत्रं नाहं जाने हे भगवन्निति सम्पूजयन्नाह । सोऽब्रवीत् पुनर्गन्धर्वः उपाध्यायमस्मांश्च — वेत्थ नु त्वं काप्य तमन्तर्यामिणम् — अन्तर्यामीति विशेष्यते — य इमं च लोकं परं च लोकं सर्वाणि च भूतानि यः अन्तरः अभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव भ्रामयति, स्वं स्वमुचितव्यापारं कारयतीति । सोऽब्रवीदेवमुक्तः पतञ्जलः काप्यः — नाहं तं जाने भगवन्निति सम्पूजयन्नाह । सोऽब्रवीत्पुनर्गन्धर्वः ; सूत्रतदन्तर्गतान्तर्यामिणोर्विज्ञानं स्तूयते — यः कश्चिद्वै तत् सूत्रं हे काप्य विद्यात् विजानीयात् तं च अन्तर्यामिणं सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात् यः इत्येवमुक्तेन प्रकारेण — स हि ब्रह्मवित् परमात्मवित् , स लोकांश्च भूरादीनन्तर्यामिणा नियम्यमानान् लोकान् वेत्ति, स देवांश्चाग्न्यादीन् लोकिनः जानाति, वेदांश्च सर्वप्रमाणभूतान्वेत्ति, भूतानि च ब्रह्मादीनि सूत्रेण ध्रियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति, स आत्मानं च कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति, सर्वं च जगत् तथाभूतं वेत्ति — इति ; एवं स्तुते सूत्रान्तर्यामिविज्ञाने प्रलुब्धः काप्योऽभिमुखीभूतः, वयं च ; तेभ्यश्च अस्मभ्यम् अभिमुखीभूतेभ्यः अब्रवीद्गन्धर्वः सूत्रमन्तर्यामिणं च ; तदहं सूत्रान्तर्यामिविज्ञानं वेद गन्धर्वाल्लब्धागमः सन् ; तच्चेत् याज्ञवल्क्य सूत्रम् , तं चान्तर्यामिणम् अविद्वांश्चेत् , अब्रह्मवित्सन् यदि ब्रह्मगवीरुदजसे ब्रह्मविदां स्वभूता गा उदजस उन्नयसि त्वम् अन्यायेन, ततो मच्छापदग्धस्य मूर्धा शिरः ते तव विस्पष्टं पतिष्यति । एवमुक्तो याज्ञवल्क्य आह — वेद जानामि अहम् , हे गौतमेति गोत्रतः, तत्सूत्रम् — यत् गन्धर्वस्तुभ्यमुक्तवान् ; यं च अन्तर्यामिणं गन्धर्वाद्विदितवन्तो यूयम् , तं च अन्तर्यामिणं वेद अहम् — इति ; एवमुक्ते प्रत्याह गौतमः — यः कश्चित्प्राकृत इदं यत्त्वयोक्तं ब्रूयात् — कथम् ? वेद वेदेति — आत्मानं श्लाघयन् , किं तेन गर्जितेन ? कार्येण दर्शय ; यथा वेत्थ, तथा ब्रूहीति ॥
स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २ ॥
स होवाच याज्ञवल्क्यः । ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमाने काले, यथा पृथिवी अप्सु, तत् सूत्रम् आगमगम्यं वक्तव्यमिति — तदर्थं प्रश्नान्तरमुत्थापितम् ; अतस्तन्निर्णयाय आह — वायुर्वै गौतम तत्सूत्रम् ; नान्यत् ; वायुरिति — सूक्ष्ममाकाशवत् विष्टम्भकं पृथिव्यादीनाम् , यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम् , यत्तत्समष्टिव्यष्ट्यात्मकम् , यस्य बाह्या भेदाः सप्तसप्त मरुद्गणाः समुद्रस्येवोर्मयः — तदेतद्वायव्यं तत्त्वं सूत्रमित्यभिधीयते । वायुना वै गौतम सूत्रेण अयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति सङ्ग्रथितानि भवन्तीति प्रसिद्धमेतत् ; अस्ति च लोके प्रसिद्धिः ; कथम् ? यस्मात् वायुः सूत्रम् , वायुना विधृतं सर्वम् , तस्माद्वै गौतम पुरुषं प्रेतमाहुः कथयन्ति — व्यस्रंसिषत विस्रस्तानि अस्य पुरुषस्याङ्गानीति ; सूत्रापगमे हि मण्यादीनां प्रोतानामवस्रंसनं दृष्टम् ; एवं वायुः सूत्रम् ; तस्मिन्मणिवत्प्रोतानि यदि अस्याङ्गानि स्युः, ततो युक्तमेतत् वाय्वपगमे अवस्रंसनमङ्गानाम् । अतो वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति निगमयति । एवमेवैतत् याज्ञवल्क्य, सम्यगुक्तं सूत्रम् ; तदन्तर्गतं तु इदानीं तस्यैव सूत्रस्य नियन्तारमन्तर्यामिणं ब्रूहीत्युक्तः आह ॥
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३ ॥
