बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
अतः परम् अशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादपरोक्षात्सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भः —
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति पृच्छ गार्गीति ॥ १ ॥
अथ ह वाचक्नव्युवाच । पूर्वं याज्ञवल्क्येन निषिद्धा मूर्धपातभयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयते हे ब्राह्मणाः भगवन्तः पूजावन्तः शृणुत मम वचः ; हन्त अहमिमं याज्ञवल्क्यं पुनर्द्वौ प्रश्नौ प्रक्ष्यामि, यद्यनुमतिर्भवतामस्ति ; तौ प्रश्नौ चेत् यदि वक्ष्यति कथयिष्यति मे, कथञ्चित् न वै जातु कदाचित् , युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चित् ब्रह्मोद्यं ब्रह्मवदनं प्रति जेता — न वै कश्चित् भवेत् — इति । एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः — पृच्छ गार्गीति ॥
सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपादस्थां तौ मे ब्रूहीति पृच्छ गार्गीति ॥ २ ॥
लब्धानुज्ञा ह याज्ञवल्क्यं सा ह उवाच — अहं वै त्वा त्वाम् द्वौ प्रश्नौ प्रक्ष्यामीत्यनुषज्यते ; कौ ताविति जिज्ञासायां तयोर्दुरुत्तरत्वं द्योतयितुं दृष्टान्तपूर्वकं तावाह — हे याज्ञवल्क्य यथा लोके काश्यः — काशिषु भवः काश्यः, प्रसिद्धं शौर्यं काश्ये — वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यम् अवतारितज्याकम् धनुः पुनरधिज्यम् आरोपितज्याकं कृत्वा, द्वौ बाणवन्तौ — बाणशब्देन शराग्रे यो वंशखण्डः सन्धीयते, तेन विनापि शरो भवतीत्यतो विशिनष्टि बाणवन्ताविति — द्वौ बाणवन्तौ शरौ, तयोरेव विशेषणम् — सपत्नातिव्याधिनौ शत्रोः पीडाकरावतिशयेन, हस्ते कृत्वा उप उत्तिष्ठेत् समीपत आत्मानं दर्शयेत् — एवमेव अहं त्वा त्वाम् शरस्थानीयाभ्यां प्रश्नाभ्यां द्वाभ्याम् उपोदस्थां उत्थितवत्यस्मि त्वत्समीपे । तौ मे ब्रूहीति — ब्रह्मविच्चेत् । आह इतरः — पृच्छ गार्गीति ॥
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३ ॥
सा होवाच — यत् ऊर्ध्वम् उपरि दिवः अण्डकपालात् , यच्च अवाक् अधः पृथिव्याः अधोऽण्डकपालात् , यच्च अन्तरा मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद्भूतं यच्चातीतम् , भवच्च वर्तमानं स्वव्यापारस्थम् , भविष्यच्च वर्तमानादूर्ध्वकालभावि लिङ्गगम्यम् — यत्सर्वमेतदाचक्षते कथयन्त्यागमतः — तत्सर्वं द्वैतजातं यस्मिन्नेकीभवतीत्यर्थः — तत् सूत्रसंज्ञं पूर्वोक्तं कस्मिन् ओतं च प्रोतं च पृथिवीधातुरिवाप्सु ॥
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ४ ॥
स होवाच इतरः — हे गार्गि, यत् त्वयोक्तम् ‘ऊर्ध्वं दिवः’ इत्यादि, तत्सर्वम् — यत्सूत्रमाचक्षते — तत् सूत्रम् , आकाशे तत् ओतं च प्रोतं च — यदेतत् व्याकृतं सूत्रात्मकं जगत् अव्याकृताकाशे, अप्स्विव पृथिवीधातुः, त्रिष्वपि कालेषु वर्तते उत्पत्तौ स्थितौ लये च ॥
सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ५ ॥
पुनः सा होवाच ; नमस्तेऽस्त्वित्यादिप्रश्नस्य दुर्वचत्वप्रदर्शनार्थम् ; यः मे मम एतं प्रश्नं व्यवोचः विशेषेणापाकृतवानसि ; एतस्य दुर्वचत्वे कारणम् — सूत्रमेव तावदगम्यम् इतरैर्दुर्वाच्यम् ; किमुत तत् , यस्मिन्नोतं च प्रोतं चेति ; अतो नमोऽस्तु ते तुभ्यम् ; अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुरु आत्मानमित्यर्थः । पृच्छ गार्गीति इतर आह ॥
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ६ ॥
व्याख्यातमन्यत् । सा होवाच यदूर्ध्वं याज्ञवल्क्येत्यादिप्रश्नः प्रतिवचनं च उक्तस्यैवार्थस्यावधारणार्थं पुनरुच्यते ; न किञ्चिदपूर्वमर्थान्तरमुच्यते ॥
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥
सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारितवान् आकाश एवेति याज्ञवल्क्यः । गार्ग्याह — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । आकाशमेव तावत्कालत्रयातीतत्वात् दुर्वाच्यम् , ततोऽपि कष्टतरम् अक्षरम् , यस्मिन्नाकाशमोतं च प्रोतं च, अतः अवाच्यम् — इति कृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं तार्किकसमये ; अथ अवाच्यमपि वक्ष्यति, तथापि विप्रतिपत्तिर्नाम निग्रहस्थानम् ; विरुद्धा प्रतिपत्तिर्हि सा, यदवाच्यस्य वदनम् ; अतो दुर्वचनम् प्रश्नं मन्यते गार्गी ॥
स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन ॥ ८ ॥
