बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
अथ हैनं विदग्धः शाकल्यः पप्रच्छ । पृथिव्यादीनां सूक्ष्मतारतम्यक्रमेण पूर्वस्य पूर्वस्य उत्तरस्मिन्नुत्तरस्मिन् ओतप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान् ; तस्य च ब्रह्मणो व्याकृतविषये सूत्रभेदेषु नियन्तृत्वमुक्तम् — व्याकृतविषये व्यक्ततरं लिङ्गमिति । तस्यैव ब्रह्मणः साक्षादपरोक्षत्वे नियन्तव्यदेवताभेदसङ्कोचविकासद्वारेणाधिगन्तव्ये इति तदर्थं शाकल्यब्राह्मणमारभ्यते —
अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥
अथ हैनं विदग्ध इति नामतः, शकलस्यापत्यं शाकल्यः, पप्रच्छ — कतिसङ्ख्याका देवाः हे याज्ञवल्क्येति । स याज्ञवल्क्यः, ह किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे सङ्ख्याम् , यां सङ्ख्यां पृष्टवान् शाकल्यः ; यावन्तः यावत्सङ्ख्याका देवाः वैश्वदेवस्य शस्त्रस्य निविदि — निविन्नाम देवतासङ्ख्यावाचकानि मन्त्रपदानि कानिचिद्वैश्वदेवे शस्त्रे शस्यन्ते, तानि निवित्संज्ञकानि ; तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इति । का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते — त्रयश्च त्री च शतात्रयश्च देवाः, देवानां त्री च त्रीणि च शतानि ; पुनरप्येवं त्रयश्च, त्री च सहस्रा सहस्राणि — एतावन्तो देवा इति । शाकल्योऽपि ओमिति होवाच । एवमेषां मध्यमा सङ्ख्या सम्यक्तया ज्ञाता ; पुनस्तेषामेव देवानां सङ्कोचविषयां सङ्ख्यां पृच्छति — कत्येव देवा याज्ञवल्क्येति ; त्रयस्त्रिंशत् , षट् , त्रयः, द्वौ, अध्यर्धः, एकः — इति । देवतासङ्कोचविकासविषयां सङ्ख्यां पृष्ट्वा पुनः सङ्ख्येयस्वरूपं पृच्छति — कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥
स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २ ॥
स होवाच इतरः — महिमानः विभूतयः, एषां त्रयस्त्रिंशतः देवानाम् , एते त्रयश्च त्री च शतेत्यादयः ; परमार्थतस्तु त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंशदित्युच्यते — अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः — ते एकत्रिंशत् — इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति त्रयस्त्रिंशतः पूरणौ ॥
कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं सर्वं हितमिति तस्माद्वसव इति ॥ ३ ॥
कतमे वसव इति तेषां स्वरूपं प्रत्येकं पृच्छ्यते ; अग्निश्च पृथिवी चेति — अग्न्याद्या नक्षत्रान्ता एते वसवः — प्राणिनां कर्मफलाश्रयत्वेन कार्यकरणसङ्घातरूपेण तन्निवासत्वेन च विपरिणमन्तः जगदिदं सर्वं वासयन्ति वसन्ति च ; ते यस्माद्वासयन्ति तस्माद्वसव इति ॥
कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥
कतमे रुद्रा इति । दश इमे पुरुषे, कर्मबुद्धीन्द्रियाणि प्राणाः, आत्मा मनः एकादशः — एकादशानां पूरणः ; ते एते प्राणाः यदा अस्माच्छरीरात् मर्त्यात् प्राणिनां कर्मफलोपभोगक्षये उत्क्रामन्ति — अथ तदा रोदयन्ति तत्सम्बन्धिनः । तत् तत्र यस्माद्रोदयन्ति ते सम्बन्धिनः, तस्मात् रुद्रा इति ॥
कतम आदित्या इति द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥
कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य कालस्य अवयवाः प्रसिद्धाः, एते आदित्याः ; कथम् ? एते हि यस्मात् पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्मफलं च आददानाः गृह्णन्त उपाददतः यन्ति गच्छन्ति — ते यत् यस्मात् एवम् इदं सर्वमाददाना यन्ति, तस्मादादित्या इति ॥
कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ॥ ६ ॥
कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति । अशनिः वज्रं वीर्यं बलम् , यत् प्राणिनः प्रमापयति, स इन्द्रः ; इन्द्रस्य हि तत् कर्म । कतमो यज्ञ इति पशव इति — यज्ञस्य हि साधनानि पशवः ; यज्ञस्यारूपत्वात् पशुसाधनाश्रयत्वाच्च पशवो यज्ञ इत्युच्यते ॥
कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्चैते षडेते हीदं सर्वं षडिति ॥ ७ ॥
कतमे षडिति । त एव अग्न्यादयो वसुत्वेन पठिताः चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड्भवन्ति — षट्सङ्ख्याविशिष्टाः । एते हि यस्मात् , त्रयस्त्रिंशदादि यदुक्तम् इदं सर्वम् , एत एव षड्भवन्ति ; सर्वो हि वस्वादिविस्तर एतेष्वेव षट्सु अन्तर्भवतीत्यर्थः ॥
कतमे ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति ॥ ८ ॥
कतमे ते त्रयो देवा इति ; इम एव त्रयो लोका इति — पृथिवीमग्निं च एकीकृत्य एको देवः, अन्तरिक्षं वायुं च एकीकृत्य द्वितीयः, दिवमादित्यं च एकीकृत्य तृतीयः — ते एव त्रयो देवा इति । एषु, हि यस्मात् , त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति, तेन एत एव देवास्त्रयः — इत्येष नैरुक्तानां केषाञ्चित्पक्षः । कतमौ तौ द्वौ देवाविति — अन्नं चैव प्राणश्च एतौ द्वौ देवौ ; अनयोः सर्वेषामुक्तानामन्तर्भावः । कतमोऽध्यर्ध इति — योऽयं पवते वायुः ॥
तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥
तत् तत्र आहुः चोदयन्ति — यदयं वायुः एक इवैव एक एव पवते ; अथ कथमध्यर्ध इति । यत् अस्मिन् इदं सर्वमध्यार्ध्नोत् — अस्मिन्वायौ सति इदं सर्वमध्यार्ध्नोत् — अधि ऋद्धिं प्राप्नोति — तेनाध्यर्ध इति । कतम एको देव इति, प्राण इति । स प्राणो ब्रह्म — सर्वदेवात्मकत्वान्महद्ब्रह्म, तेन स ब्रह्म त्यदित्याचक्षते — त्यदिति तद्ब्रह्माचक्षते परोक्षाभिधायकेन शब्देन । देवानामेतत् एकत्वं नानात्वं च — अनन्तानां देवानां निवित्सङ्ख्याविशिष्टेष्वन्तर्भावः ; तेषामपि त्रयस्त्रिंशदादिषूत्तरोत्तरेषु यावदेकस्मिन्प्राणे ; प्राणस्यैव चैकस्य सर्वः अनन्तसङ्ख्यातो विस्तरः । एवमेकश्च अनन्तश्च अवान्तरसङ्ख्याविशिष्टश्च प्राण एव । तत्र च देवस्यैकस्य नामरूपकर्मगुणशक्तिभेदः अधिकारभेदात् ॥
इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा भेद उपदिश्यते —
पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यमृतमिति होवाच ॥ १० ॥
पृथिव्येव यस्य देवस्य आयतनम् आश्रयः ; अग्निर्लोको यस्य — लोकयत्यनेनेति लोकः, पश्यतीति — अग्निना पश्यतीत्यर्थः ; मनोज्योतिः — मनसा ज्योतिषा सङ्कल्पविकल्पादिकार्यं करोति यः, सोऽयं मनोज्योतिः ; पृथिवीशरीरः अग्निदर्शनः मनसा सङ्कल्पयिता पृथिव्यभिमानी कार्यकरणसङ्घातवान्देव इत्यर्थः । य एवं विशिष्टं वै तं पुरुषं विद्यात् विजानीयात् , सर्वस्य आत्मनः आध्यात्मिकस्य कार्यकरणसङ्घातस्य आत्मनः परमयनम् पर आश्रयः तं परायणम् — मातृजेन त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परम् अयनम् , करणात्मनश्च — स वै वेदिता स्यात् ; य एतदेवं वेत्ति स वै वेदिता पण्डितः स्यादित्यभिप्रायः । याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यभिप्रायः । यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषम् — सर्वस्य आत्मनः परायणं यमात्थ यं कथयसि — तमहं वेद । तत्र शाकल्यस्य वचनं द्रष्टव्यम् — यदि त्वं वेत्थ तं पुरुषम् , ब्रूहि किंविशेषणोऽसौ । शृणु, यद्विशेषणः सः — य एवायं शारीरः पार्थिवांशे शरीरे भवः शारीरः मातृजकोशत्रयरूप इत्यर्थः ; स एष देवः, यस्त्वया पृष्टः, हे शाकल्य ; किन्तु अस्ति तत्र वक्तव्यं विशेषणान्तरम् ; तत् वदैव पृच्छैवेत्यर्थः, हे शाकल्य । स एवं प्रक्षोभितोऽमर्षवशग आह, तोत्रार्दित इव गजः — तस्य देवस्य शारीरस्य का देवता — यस्मान्निष्पद्यते, यः ‘सा तस्य देवता’ इत्यस्मिन्प्रकरणे विवक्षितः ; अमृतमिति होवाच — अमृतमिति यो भुक्तस्यान्नस्य रसः मातृजस्य लोहितस्य निष्पत्तिहेतुः ; तस्माद्धि अन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम् ; ततश्च लोहितमयं शरीरं बीजाश्रयम् । समानमन्यत् ॥
काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच ॥ ११ ॥
काम एव यस्यायतनम् । स्त्रीव्यतिकराभिलाषः कामः कामशरीर इत्यर्थः । हृदयं लोकः, हृदयेन बुद्ध्या पश्यति । य एवायं काममयः पुरुषः अध्यात्ममपि काममय एव, तस्य का देवतेति — स्त्रिय इति होवाच ; स्त्रीतो हि कामस्य दीप्तिर्जायते ॥
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच ॥ १२ ॥
रूपाण्येव यस्यायतनम् । रूपाणि शुक्लकृष्णादीनि । य एवासावादित्ये पुरुषः — सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः, तस्य का देवतेति — सत्यमिति होवाच ; सत्यमिति चक्षुरुच्यते ; चक्षुषो हि अध्यात्मत आदित्यस्याधिदैवतस्य निष्पत्तिः ॥
आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरषं सर्वस्यात्मनः परायणं यमात्थ य एवायं श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति दिश इति होवाच ॥ १३ ॥
आकाश एव यस्यायतनम् । य एवायं श्रोत्रे भवः श्रौत्रः, तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य का देवतेति — दिश इति होवाच ; दिग्भ्यो ह्यसौ आध्यात्मिको निष्पद्यते ॥
तम एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच ॥ १४ ॥
तम एव यस्यायतनम् । तम इति शार्वराद्यन्धकारः परिगृह्यते ; अध्यात्मं छायामयः अज्ञानमयः पुरुषः ; तस्य का देवतेति — मृत्युरिति होवाच ; मृत्युरधिदैवतं तस्य निष्पत्तिकारणम् ॥
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्यस्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यसुरिति होवाच ॥ १५ ॥
रूपाण्येव यस्यायतनम् । पूर्वं साधारणानि रूपाण्युक्तानि इह तु प्रकाशकानि विशिष्टानि रूपाणि गृह्यन्ते ; रूपायतनस्य देवस्य विशेषायतनं प्रतिबिम्बाधारमादर्शादि ; तस्य का देवतेति — असुरिति होवाच ; तस्य प्रतिबिम्बाख्यस्य पुरुषस्य निष्पत्तिः असोः प्राणात् ॥
आप एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच ॥ १६ ॥
आप एव यस्य आयतनम् । साधारणाः सर्वा आप आयतनम् ; वापीकूपतडागाद्याश्रयासु अप्सु विशेषावस्थानम् ; तस्य का देवतेति, वरुण इति — वरुणात् सङ्घातकर्त्र्यः अध्यात्मम् आप एव वाप्याद्यपां निष्पत्तिकारणम् ॥
रेत एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति प्रजापतिरिति होवाच ॥ १७ ॥
रेत एव यस्यायतनम् ; य एवायं पुत्रमयः विशेषायतनं रेतआयतनस्य — पुत्रमय इति च अस्थिमज्जाशुक्राणि पितुर्जातानि ; तस्य का देवतेति, प्रजापतिरिति होवाच — प्रजापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः ॥
शाकल्येति होवाच याज्ञवल्क्यस्त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ १८ ॥
अष्टधा देवलोकपुरुषभेदेन त्रिधा त्रिधा आत्मानं प्रविभज्य अवस्थित एकैको देवः प्राणभेद एव उपासनार्थं व्यपदिष्टः ; अधुना दिग्विभागेन पञ्चधा प्रविभक्तस्य आत्मन्युपसंहारार्थम् आह ; तूष्णीम्भूतं शाकल्यं याज्ञवल्क्यो ग्रहेणेव आवेशयन्नाह — शाकल्येति होवाच याज्ञवल्क्यः ; त्वां स्विदिति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षयणम् — अङ्गाराः अवक्षीयन्ते यस्मिन् सन्दंशादौ तत् अङ्गारावक्षयणम् — तत् नूनं त्वाम् अक्रत कृतवन्तः ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया दह्यमानमित्यभिप्रायः ॥
याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥
याज्ञवल्क्येति होवाच शाकल्यः — यदिदं कुरुपञ्चालानां ब्राह्मणान् अत्यवादीः अत्युक्तवानसि — स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति — किं ब्रह्म विद्वान्सन् एवमधिक्षिपसि ब्राह्मणान् । याज्ञवल्क्य आह — ब्रह्मविज्ञानं तावदिदं मम ; किं तत् ? दिशो वेद दिग्विषयं विज्ञानं जाने ; तच्च न केवलं दिश एव, सदेवाः देवैः सह दिगधिष्ठातृभिः, किञ्च सप्रतिष्ठाः प्रतिष्ठाभिश्च सह । इतर आह — यत् यदि दिशो वेत्थ सदेवाः सप्रतिष्टा इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम् ॥
किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य ॥ २० ॥
किन्देवतः का देवता अस्य तव दिग्भूतस्य । असौ हि याज्ञवल्क्यः हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम् , तद्द्वारेण सर्वं जगत् आत्मत्वेनोपगम्य, अहमस्मि दिगात्मेति व्यवस्थितः, पूर्वाभिमुखः — सप्रतिष्ठावचनात् ; यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति — किन्देवतस्त्वमस्यां दिश्यसीति । सर्वत्र हि वेदे यां यां देवतामुपास्ते इहैव तद्भूतः तां तां प्रतिपद्यत इति ; तथा च वक्ष्यति — ‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४ । १ । २) इति । अस्यां प्राच्यां का देवता दिगात्मनस्तव अधिष्ठात्री, कया देवतया त्वं प्राचीदिग्रूपेण सम्पन्न इत्यर्थः । इतर आह — आदित्यदेवत इति ; प्राच्यां दिशि मम आदित्यो देवता, सोऽहमादित्यदेवतः । सदेवा इत्येतत् उक्तम् , सप्रतिष्ठा इति तु वक्तव्यमित्याह — स आदित्यः कस्मिन्प्रतिष्ठित इति, चक्षुषीति ; अध्यात्मतश्चक्षुष आदित्यो निष्पन्न इति हि मन्त्रब्राह्मणवादाः — ‘चक्षोः सूर्यो अजायत’ (ऋ. सं. १० । ९० । १३) ‘चक्षुष आदित्यः’ (ऐ. उ. १ । १ । ४) इत्यादयः ; कार्यं हि कारणे प्रतिष्ठितं भवति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति, रूपेष्विति ; रूपग्रहणाय हि रूपात्मकं चक्षुः रूपेण प्रयुक्तम् ; यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणाय आरब्धं चक्षुः ; तस्मात् सादित्यं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वैः रूपेषु प्रतिष्ठितम् । चक्षुषा सह प्राची दिक्सर्वा रूपभूता ; तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति ; हृदय इति होवाच ; हृदयारब्धानि रूपाणि ; रूपाकारेण हि हृदयं परिणतम् ; यस्मात् हृदयेन हि रूपाणि सर्वो लोको जानाति ; हृदयमिति बुद्धिमनसी एकीकृत्य निर्देशः ; तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि ; हृदयेन हि स्मरणं भवति रूपाणां वासनात्मनाम् ; तस्मात् हृदये रूपाणि प्रतिष्ठितानीत्यर्थः । एवमेवैतद्याज्ञवल्क्य ॥
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति स यमः कस्मिन्प्रतिष्ठित इति यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २१ ॥