यः पृथिव्यां तिष्ठन्भवति, सोऽन्तर्यामी । सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि — पृथिव्या अन्तरः अभ्यन्तरः । तत्रैतत्स्यात् , पृथिवी देवतैव अन्तर्यामीति — अत आह — यमन्तर्यामिणं पृथिवी देवतापि न वेद — मय्यन्यः कश्चिद्वर्तत इति । यस्य पृथिवी शरीरम् — यस्य च पृथिव्येव शरीरम् , नान्यत् — पृथिवीदेवताया यच्छरीरम् , तदेव शरीरं यस्य ; शरीरग्रहणं च उपलक्षणार्थम् ; करणं च पृथिव्याः तस्य ; स्वकर्मप्रयुक्तं हि कार्यं करणं च पृथिवीदेवतायाः ; तत् अस्य स्वकर्माभावात् अन्तर्यामिणो नित्यमुक्तत्वात् , परार्थकर्तव्यतास्वभावत्वात् परस्य यत्कार्यं करणं च — तदेवास्य, न स्वतः ; तदाह — यस्य पृथिवी शरीरमिति । देवताकार्यकरणस्य ईश्वरसाक्षिमात्रसान्निध्येन हि नियमेन प्रवृत्तिनिवृत्ती स्याताम् ; य ईदृगीश्वरो नारायणाख्यः, पृथिवीं पृथिवीदेवताम् , यमयति नियमयति स्वव्यापारे, अन्तरः अभ्यन्तरस्तिष्ठन् , एष त आत्मा, ते तव, मम च सर्वभूतानां च इत्युपलक्षणार्थमेतत् , अन्तर्यामी यस्त्वया पृष्टः, अमृतः सर्वसंसारधर्मवर्जित इत्येतत् ॥
योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ४ ॥
योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ५ ॥
योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ६ ॥
यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ७ ॥
यो दिवि तिष्ठन्दिवोऽन्तरोयं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ८ ॥
य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ९ ॥
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १० ॥
यश्चान्द्रतारके तिष्ठंश्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ११ ॥
य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १२ ॥
यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १३ ॥
यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृत इत्यधिदैवतमथाधिभूतम् ॥ १४ ॥
समानमन्यत् । योऽप्सु तिष्ठन् , अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि तद्विपरीते प्रकाशसामान्ये — इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु । अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम् ॥
यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृत इत्यधिभूतमथाध्यात्मम् ॥ १५ ॥
यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १६ ॥
यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १७ ॥
यश्चक्षुषि तिष्ठंश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १८ ॥
यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १९ ॥
यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २० ॥
यस्त्वचि तिष्टं स्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २१ ॥
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २२ ॥
यो रेतसि तिष्ठन्रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतोऽदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥
अथाध्यात्मम् — यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुद्धौ, रेतसि प्रजनने । कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् आत्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह — अदृष्टः न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित् , स्वयं तु चक्षुषि सन्निहितत्वात् दृशिस्वरूप इति द्रष्टा । तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित् , स्वयं तु अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु सन्निहितत्वात् श्रोता । तथा अमतः मनस्सङ्कल्पविषयतामनापन्नः ; दृष्टश्रुते एव हि सर्वः सङ्कल्पयति ; अदृष्टत्वात् अश्रुतत्वादेव अमतः ; अलुप्तमननशक्तित्वात् सर्वमनःसु सन्निहितत्वाच्च मन्ता । तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत् सुखादिवद्वा, स्वयं तु अलुप्तविज्ञानशक्तित्वात् तत्सन्निधानाच्च विज्ञाता । तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम् ; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते — नान्योऽतः — नान्यः — अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा ; तथा नान्योऽतोऽस्ति श्रोता ; नान्योऽतोऽस्ति मन्ता ; नान्योऽतोऽस्ति विज्ञाता । यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता — एष ते आत्मा अन्तर्याम्यमृतः ; अस्मादीश्वरादात्मनोऽन्यत् आर्तम् । ततो होद्दालक आरुणिरुपरराम ॥
इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम् ॥