तद्दोषद्वयमपि परिजिहीर्षन्नाह — स होवाच याज्ञवल्क्यः ; एतद्वै तत् , यत्पृष्टवत्यसि — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ; किं तत् ? अक्षरम् — यन्न क्षीयते न क्षरतीति वा अक्षरम् — तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदः अभिवदन्ति ; ब्राह्मणाभिवदनकथनेन, नाहमवाच्यं वक्ष्यामि न च न प्रतिपद्येयमित्येवं दोषद्वयं परिहरति । एवमपाकृते प्रश्ने, पुनर्गार्ग्याः प्रतिवचनं द्रष्टव्यम् — ब्रूहि किं तदक्षरम् , यद्ब्राह्मणा अभिवदन्ति — इत्युक्त आह — अस्थूलम् तत् स्थूलादन्यत् ; एवं तर्ह्यणु — अनणु ; अस्तु तर्हि ह्रस्वम् — अह्रस्वम् ; एवं तर्हि दीर्घम् — नापि दीर्घम् अदीर्घम् ; एवमेतैश्चतुर्भिः परिमाणप्रतिषेधैर्द्रव्यधर्मः प्रतिषिद्धः, न द्रव्यं तदक्षरमित्यर्थः । अस्तु तर्हि लोहितो गुणः — ततोऽप्यन्यत् अलोहितम् ; आग्नेयो गुणो लोहितः ; भवतु तर्ह्यपां स्नेहनम् — न अस्नेहम् ; अस्तु तर्हि छाया — सर्वथापि अनिर्देश्यत्वात् छायाया अप्यन्यत् अच्छायम् ; अस्तु तर्हि तमः — अतमः ; भवतु वायुस्तर्हि — अवायुः ; भवेत्तर्ह्याकाशम् — अनाकाशम् ; भवतु तर्हि सङ्गात्मकं जतुवत् — असङ्गम् ; रसोऽस्तु तर्हि — अरसम् ; तथा गन्धोऽस्तु — अगन्धम् ; अस्तु तर्हि चक्षुः — अचक्षुष्कम् , न हि चक्षुरस्य करणं विद्यते, अतोऽचक्षुष्कम् , ‘पश्यत्यचक्षुः’ (श्वे. ३ । १९) इति मन्त्रवर्णात् ; तथा अश्रोत्रम् , ‘स शृणोत्यकर्णः’ (शे. ३ । १९) इति ; भवतु तर्हि वाक् — अवाक् ; तथा अमनः, तथा अतेजस्कम् अविद्यमानं तेजोऽस्य तत् अतेजस्कम् ; न हि तेजः अग्न्यादिप्रकाशवत् अस्य विद्यते ; अप्राणम् — आध्यात्मिको वायुः प्रतिषिध्यतेऽप्राणमिति ; मुखं तर्हि द्वारं तत् — अमुखम् ; अमात्रम् — मीयते येन तन्मात्रम् , अमात्रम् मात्रारूपं तन्न भवति, न तेन किञ्चिन्मीयते ; अस्तु तर्हि च्छिद्रवत् — अनन्तरम् नास्यान्तरमस्ति ; सम्भवेत्तर्हि बहिस्तस्य — अबाह्यम् ; अस्तु तर्हि भक्षयितृ तत् — न तदश्नाति किञ्चन ; भवेत् तर्हि भक्ष्यं कस्यचित् — न तदश्नाति कश्चन । सर्वविशेषणरहितमित्यर्थः । एकमेवाद्वितीयं हि तत् — केन किं विशिष्यते ॥
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९ ॥
अनेकविशेषणप्रतिषेधप्रयासात् अस्तित्वं तावदक्षरस्योपगमितं श्रुत्या ; तथापि लोकबुद्धिमपेक्ष्य आशङ्क्यते यतः, अतोऽस्तित्वाय अनुमानं प्रमाणमुपन्यस्यति — एतस्य वा अक्षरस्य । यदेतदधिगतमक्षरं सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म, य आत्मा अशनायादिधर्मातीतः, एतस्य वा अक्षरस्य प्रशासने — यथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, एवमेतस्याक्षरस्य प्रशासने — हे गार्गि सूर्याचन्द्रमसौ, सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ अहोरात्रयोर्लोकप्रदीपौ, तादर्थ्येन प्रशासित्रा ताभ्यां निर्वर्त्यमानलोकप्रयोजनविज्ञानवता निर्मितौ च, स्याताम् — साधारणसर्वप्राणिप्रकाशोपकारकत्वात् लौकिकप्रदीपवत् । तस्मादस्ति तत् , येन विधृतौ ईश्वरौ स्वतन्त्रौ सन्तौ निर्मितौ तिष्ठतः नियतदेशकालनिमित्तोदयास्तमयवृद्धिक्षयाभ्यां वर्तेते ; तदस्ति एवमेतयोः प्रशासितृ अक्षरम् , प्रदीपकर्तृविधारयितृवत् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ — द्यौश्च पृथिवी च सावयवत्वात् स्फुटनस्वभावे अपि सत्यौ गुरुत्वात्पतनस्वभावे संयुक्तत्वाद्वियोगस्वभावे चेतनावदभिमानिदेवताधिष्ठितत्वात्स्वतन्त्रे अपि — एतस्याक्षरस्य प्रशासने वर्तेते विधृते तिष्ठतः ; एतद्धि अक्षरं सर्वव्यवस्थासेतुः सर्वमर्यादाविधरणम् ; अतो नास्याक्षरस्य प्रशासनं द्यावापृथिव्यावतिक्रामतः ; तस्मात् सिद्धमस्यास्तित्वमक्षरस्य ; अव्यभिचारि हि तल्लिङ्गम् , यत् द्यावापृथिव्यौ नियते वर्तेते ; चेतनावन्तं प्रशासितारमसंसारिणमन्तरेण नैतद्युक्तम् , ‘येन द्यौरुग्रा पृथिवी च दृढा’ (ऋ. सं. १० । १२१ । ५) इति मन्त्रवर्णात् । एतस्य वा अक्षरस्य प्रशासने गार्गि, निमेषाः मुहूर्ताः इत्येते कालावयवाः सर्वस्यातीतानागतवर्तमानस्य जनिमतः कलयितारः — यथा लोके प्रभुणा नियतो गणकः सर्वम् आयं व्ययं च अप्रमत्तो गणयति, तथा प्रभुस्थानीय एषां कालावयवानां नियन्ता । तथा प्राच्यः प्रागञ्चनाः पूर्वदिग्गमनाः नद्यः स्यन्दन्ते स्रवन्ति, श्वेतेभ्यः हिमवदादिभ्यः पर्वतेभ्यः गिरिभ्यः, गङ्गाद्या नद्यः — ताश्च यथा प्रवर्तिता एव नियताः प्रवर्तन्ते, अन्यथापि प्रवर्तितुमुत्सहन्त्यः ; तदेतल्लिङ्गं प्रशास्तुः । प्रतीच्योऽन्याः प्रतीचीं दिशमञ्चन्ति सिन्ध्वाद्या नद्यः ; अन्याश्च यां यां दिशमनुप्रवृत्ताः, तां तां न व्यभिचरन्ति ; तच्च लिङ्गम् । किञ्च ददतः हिरण्यादीन्प्रयच्छतः आत्मपीडां कुर्वतोऽपि प्रमाणज्ञा अपि मनुष्याः प्रशंसन्ति ; तत्र यच्च दीयते, ये च ददति, ये च प्रतिगृह्णन्ति, तेषामिहैव समागमो विलयश्च अन्वक्षो दृश्यते ; अदृष्टस्तु परः समागमः ; तथापि मनुष्या ददतां दानफलेन संयोगं पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति ; तच्च, कर्मफलेन संयोजयितरि कर्तुः — कर्मफलविभागज्ञे प्रशास्तरि असति, न स्यात् , दानक्रियायाः प्रत्यक्षविनाशित्वात् ; तस्मादस्ति दानकर्तॄणां फलेन संयोजयिता । अपूर्वमिति चेत् , न, तत्सद्भावे प्रमाणानुपपत्तेः । प्रशास्तुरपीति चेत् , न, आगमतात्पर्यस्य सिद्धत्वात् ; अवोचाम हि आगमस्य वस्तुपरत्वम् । किञ्चान्यत् — अपूर्वकल्पनायां च अर्थापत्तेः क्षयः, अन्यथैवोपपत्तेः, सेवाफलस्य सेव्यात्प्राप्तिदर्शनात् ; सेवायाश्च क्रियात्वात् तत्सामान्याच्च यागदानहोमादीनां सेव्यात् ईश्वरादेः फलप्राप्तिरुपपद्यते । दृष्टक्रियाधर्मसामर्थ्यमपरित्यज्यैव फलप्राप्तिकल्पनोपपत्तौ दृष्टक्रियाधर्मसामर्थ्यपरित्यागो न न्याय्यः । कल्पनाधिक्याच्च — ईश्वरः कल्प्यः, अपूर्वं वा ; तत्र क्रियायाश्च स्वभावः सेव्यात्फलप्राप्तिः दृष्टा, न त्वपूर्वात् ; न च अपूर्वं दृष्टम् , तत्र अपूर्वमदृष्टं कल्पयितव्यम् , तस्य च फलदातृत्वे सामर्थ्यम् , सामर्थ्ये च सति दानं च अभ्यधिकमिति ; इह तु ईश्वरस्य सेव्यस्य सद्भावमात्रं कल्प्यम् , न तु फलदानसामर्थ्यं दातृत्वं च, सेव्यात्फलप्राप्तिदर्शनात् । अनुमानं च दर्शितम् — ‘द्यावापृथिव्यौ विधृते तिष्ठतः’ इत्यादि । तथा च यजमानं देवाः ईश्वराः सन्तो जीवनार्थेऽनुगताः चरुपुरोडाशाद्युपजीवनप्रयोजनेन, अन्यथापि जीवितुमुत्सहन्तः कृपणां दीनां वृत्तिमाश्रित्य स्थिताः — तच्च प्रशास्तुः प्रशासनात्स्यात् । तथा पितरोऽपि तदर्थम् , दर्वीम् दर्वीहोमम् अन्वायत्ता अनुगता इत्यर्थः समानं सर्वमन्यत् ॥
यो वा एतदक्षरं गार्ग्यविदित्वास्मिँल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ १० ॥
इतश्चास्ति तदक्षरम् , यस्मात् तदज्ञाने नियता संसारोपपत्तिः ; भवितव्यं तु तेन, यद्विज्ञानात् तद्विच्छेदः, न्यायोपपत्तेः । ननु क्रियात एव तद्विच्छित्तिः स्यादिति चेत् , न — यो वा एतदक्षरं हे गार्गि अविदित्वा अविज्ञाय अस्मिन् लोके जुहोति यजते तपस्तप्यते यद्यपि बहूनि वर्षसहस्राणि, अन्तवदेवास्य तत्फलं भवति, तत्फलोपभोगान्ते क्षीयन्त एवास्य कर्माणि । अपि च यद्विज्ञानात्कार्पण्यात्ययः संसारविच्छेदः, यद्विज्ञानाभावाच्च कर्मकृत् कृपणः कृतफलस्यैवोपभोक्ता जननमरणप्रबन्धारूढः संसरति — तदस्ति अक्षरं प्रशासितृ ; तदेतदुच्यते — यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः, पणक्रीत इव दासादिः । अथ य एतदक्षरं गार्गि विदित्वा अस्माल्लोकात्प्रैति स ब्राह्मणः ॥
अग्नेर्दहनप्रकाशकत्ववत् स्वाभाविकमस्य प्रशास्तृत्वम् अचेतनस्यैवेत्यत आह —
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११ ॥
तद्वा एतदक्षरं गार्गि अदृष्टम् , न केनचिद्दृष्टम् , अविषयत्वात् स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात् । तथा अश्रुतं श्रोत्राविषयत्वात् , स्वयं श्रोतृ श्रुतिस्वरूपत्वात् । तथा अमतं मनसोऽविषयत्वात् स्वयं मन्तृ मतिस्वरूपत्वात् । तथा अविज्ञातं बुद्धेरविषयत्वात् , स्वयं विज्ञातृ विज्ञानस्वरूपत्वात् । किं च नान्यत् अतः अस्मादक्षरात् अस्ति — नास्ति किञ्चिद्द्रष्टृ दर्शनक्रियाकर्तृ ; एतदेवाक्षरं दर्शनक्रियाकर्तृ सर्वत्र । तथा नान्यदतोऽस्ति श्रोतृ ; तदेवाक्षरं श्रोतृ सर्वत्र । नान्यदतोऽस्ति मन्तृ ; तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण । नान्यदतोऽस्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुद्धिद्वारेण विज्ञानक्रियाकर्तृ, नाचेतनं प्रधानम् अन्यद्वा । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः अशनायादिसंसारधर्मातीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च — एषा परा काष्ठा, एषा परा गतिः, एतत्परं ब्रह्म, एतत्पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम् ॥
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥
सा होवाच — हे ब्राह्मणा भगवन्तः शृणुत मदीयं वचः ; तदेव बहुमन्येध्वम् ; किं तत् ? यदस्मात् याज्ञवल्क्यात् नमस्कारेण मुच्येध्वम् — अस्मै नमस्कारं कृत्वा, तदेव बहुमन्यध्वमित्यर्थः ; जयस्त्वस्य मनसापि नाशंसनीयः, किमुत कार्यतः ; कस्मात् ? न वै युष्माकं मध्ये जातु कदाचिदपि इमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता । प्रश्नौ चेन्मह्यं वक्ष्यति, न वै जेता भविता — इति पूर्वमेव मया प्रतिज्ञातम् ; अद्यापि ममायमेव निश्चयः — ब्रह्मोद्यं प्रति एतत्तुल्यो न कश्चिद्विद्यत इति । ततो ह वाचक्नव्युपरराम ॥