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति पूर्ववत् — दक्षिणायां दिशि का देवता तव । यमदेवत इति — यमो देवता मम दक्षिणादिग्भूतस्य । स यमः कस्मिन्प्रतिष्ठित इति, यज्ञ इति — यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा । कथं पुनर्यज्ञस्य कार्यं यम इत्युच्यते — ऋत्विग्भिर्निष्पादितो यज्ञः ; दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजायति ; तेन यज्ञे यमः कार्यत्वात्प्रतिष्ठितः सह दक्षिणया दिशा । कस्मिन्नु यज्ञः प्रतिष्ठित इति, दक्षिणायामिति — दक्षिणया स निष्क्रीयते ; तेन दक्षिणाकार्यं यज्ञः । कस्मिन्नु दक्षिणा प्रतिष्ठितेति, श्रद्धायामिति — श्रद्धा नाम दित्सुत्वम् आस्तिक्यबुद्धिर्भक्तिसहिता । कथं तस्यां प्रतिष्ठिता दक्षिणा ? यस्मात् यदा ह्येव श्रद्धत्ते अथ दक्षिणां ददाति, न अश्रद्दधत् दक्षिणां ददाति ; तस्मात् श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति, हृदय इति होवाच — हृदयस्य हि वृत्तिः श्रद्धा यस्मात् , हृदयेन हि श्रद्धां जानाति ; वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति ; तस्माद्धृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एवमेवैतद्याज्ञवल्क्य ॥
किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितमिति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २२ ॥
किं देवतोऽस्यां प्रतीच्यां दिश्यसीति । तस्यां वरुणोऽधिदेवता मम । स वरुणः कस्मिन्प्रतिष्ठित इति, अप्स्विति — अपां हि वरुणः कार्यम् , ‘श्रद्धा वा आपः’ (तै. सं. १ । ६ । ८ । १) ‘श्रद्धातो वरुणमसृजत’ ( ? ) इति श्रुतेः । कस्मिन्न्वापः प्रतिष्ठिता इति, रेतसीति — ‘रेतसो ह्यापः सृष्टाः’ ( ? ) इति श्रुतेः । कस्मिन्नु रेतः प्रतिष्ठितमिति, हृदय इति — यस्मात् हृदयस्य कार्यं रेतः ; कामो हृदयस्य वृत्तिः ; कामिनो हि हृदयात् रेतोऽधिस्कन्दति ; तस्मादपि प्रतिरूपम् अनुरूपं पुत्रं जातमाहुर्लौकिकाः — अस्य पितुर्हृदयादिव अयं पुत्रः सृप्तः विनिःसृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः । तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥
किन्देवतोऽस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन्प्रतिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २३ ॥
किन्देवतोऽस्यामुदीच्यां दिश्यसीति, सोमदेवत इति — सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः । स सोमः कस्मिन्प्रतिष्ठित इति, दीक्षायामिति — दीक्षितो हि यजमानः सोमं क्रीणाति ; क्रीतेन सोमेन इष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम् । कस्मिन्नु दीक्षा प्रतिष्ठितेति, सत्य इति — कथम् ? यस्मात्सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुः — सत्यं वदेति — कारणभ्रेषे कार्यभ्रेषो मा भूदिति । सत्ये ह्येव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति ; हृदय इति होवाच ; हृदयेन हि सत्यं जानाति ; तस्मात् हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥
किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥
किन्देवतोऽस्यां ध्रुवायां दिश्यसीति । मेरोः समन्ततो वसतामव्यभिचारात् ऊर्ध्वा दिक् ध्रुवेत्युच्यते । अग्निदेवत इति — ऊर्ध्वायां हि प्रकाशभूयस्त्वम् , प्रकाशश्च अग्निः सोऽग्निः कस्मिन्प्रतिष्ठित इति, वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति, हृदय इति । तत्र याज्ञवल्क्यः सर्वासु दिक्षु विप्रसृतेन हृदयेन सर्वा दिश आत्मत्वेनाभिसम्पन्नः ; सदेवाः सप्रतिष्ठा दिश आत्मभूतास्तस्य नामरूपकर्मात्मभूतस्य याज्ञवल्क्यस्य ; यत् रूपं तत् प्राच्यादिशा सह हृदयभूतं याज्ञवल्क्यस्य ; यत्केवलं कर्म पुत्रोत्पादनलक्षणं च ज्ञानसहितं च सह फलेन अधिष्ठात्रीभिश्च देवताभिः दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिकाः हृदयमेव आपन्नास्तस्य ; ध्रुवया दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम् ; एतावद्धीदं सर्वम् ; यदुत रूपं वा कर्म वा नाम वेति तत्सर्वं हृदयमेव ; तत् सर्वात्मकं हृदयं पृच्छ्यते — कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ २५ ॥