अत्र अन्तर्यामिब्राह्मणे एतदुक्तम् — यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदुरिति च, यमन्तर्यामिणं न विदुः, ये च न विदुः, यच्च तदक्षरं दर्शनादिक्रियाकर्तृत्वेन सर्वेषां चेतनाधातुरित्युक्तम् — कस्तु एषां विशेषः, किं वा सामान्यमिति । तत्र केचिदाचक्षते — परस्य महासमुद्रस्थानीयस्य ब्रह्मणः अक्षरस्य अप्रचलितस्वरूपस्य ईषत्प्रचलितावस्था अन्तर्यामी ; अत्यन्तप्रचलितावस्था क्षेत्रज्ञः, यः तं न वेद अन्तर्यामिणम् ; तथा अन्याः पञ्चावस्थाः परिकल्पयन्ति ; तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति । अन्ये अक्षरस्य शक्तय एता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च । अन्ये तु अक्षरस्य विकारा इति वदन्ति । अवस्थाशक्ती तावन्नोपपद्येते, अक्षरस्य अशनायादिसंसारधर्मातीतत्वश्रुतेः ; न हि अशनायाद्यतीतत्वम् अशनायादिधर्मवदवस्थावत्त्वं च एकस्य युगपदुपपद्यते ; तथा शक्तिमत्त्वं च । विकारावयवत्वे च दोषाः प्रदर्शिताश्चतुर्थे । तस्मात् एता असत्याः सर्वाः कल्पनाः । कस्तर्हि भेद एषाम् ? उपाधिकृत इति ब्रूमः ; न स्वत एषां भेदः अभेदो वा, सैन्धवघनवत् प्रज्ञानघनैकरसस्वाभाव्यात् , ‘अपूर्वमनपरमनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इति च श्रुतेः — ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति च आथर्वणे । तस्मात् निरुपाधिकस्य आत्मनो निरुपाख्यत्वात् निर्विशेषत्वात् एकत्वाच्च ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति व्यपदेशो भवति ; अविद्याकामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जीव उच्यते ; नित्यनिरतिशयज्ञानशक्त्युपाधिरात्मा अन्तर्यामी ईश्वर उच्यते ; स एव निरुपाधिः केवलः शुद्धः स्वेन स्वभावेन अक्षरं पर उच्यते । तथा हिरण्यगर्भाव्याकृतदेवताजातिपिण्डमनुष्यतिर्यक्प्रेतादिकार्यकरणोपाधिभिर्विशिष्टः तदाख्यः तद्रूपो भवति । तथा ‘तदेजति तन्नैजति’ (ई. उ. ५) इति व्याख्यातम् । तथा ‘एष त आत्मा’ (बृ. उ. ३ । ४ । १), (बृ. उ. ३ । ५ । १) ‘एष सर्वभूतान्तरात्मा’ (मु. उ. २ । १ । ४) ‘एष सर्वेषु भूतेषु गूढः’ (क. उ. १ । ३ । १२) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहमेवेदं सर्वम्’ (छा. उ. ७ । २५ । १) ‘आत्मैवेदं सर्वम्’ ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतयो न विरुध्यन्ते । कल्पनान्तरेषु एताः श्रुतयो न गच्छन्ति । तस्मात् उपाधिभेदेनैव एषां भेदः, नान्यथा, ‘एकमेवाद्वितीयम्’ इत्यवधारणात्सर्वोपनिषत्सु ॥
इति तृतीयाध्यायस्य अष्टमं ब्राह्मणम् ॥
अशनायादिनिर्मुक्तं साक्षादित्यादिलक्षणम् ।।
अतोऽक्षरं प्रवक्तव्यं निरुषाध्यात्मनि स्थितम् ।। १ ।।
यदुद्दिश्य प्रवृत्तैपा व्याख्य सर्वान्तरं प्रति ।।
तदक्षरं प्रवक्तव्यमित्यर्थैषोत्तरा श्रुतिः ।। २ ।।
गौतमेन पुरा पृष्टे सूत्रान्तर्यामिवस्तुनी ।।
ओतप्रोतात्मतां गार्गी तयोरेवान्वपृच्छत ।। ३ ।।
दिवो यदूर्ध्वं वस्तु स्यात्सद्वाऽसद्वा विशेषितम् ।।
अर्वाग्यच्च कपालात्स्यान्मध्ये यच्च कपालयोः ।। ४ ।।
ऊर्ध्वं दिवः कपालाद्यदधो यच्चाधरात्पुटात् ।।
यस्य मध्ये कपाले ते यच्च भूतादिलक्षणम् ।। ५ ।।
पदार्थगतिमेवं वा व्याचक्षीताविरोधतः ।।
भूतं यत्समतिक्रान्तं भवद्यदधुनातनम् ।। ६ ।।
भविष्यच्च यदागामि नातीतं नापि वर्तते ।।
इत्याचक्षत इत्युक्त्याऽनुमादोषोऽपनुद्यते ।। ७ ।।
एतदेवंविधं सूत्रमागमज्ञाः प्रचक्षते ।।
ओतं प्रोतं च तत्कस्मिन्निति पृष्टो ब्रवीहि मे ।। ८ ।।
सूत्रे तावदिदं सर्वमोतं च प्रोतमेव च ।।
वर्तमाने जगत्काल इति तावत्सुनिश्चितम् ।। ९ ।।
जगच्चाप्यनभिव्यक्तमाविर्भवति सांप्रतम् ।।
व्यक्तिश्चेयं सतो युक्ता नासतो घटते यतः ।। १० ।।
अभिव्यक्तं च सदिदं पुनरव्यक्ततामितम् ।।
वायुना विधृतं तस्य रूपं यद्वार्तमानिकम् ।। ११ ।।
अतीतानागतयोस्तु कालयोर्जगदात्मनः ।।
सत्ता येनाऽऽत्मना कस्मिन्नोता प्रोतेति भण्यताम् ।। १२ ।।
प्रात्युच्चार्याथ गार्ग्योक्तमाकाशे प्राब्रवीदृषिः ।।
ओतप्रोतकतां वायोर्जगतोऽसौ प्रयत्नतः ।। १३ ।।
क्ष्माद्येतत्सूत्रपर्यन्तं नाशादूर्ध्वं जनेः पुरा ।।
आकाशे तदविज्ञातं सत्तामात्रेण विद्यते ।। १४ ।।
यावद्धि जनिमत्किंचिन्नामादिप्रविभागवत् ।।
आकशस्तस्य सर्वस्य तत्त्वमत्र विवक्षितम् ।। १५ ।।
त्र्यतिरेकं सतो नेदं लभतेऽनात्मकत्वतः ।।
नाप्यन्वयं तदव्याप्तेर्नाप्यभावः सतीष्यते ।। १६ ।।
सदतो जनिमत्तत्त्वं सर्पादे रशना यथा ।।
सत्तत्त्वव्यतिरेकेण नान्या जनिमतो गतिः ।। १७ ।।
सदेवेदमतः सर्वमुद्भूतिस्थितिहानिषु ।।
सदेवेति तथा स्पष्टं छान्दोग्योपनिषद्वचः ।। १८ ।।
अर्वागेवाक्षराज्ज्ञेया सत्तेयं जगतो निधिः ।।
कार्यकारणनिर्मुक्तमक्षरं वक्ष्यते यतः ।। १९ ।।
सर्वशक्तिरियं शक्तिर्या सदित्यभिधीयते ।।
न च सत्तेति सामान्यं प्रत्ययार्थासमीक्षणात् ।। २० ।।
न सतो व्यतिरेकेण सतोऽन्यो भाव ईक्ष्यते ।।
अप्यभावो न लभते किमु भावोऽतिरेकताम् ।। २१ ।।
सदन्यबुद्धिगम्यस्य श्रुतिस्तस्मादनेकशः ।।
अब्रवीद्वान्तिमात्रत्वं मृत्तिकादिनिदर्शनैः ।। २२ ।।
आकाशवचसाऽऽत्मैव ज्ञेयो नान्योऽत्र कश्चन ।।
सर्वान्तरत्वं नान्यस्य युज्यतेऽनात्मनो यतः ।। २३ ।।
आकाशो वा इति तथा ब्रह्मैव श्रुतिरब्रवीत् ।।
कारणं चाऽऽत्मनो नान्यत्र्रय्यन्तेषूपलभ्यते ।। २४ ।।
जगज्जनिस्थितिध्वस्तिनियमाद्यर्थकार्यपि ।।
नाऽऽत्मनः कारणादन्यः कश्चित्संभाव्यते श्रुतेः ।। २५ ।।
एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ ।।
माण्डूकेयश्रुतिवच इति स्पष्टमधीयते ।। २६ ।।
नातोऽन्तर्यामिणः कल्प्यमन्यदव्याकृतं बुधैः ।।
अक्षरान्तेषु तत्त्वेषु नाव्याकृतवचो यतः ।। २७ ।।
तद्धेदमिति चात्रापि जगदेवाभिधीयते ।।
अन्याकृतगिरा तस्य व्याकृताव्याकृतत्वतः ।। २८ ।।
सर्वस्यैष वशीत्युक्त्वा यतस्तस्यैव वेद्यताम् ।।
यत्नात्प्राह श्रुतिस्तस्माद्यन्ताऽव्याकृतमुच्यते ।। २९ ।।
विद्या कर्म च संस्काराः प्रत्यगज्ञानतत्त्वकाः ।।
देहग्रहणहेतुत्वं येषां नः श्रुतिरब्रवीत् ।। ३० ।।
अविचारितसंसिद्धिप्रत्यगज्ञानसंस्थितिः ।।
त्रयमेतत्सदा ग्राह्यं न कार्यं कारणं विना ।। ३१ ।।
कर्मैवैतत्र्रयं तच्च नाऽऽत्मानं लभते यतः ।।
कारकाणि विनोत्पत्तौ प्रयोगमनुरुध्यते ।। ३२ ।।
प्रयोगरूपेणैवातो वेष्टितं कर्म तिष्ठति ।।
कारणात्मनि संसृष्टं नान्यथाऽतोऽस्य संस्थितिः ।। ३३ ।।
सप्रयोगगणः सर्वः सौक्ष्म्येण परमेण तु ।।
प्राक्फलोद्भवतो नष्ट्वा प्रतीचि व्यवतिष्ठते ।। ३४ ।।
प्रत्यक्संवित्तिवस्तुस्थः प्रमाणविरहादयम् ।।
न ज्ञातः कुम्भवन्नापि चित्स्थत्वात्खरशृङ्गवत् ।। ३५ ।।
न चायं नेति नेतीति कारणत्वादिहोच्यते ।।
विशेषस्याग्रहात्तद्वद्गृह्यते नेदमित्यपि ।। ३६ ।।
क्षित्यादिसूत्रपर्यन्तं नियम्यापेक्षयोच्यते ।।
नियन्ता कारणं चेति न तु सूत्रान्तिकेऽसति ।। ३७ ।।
स्वात्मानुभवतन्त्रत्वत्प्रत्याख्यातुं न शक्यते ।।
व्यावृत्तिविधिरूपाभ्यां सुषुप्तिरनुभूयते ।। ३८ ।।
व्यावृत्तः शुक्लपीतादेरन्धकारोऽनुभूयते ।।
तथा विधिमुखेनापि द्विरेफोदरवत्तमः ।। ३९ ।।
स्वप्नबोधात्तदा तद्वदिविक्तोऽर्थोऽनुभूयते ।।
मूढोऽस्मीत्यपि साक्षाच्च मोहोऽयमनुभूयते ।। ४० ।।
मूढोत्पत्तेः पुरा मोहः प्रत्यग्वस्त्वनुरोध्यभूत् ।।
तदुत्पत्तौ ससंवित्को मोहो मूढप्रधानकः ।। ४१ ।।
सोऽयमैकात्म्यगर्भः सन्मोहः सर्वस्य कारकः ।।
धर्मी च सर्वधर्माणां न परोक्षस्ततोऽश्ववत् ।। ४२ ।।
यन्तृत्वहेतुविध्वस्तावेष संपद्यतेऽक्षरम् ।।
कूटस्थस्य द्वितीयेन संबन्धोऽबोधकारितः ।। ४३ ।।
प्रश्नोऽयं न तृतीयः स्यात्प्रतिज्ञातत्वतो द्वयोः ।।
पूर्वोक्तस्यैव दार्ढ्यार्थं प्रश्नोऽयं पृच्छयते पुनः ।। ४४ ।।
पृष्टं भूयोऽपि चापृच्छदुक्तधीदृढनिश्चितौ ।।
परायत्तप्रबोधोऽपि शक्तो वक्तुं यतस्ततः ।। ४५ ।।
एवेत्यवधृतेर्यद्वा पूर्वप्रश्नार्थशेषता ।। ४६ ।।
किमनेकत्र लीनिः स्यात्सूत्रस्यापि क्षितेरिव ।।
आकाश एव किंवा स्यादित्येवं पूर्वशेषता ।। ४७ ।।
मोहोच्छित्तिर्यथावस्तुसम्यग्ज्ञानप्रसूतितः ।।
सम्यग्ज्ञानप्रसिद्ध्यर्थमतः प्रश्नोऽयमुत्तरः ।। ४८ ।।
सूत्रादिक्षितिपर्यन्तमर्वाग्यन्तुरचेतनम् ।।
निष्णमाणं यतस्तस्मात्पृच्छ्यते सप्रमाणकम् ।। ४९ ।।
सूत्रं तावत्सुदुर्ज्ञानमाकाशस्तु ततोऽप्यति ।।
तस्मात्परतरं तत्त्वं दुर्वचोऽपि बृहस्पतेः ।। ५० ।।
सूत्रान्तं वस्तु निर्देश्यमनिर्देश्ये प्रवेशितम् ।।
यन्तरि व्योम्नि तदपि दुर्वाच्यमतिसूक्ष्मतः ।। ५१ ।।
सर्वमानातिवर्त्येकमुक्तं प्रत्यक्चिदात्मकम् ।।
अव्यावृ्त्ताननुगतं ततोऽप्यक्षरसंज्ञितम् ।। ५२ ।।
अज्ञातज्ञाततोऽन्यत्वान्निर्देश्यं न तदक्षरम् ।।
साक्षादित्यादिरूपत्वान्नापि स्यात्तदपहनुतिः ।। ५३ ।।
अपि चेद्वक्त्यनिर्देश्यं कथंचिन्मोहविभ्रमात् ।।
तथा विप्रतिपत्तिः स्यादनुक्तौ च पराजितः ।। ५४ ।।
इति चेतसि संधाय याज्ञवल्क्यमपृच्छत ।।
गार्ग्यक्षरमनिर्देश्यं तां चासावब्रवीदिदम् ।। ५५ ।।
एतद्वै तदिति प्राह प्रत्यक्साक्षिकमक्षरम् ।।
अपास्ताशेषनिर्देशं यदनन्यप्रमाणकम् ।। ५६ ।।
यत्साक्षाच्चापरोक्षाच्च ब्रह्मात्मेति विशेषितम् ।।
प्रत्यक्तया तदैकात्म्यं स्वयमेव प्रतीयताम् ।। ५७ ।।
न व्यावृत्तं विशेषेभ्यो नानुवृत्तं च गोत्ववत् ।।
अव्यावृत्ताननुगतं चैतन्यं संविदीक्ष्यताम् ।। ५८ ।।
यस्मात्प्रसिद्धं नास्त्यन्यत्प्रसिद्धं यन्न कस्यचित् ।।
अनन्यममषष्ठ्यर्थं वैशब्दस्तत्प्रसिद्धये ।। ५९ ।।
साक्षादित्यादिवाक्येन योऽशनायादिना तथा ।।
प्रत्यङ्ङभिहितो यत्नात्तद्गिरा सोऽत्र युज्यते ।। ६० ।।
प्रत्यक्षासन्ननिष्ठत्वादेतच्छब्दस्य कुम्भवत् ।।
यदेतदिति तत्साक्षाद्यथावत्प्रतिपद्यताम् ।। ६१ ।।
प्रत्यक्षैकप्रमाणोऽर्थो लौकिकोऽपि न शक्यते ।।
प्रत्यक्षवद्बोधयितुं किमु प्रत्यङ्निरञ्जनम् ।। ६२ ।।
क्षराद्विरुद्धधर्मत्वादक्षरं ब्रह्म भण्यते ।।
कार्यकारणवद्वस्तु क्षरमत्र निषिध्यते ।। ६३ ।।
हानिवृद्धिस्वभावेन कारणात्मैव वर्तते ।।
तत्प्रत्यगात्मा तद्धीनः कूटस्थोऽनन्यमानगः ।। ६४ ।।
ब्राह्मणास्तद्वदन्तीति स्वापराधनिषेधगीः ।।
नाऽऽत्माज्ञानाय सा युक्ता स हि साक्षात्तदीक्षते ।। ६५ ।।
निर्देश्यत्वानुमादोषप्रसङ्गविनिवृत्तये ।।
आगमैकप्रमाणत्वे वदन्तीत्यभिशब्दनम् ।। ६६ ।।
एतावदेव प्रत्यक्षं सर्वयाथात्म्यवेदिनाम् ।।
ब्राह्मणानामतो युक्तं फलपर्यवसायिनम् ।। ६७ ।।
ध्वस्तात्माज्ञानतत्कार्याः प्रत्यग्याथात्म्यबोधतः ।।
वदन्ति ब्राह्मणास्तेऽतस्त्यक्तसर्वैषणास्पदम् ।। ६८ ।।
एतदेव तु विज्ञाय व्युत्तिष्ठन्त्येषणात्रयात् ।।
यतोऽतस्तत्स्वसंवेद्यं गार्ग्यक्षरामेदं ध्रुवम् ।। ६९ ।।
तेषां चेत्स्यात्स्वसंवेद्यं निर्देश्यं तद्धटादिवत् ।।
अस्थूलत्वान्न तच्छक्यं निर्देष्टुमिति सोऽब्रवीत् ।। ७० ।।
अक्षरं यदि न स्थूलमणु तर्हि तदिष्यताम् ।।
यतस्तत्प्रतिषेधार्थमनण्विति जगाद ताम् ।। ७१ ।।
परिमाणमहाभूतप्राणनामान्वयादयः ।।
कारणाद्या निषिध्यन्ते क्रमेऩ प्राप्त्यपेक्षया ।। ७२ ।।
प्रसज्यपर्युदासाभ्यां नञर्थः कोऽत्र गृह्यते ।।
स्थूलापह्नुतिरेकत्र पर्युदासे तदन्यता ।। ७३ ।।
स्थूलापहनुतिरत्र स्याद्वस्तु यत्पारमार्थिकम् ।।
नाभावानिष्ठोऽन्यत्रापि निषेधः किमुताक्षरे ।। ७४ ।।
पर्युदासेऽपि क्लृप्तानां न पृथक्त्वेन संस्थितिः ।।
रज्जुसर्पादिवत्तस्मान्नोभयत्रापि दोषता ।। ७५ ।।
दृष्टोऽपवादो लोकेऽस्मिन्नुत्सर्गविषये सति ।।
स्थूलादेरपवादोऽयं निर्द्वये घटते कथम् ।। ७६ ।।
उत्सर्गस्यास्ति विषयो योननिर्ज्ञातात्मतत्त्वकः ।।
अपवादस्य विषये ज्ञातात्मैकसतत्त्वकः ।। ७७ ।।
अध्यस्तदिङ्निषेधश्च व्योम्न्येकस्मिन्यथा तथा ।।
उत्सर्गापवादविधिनिषेधा एकलात्मनि ।। ७८ ।।
यदि वाऽक्षरयाथात्म्यं स्थूलादेरिह भण्यते ।।
स्रग्याथात्म्यमहेर्यद्वत्तथाऽस्याक्षरमात्रतः ।। ७९ ।।
स्थूलादिहेतोर्दाहो वा ध्वान्तस्य प्रत्यगात्मनि ।।
अस्थूलोक्तिसमुत्थात्मयाथात्म्यज्ञानवह्निना ।। ८० ।।
क्षित्यादौ वियदन्तेऽस्मिन्स्थूलादेः संभवो नेनु ।।
तदोतप्रोतवाक्येन तच्च सर्वं निराकृतम् ।। ८१ ।।
तस्याक्षरे कः प्रसङ्गो यतस्तत्प्रतिषिध्यते ।।
अपि खे तदसंभाव्यं किमु तत्प्रत्यगात्मनि ।। ८२ ।।
समस्तव्यस्ततां केचिद्ब्रह्मणः प्रतिजानते ।।
यतोऽतस्तन्निषेधार्थंं निषिद्धं सन्निषिध्यते ।। ८३ ।।
व्यक्तावस्थाऽथवैतेषां निषिद्धा कारणात्मनि ।।
शक्त्यवस्थानिषेधोऽयं क्रियते त्वक्षरात्मनि ।। ८४ ।।
एवं च सति तत्पूर्णं ब्रह्म कृस्नं च युज्यते ।।
अन्यथाऽकृस्नमेव स्यादनिर्मोक्षश्च सज्यते ।। ८५ ।।
न वा निषेधः स्थूलादेस्तस्य प्रागेव सिद्धितः ।।
तन्निषेधानुवादेन प्रतीचि ब्रह्म बोध्यते ।। ८६ ।।
स्थूलादिमेयमामातृनिषेधफलगं स्वभम् ।।
विद्धि सर्वान्तरं ब्रह्म साक्षादित्यादिलक्षणम् ।। ८७ ।।
सर्वेषामपि चोद्यानामेवं सति न संभवः ।।
नेति नेतीतिवद्व्याख्या सर्वाऽपीह समीक्ष्यताम् ।। ८८ ।।
स्थूलादिपरिमाणं हि द्रव्यमात्रव्यपाश्रयम् ।।
तस्माद्द्रव्यनिषेधोऽयं परिमाणनिषेधतः ।। ८९ ।।
सर्वथाऽपि तु यत्किंचिद्वाचो गोचरता गतम् ।।
प्रमाणस्य च तत्सर्वमक्षरे प्रतिषिध्यते ।। ९० ।।
विशेषप्रतिषेधे च क्रम आश्रीयते ध्रुवम् ।।
सामर्थ्यादेव नान्यस्मात्कारणादिति निश्चयः ।। ९१ ।।
पूर्वोत्तरनिषेध्यानां सामर्थ्यादेव च क्रमः ।।
पूर्वस्मिन्प्रतिषिद्धेऽन्यः सामर्थ्यादेव ढौकते ।। ९२ ।।
अस्थैल्यादणु तत्प्राप्तं तन्नानणु यतोऽक्षरम् ।।
ह्रस्वं नैव यतोऽह्नस्वं नापि दीर्घं यतोऽक्षरम् ।।
अदीर्घमित्यातो द्रव्यं न स्यादक्षरमव्ययम् ।। ९३ ।।
आदित्यवर्णवचनादस्तु तद्रोहितात्मकम् ।।
नैवं यतोऽलोहितं तत्सर्वरूपादिवर्जितम् ।। ९४ ।।
अपां गुणोऽत्र स्नेहः स्याच्छायाऽदीप्तिरिहेष्यते ।
तमो ध्वान्तमिति ज्ञेयमतमोऽक्षरमुच्यते ।। ९५ ।।
न भूतं तत्पृथिव्यादि नापि भूतगुणास्तथा ।।
सर्वान्तराधिकाराद्धि तथोभयनिषेधतः ।। ९६ ।।
अस्तु सङ्गात्मकं तर्हि वासनासङ्गदर्शनात् ।।
नैतद्यतोऽसङ्गमिदमसङ्गो हीति वक्ष्यति ।। ९७ ।।
नापीन्द्रियमिदं ज्ञेयं यतोऽचक्षुष्कमक्षरम् ।।
नेन्द्रियाण्यस्य विद्यन्ते नापि तत्स्वयमिन्द्रियम् ।। ९८ ।।
विज्ञानलक्षणं तेजोऽतेजस्कमिति वार्यते ।।
कस्मादेतन्न तत्सर्वं यतोऽप्राणं तदक्षरण् ।। ९९ ।।
कारणप्रतिषेधेन कृत्स्नकार्यनिषेधतः ।।
पूर्णं तदक्षरं ज्ञेयं साक्षादित्यादिलक्षाणम् ।। १०० ।।
अक्षरं येन रूपेण स्थूलं वस्तु निषेधति ।।
तेनैवाण्वादि निःशेषं तस्य सर्वविरोधतः ।। १०१ ।।
अन्येनान्येन रूपेण विरुद्धान्हन्ति पावकः ।।
विरोधिना यथा तद्वन्नेह स्थूलाद्यपाक्रिया ।। १०२ ।।
मानित्वादिनिषेधः स्याद्यथैकाक्रियरूपतः ।।
प्रत्यक्कूटस्थरूपेण तथा सर्वनिषेधकृत् ।। १०३ ।।
कूटस्थबोधपूर्णत्वं प्रत्यक्त्वं वस्तुनः स्वतः ।।
एतदस्य विरोधित्वं कार्यकारणवस्तुभिः ।। १०४ ।।
द्वारं मुखं प्रतीकं वा यदि वा लिङ्गमुच्यते ।।
निषेधोऽमुखमित्येवं त्रयस्याप्यभिधीयते ।। १०५ ।।
मात्रेति मानमिच्छन्ति मेयाऽर्थस्तेन मीयते ।।
अक्षरे तदसंभाव्यममात्रं तद्यतस्ततः ।। १०६ ।।
मात्रादिलक्षणा यत्र सामग्री वस्तुनीष्यते ।।
तत्प्रमेयमिति न्याय्यं न तु वस्त्वद्वयं स्वतः ।। १०७ ।।
व्याप्यव्यापकसंबन्धो न चाप्यक्षरवस्तुनि ।।
न तदश्नातिवाक्येन यतस्तद्वार्यते द्वयम् ।। १०८ ।।
निषिद्धमखिलं वस्तु यत्किंचिज्जगतीक्ष्यते ।।
अवशिष्टं च यत्तच्च न प्रमाणोपपादितम् ।। १०९ ।।
एवं चेदक्षरं तादृक्कथमस्तीति गम्यते ।।
न हि प्रमाणविरहादस्ति वस्त्विति वीक्ष्यते ।। ११० ।।
सिद्धसाध्यत्वतो नैवं तथाचोक्तोत्तरत्वतः ।।
भावाभावातिरेकित्वादभ्युपेतं त्वयोच्यते ।। १११ ।।
मानाभावे त तन्नेति व्यतिरेकः कुतोऽन्वयम् ।।
मानाभावं किमद्राक्षीर्येनैवमभिधीयते ।। ११२ ।।
सर्व हि मानं लोकेऽस्मिन्वस्त्वभिव्यक्तिसाधनम् ।।
तदभावेऽनभिव्यक्तं वस्तु नास्तीति दुर्वचः ।। ११३ ।।
स्थूलाद्यनेकधर्माणां निषधायासकारणात् ।।
अस्तित्वमक्षरस्येह सिद्धं तावदृगात्मनः ।। ११४ ।।
स्वमहिम्ना त्वभावोऽपि सेद्धुं नैवाऽऽत्मवत्क्षमः ।।
तत्पारार्थ्यजडत्वाभ्यां, मित्यभावस्तथा समः ।। ११५ ।।
मामेयमात्रसद्भावात्तेभ्योऽत्यन्तनिवृत्तितः ।।
स्वमहिम्ना प्रसिद्धेश्च कुतोऽभावस्य संभवः ।। ११६ ।।
स्वतो माफलरूपत्वान्न माकार्यं प्रमाणतः ।।
नास्तीति तु विना मानं न सिध्येत्कुम्भवत्स्वतः ।। ११७ ।।
कुम्भ आरोप्यते यद्वत्प्रकाशो भानुसंगतेः ।।
भानुप्रकाशसंबन्धे भानोर्नान्यदपेक्षते ।। ११८ ।।
स्वतोऽवगतिसंवन्धात्तथाऽभावोऽवगम्यते ।।
तथाऽवगतिसंबन्धे नापेक्षाऽवगतेः स्वतः ।। ११९ ।।
अतोऽवगत्यभावोऽपि न स्वतोऽवगतिं विना ।।
सिध्यतीह ततोऽस्तित्वं स्वत एवाक्षरात्मनः ।। १२० ।।
उक्तो निरन्वयोऽभावो न बौद्धादिसमाश्रयात् ।।
तत्त्वमस्यादिवाक्योत्थविज्ञानविरहात्क्वचित् ।। १२१ ।।
नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा ।
निवृत्तिस्तद्वदेवास्य नावगत्यात्मनोऽपरा ।। १२२ ।।
अकार्यकारणं साक्षादित्यादिगुणलक्षणम् ।।
कूटस्थमक्षरं ध्वान्तध्वस्तौ स्यान्नौ निरन्वयम् ।। १२३ ।।
नास्यास्तित्वे यथा मानमेकत्वादक्षरात्मनः ।।
तन्नास्तित्वेऽपि च तथा तयोस्तस्मात्प्रसिद्धितः ।। १२४ ।।
सत्त्वं वा यदि वाऽसत्त्वं कार्यकारणवस्तुनः ।।
अतद्वद्बोध एवैतत्सिध्यतीव न तु स्वतः ।। १२५ ।।
यत एवमतो नेह कश्चिद्विप्रतिपद्यते ।।
अक्षरात्मनि नास्तित्वे तस्माद्धेतूक्तिरिष्यते ।। १२६ ।।
यतो विप्रतिपद्यन्ते त्वन्तर्यमिणि वादिनः ।।
तत्सिद्धयेऽनुमायत्नः क्रियतेऽतः परोक्तिभिः ।। १२७ ।।
ईशितव्यार्थसंबन्धादन्तर्याम्येतदक्षरम् ।।
चैतन्याभासमोहाख्यवर्त्मनैव न तु स्वतः ।। १२८ ।।
अनुमानश्रुतिस्तस्मादागात्तस्यैव सिद्धये ।।
कारणात्मनि संसिद्धे सर्वं सिद्धं भवेद्यतः ।। १२९ ।।
एतस्य वा अक्षरस्य प्रशासनविधौ सति ।।
सर्वतःस्थिरमर्यादं जगदेतद्विवर्तते ।। १३० ।।
प्रशासने यथा राज्ञोऽभिन्नमर्यादिकाः प्रजाः ।।
पृथिव्याद्यास्तथैवेमा अक्षरस्य प्रशासने ।। १३१ ।।
विवादगोचरापन्ना यन्तृपूर्वा जगत्स्थितिः ।।
व्यवस्थितत्वाल्लोकस्य राजपूर्वा स्थितिर्यथा ।। १३२ ।।
सूर्याचन्द्रमसौ तज्जकार्याभिज्ञपुरःसरौ ।।
सर्वप्राण्युपकारित्वात्प्रासादस्थप्रदीपवत् ।। १३३ ।।
सूर्याचन्द्रमसावीशौ मर्यादां नातिगच्छतः ।।
येनेह विधृतौ नित्यं सोऽन्तर्यामीति गम्यताम् ।। १३४ ।।
कुसूलवन्न भिद्येते सांशत्वात्पततोऽपि न ।।
गुरुत्वाल्लोहवत्पृथ्वी द्यौरपीत्यतिविस्मयः ।। १३५ ।।
चेतनावत्स्वतन्त्रत्वाद्देवतात्मत्वकारणात् ।।
नान्तरेण नियन्तारं तयोरेषा व्यवस्थितिः ।। १३६ ।।
संयुक्तयोर्वियोगोऽपि न तयोरीक्ष्यते क्वचित् ।।
प्रशासनमृते शास्तुर्न व्यवस्थेदृशी भवेत् ।। १३७ ।।
द्यावापृथिव्योर्लोकेऽस्मिन्नान्यथेयं समीक्ष्यते ।।
स्वभावमतिलङ्घ्यैते तिष्ठतः शास्तृशासने ।। १३८ ।।
निमेषादिविभक्तानां कालांशानां व्यवस्थितिः ।।
या स्वलिङ्गाजहद्वृत्त्या तदीशस्य प्रशासनम् ।। १३९ ।।
नियतैव प्रवृत्तिश्च स्रोतसां महतामपि ।।
नान्तरेण नियन्तारं संभाव्येत्यवसीयताम् ।। १४० ।।
दुःखार्जितधनत्यागिनुतिश्च जगतीक्ष्यते ।।
नेयं युक्ताऽप्रसिद्धेशे तत्कर्मफलदायिनि ।। १४१ ।।
दातृप्रतिग्रहीत्रोश्च क्रियात्यक्तव्ययोस्तथा ।।
अन्वक्षमेव विलयो दृश्यते सार्वलौकिकैः ।। १४२ ।।
तथाऽपि तान्प्रशंसन्ति दुःखार्जितधनत्यजः ।।
अपि सम्यक्प्रमाणज्ञास्तच्च नर्ते महेश्वरम् ।। १४३ ।।
दानादिकर्मणः साक्षात्पश्यन्तः फलसंगतिम् ।।
प्रमाणज्ञाः प्रशंसन्ति यच्च तच्च सतीश्वरे ।। १४४ ।।
शास्तर्यसति तत्कर्मफलवैचित्र्यवेदिनि ।।
सर्वज्ञेऽनुपपन्नं स्यात्कर्मज्ञानफलप्रदे ।। १४५ ।।
नाप्यनीशमपूर्वं च प्रकल्प्यं फलसंगतौ ।।
यतोऽपूर्वस्य संसिद्धौ प्रमाणं नाोपपद्यते ।। १४६ ।।
नियन्तुरपि चेन्मैवं श्रुतेर्वस्तुन्यपि ध्रुवम् ।।
प्रामाण्यस्य पुरोक्तत्वात्तत्सिद्धेश्चानुमानतः ।। १४७ ।।
अर्थापत्तेरपूर्वस्य कल्पनाऽपि न युज्यते ।।
अन्यथाऽप्युपपन्नत्वादर्थापत्तेः क्षयो यतः ।। १४८ ।।
सेव्यात्सेवाफलप्राप्तिदर्शनान्न त्वपूर्वतः ।।
सेवायाश्च क्रियात्मत्वाद्दानयागादि च क्रिया ।। १४९ ।।
दानादिफलसंप्राप्तिः सेव्याद्भवितुमर्हति ।।
क्रियात्मकत्वाद्दानादे राजसेवाफलाप्तिवत् ।। १५० ।।
सर्वकर्मफलप्राप्तिरीश्वरादेव नान्यतः ।।
इत्याह भगवान्व्यासः सर्वज्ञोऽपि महामतिः ।। १५१ ।।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।। १५२ ।।
अपिं दृष्टक्रियाधर्मसामर्थ्यमनिरस्य तु ।।
फलाप्तिकल्पनासिद्धावपन्यायोऽन्यथा भवेत् ।। १५३ ।।
लोकदृष्टक्रियाधर्मसामर्थ्यत्यागलक्षणः ।।
अपन्यायो न युक्तोऽतो न्यायवर्त्मासमन्वयात् ।। १५४ ।।
कल्पनाधिक्यतश्चैतदपूर्वं नोपपद्यते ।
कल्प्य ईशोऽथवाऽपूर्वं किं कल्प्यमुपपद्यते ।। १५५ ।।
सेव्यात्क्रियाफलप्राप्तिर्दृष्टेयं न त्वपूर्वतः ।।
नाप्यपूर्वं क्वचिद्दृष्टं तन्मानासंभवादिह ।। १५६ ।।
अपूर्वं निष्प्रमाणं च दातुं शक्तिरथास्य च ।।
फलदातृत्वसामर्थ्ये दानं चाभ्यधिकं तथा ।। १५७ ।।
इह त्वीशातिरेकेण नान्यत्किंचित्प्रकल्प्यते ।।
परिशिष्टस्य कल्प्य़स्य सेव्ये दृष्टत्वकारणात् ।। १५८ ।।
देवाश्च पितरश्चैव मनुष्याणामधीनताम् ।।
नाऽऽप्नुयुर्हव्यकव्यार्थं यदि नाभूत्प्रशासिता ।। १५९ ।।
यदज्ञानाज्जगत्यस्मिंस्तीव्रानर्थपरंपरा ।।
ज्ञानाच्च मुक्तिः संसारात्कथं नास्ति प्रशास्तृ तत् ।। १६० ।।
ननु क्रियात एवेयं संसारोच्छित्तिरिष्यते ।।
नैवं यतो न कर्मभ्यो मुक्तिः संभाव्यतेऽश्रुतेः ।। १६१ ।।
यथाच कर्मणा मुक्तिर्न कथंचन युज्यते ।।
तथोक्तत्वात्पुरा नेह भूयो वक्तव्यमिष्यते ।। १६२ ।।
असंभवो यथा मुक्तेः क्रियासाधनसंश्रयात् ।।
तथेयं श्रुतिरप्याह यो वा इत्यादिवाक्यतः ।। १६३ ।।
उदारफलदायीनि बहुशोऽनुष्ठितान्यपि ।।
क्षयिष्णुफलवन्त्येव कर्माणि यदबोधतः ।। १६४ ।।
तथाच यत्परिज्ञानात्कृत्स्नकार्पण्यनिःसृतिः ।।
कथमेवंविधं गार्गि नास्तीत्यक्षरमुच्यते ।। १६५ ।।
सर्वे कार्पण्ययुक्ताः स्युर्यदि न स्यात्तदक्षरम् ।।
ईक्ष्यन्ते चाप्यकृपणास्तच्च सत्येव यन्तरि ।। १६६ ।।
यो वा एतदिति स्पष्टं श्रुतिरप्याह यत्नतः ।।
अक्षराज्ञानतः पुंसां कार्पण्येनावियुक्तताम् ।। १६७ ।।
अक्षरं यो विदित्वाऽस्माल्लोकाद्गार्गि प्रमीयते ।।
निवर्तते स कार्पण्यात्तज्ज्ञानाद्ध्वान्तबाधतः ।। १६८ ।।
यस्त्वक्षरपरिज्ञानान्मृत्युमृत्युः प्रमीयते ।।
स एव ब्राह्मणो नान्यो जगत्यध्यवसीयताम् ।। १६९ ।।
सर्वज्ञः सर्वकृच्चासौ निरस्ताशेषसंसृतिः ।।
प्राप्ताशेषपुमर्थश्च ब्राह्मणोऽत्राभिधीयते ।। १७० ।।
ज्ञेयत्वसिद्धये प्राह यथोक्तेश्वरवर्त्मना ।।
अक्षरस्य श्रुतिः साक्षात्तद्वा इत्येवमादिना ।। १७१ ।।
एतदस्य प्रशास्तृत्वं स्वमोहाभासहेतुकम् ।।
नेति नेत्यादिवाक्येभ्यो दृष्टिमात्रात्मवस्तुनः ।। १७२ ।।
इत्येतत्प्रतिपत्त्यर्थं तद्वा एतदिति श्रुतिः ।।
मागोचरातिवर्तित्वाददृष्टं स्यात्तदक्षरम् ।। १७३ ।।
अभावत्वनिषेधार्थं द्रष्ट्रक्षरमिहोच्यते ।।
कूटस्थदृष्टिमात्रत्वान्न तु द्रष्टृत्वमुच्यते ।। १७४ ।।
ओतप्रोतगिराऽशेषदृश्यवस्तुनिराकृतेः ।।
अकारकाद्वयत्वाभ्यां द्रष्टृत्वं नाक्षरात्मनः ।। १७५ ।।
बहुद्रष्टृनिषेधार्थं नान्यदित्याद्युदीरणम् ।।
विजातीयसजातीयवस्त्वन्तरनिषेधतः ।।
कूटस्थमेकं चैतन्यं सिद्धं श्रुत्यनुसारतः ।। १७६ ।।
एतस्मिन्नक्षरे गार्गि स्रजि क्लृप्तफणीन्द्रवत् ।।
ओतः प्रोतश्च निःशेष आकाशोऽकारणात्मनि ।। १७७ ।।
अक्षरं स्वात्मसंमोहात्कारणत्वं निगच्छति ।।
तथा कार्यत्वमप्येतन्निरवद्यं तदेकलम् ।। १७८ ।।
सर्वस्याक्षरमात्रत्वान्न किंचिन्नोपसंहृतम् ।।
प्रत्यग्विरोधतस्तद्वन्न किंचिन्नापि निह्नुतम् ।। १७९ ।।
तथा ज्ञेयस्य सर्वस्य ज्ञाताज्ञातविभागिनः ।।
उक्ताक्षरात्मावसितेर्न किंचिदवशिष्यते ।। १८० ।।
नानुत्पन्नमितो ज्ञानात्किंचिदप्यवशिष्यते ।।
नाप्यध्वस्तं तथाऽज्ञानं कृत्स्नज्ञेयसमाप्तितः ।। १८१ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्याष्टमं ब्राह्मणम्