अहल्लिकेति होवाच याज्ञवल्क्यः — नामान्तरेण सम्बोधनं कृतवान् । यत्र यस्मिन्काले, एतत् हृदयं आत्मा अस्य शरीरस्य अन्यत्र क्वचिद्देशान्तरे, अस्मत् अस्मत्तः, वर्तत इति मन्यासै मन्यसे — यद्धि यदि हि एतद्धृदयम् अन्यत्रास्मत् स्यात् भवेत् , श्वानो वा एनत् शरीरम् तदा अद्युः, वयांसि वा पक्षिणो वा एनत् विमथ्नीरन् विलोडयेयुः विकर्षेरन्निति । तस्मात् मयि शरीरे हृदयं प्रतिष्ठितमित्यर्थः । शरीरस्यापि नामरूपकर्मात्मकत्वाद्धृदये प्रतिष्ठितत्वम् ॥
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । एतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि तं चेन्मे न विवक्ष्यति मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६ ॥
हृदयशरीरयोरेवमन्योन्यप्रतिष्ठा उक्ता कार्यकरणयोः ; अतस्त्वां पृच्छामि — कस्मिन्नु त्वं च शरीरम् आत्मा च तव हृदयं प्रतिष्ठितौ स्थ इति ; प्राण इति ; देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ । कस्मिन्नु प्राणः प्रतिष्ठित इति, अपान इति — सापि प्राणवृत्तिः प्रागेव प्रेयात् , अपानवृत्त्या चेन्न निगृह्येत । कस्मिन्न्वपानः प्रतिष्ठित इति, व्यान इति — साप्यपानवृत्तिः अध एव यायात् प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेत् व्यानवृत्त्या न निगृह्येत । कस्मिन्नु व्यानः प्रतिष्ठित इति, उदान इति — सर्वास्तिस्रोऽपि वृत्तय उदाने कीलस्थानीये चेन्न निबद्धाः, विष्वगेवेयुः । कस्मिन्नूदानः प्रतिष्ठित इति, समान इति — समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः । एतदुक्तं भवति — शरीरहृदयवायवोऽन्योन्यप्रतिष्ठाः । सङ्घातेन नियता वर्तन्ते विज्ञानमयार्थप्रयुक्ता इति । सर्वमेतत् येन नियतम् यस्मिन्प्रतिष्ठितम् आकाशान्तम् ओतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षादपरोक्षाद्ब्रह्मणो निर्देशः कर्तव्य इत्ययमारम्भः । स एषः — स यो ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिष्टो मधुकाण्डे एष सः, सोऽयमात्मा अगृह्यः न गृह्यः ; कथम् ? यस्मात्सर्वकार्यधर्मातीतः, तस्मादगृह्यः ; कुतः ? यस्मान्न हि गृह्यते ; यद्धि करणगोचरं व्याकृतं वस्तु, तद्ग्रहणगोचरम् ; इदं तु तद्विपरीतमात्मतत्त्वम् । तथा अशीर्यः — यद्धि मूर्तं संहतं शरीरादि तच्छीर्यते ; अयं तु तद्विपरीतः ; अतो न हि शीर्यते । तथा असङ्गः — मूर्तो मूर्तान्तरेण सम्बध्यमानः सज्यते ; अयं च तद्विपरीतः ; अतो न हि सज्यते । तथा असितः अबद्धः — यद्धि मूर्तं तत् बध्यते ; अयं तु तद्विपरीतत्वात् असितः ; अबद्धत्वान्न व्यथते ; अतो न रिष्यति — ग्रहणविशरणसङ्गबन्धकार्यधर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः । क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातोऽपसृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः ; ततः पुनः आख्यायिकामेवाश्रित्याह — एतानि यान्युक्तानि अष्टावायतनानि ‘पृथिव्येव यस्यायतनम्’ इत्येवमादीनि, अष्टौ लोकाः अग्निलोकादयः, अष्टौ देवाः ‘अमृतमिति होवाच’ (बृ. उ. ३ । ९ । १०) इत्येवमादयः, अष्टौ पुरुषाः ‘शरीरः पुरुषः’ इत्यादयः — स यः कश्चित् तान्पुरुषान् शारीरप्रभृतीन् निरुह्य निश्चयेनोह्य गमयित्वा अष्टचतुष्कभेदेन लोकस्थितिमुपपाद्य, पुनः प्राचीदिगादिद्वारेण प्रत्युह्य उपसंहृत्य स्वात्मनि हृदये अत्यक्रामत् अतिक्रान्तवानुपाधिधर्मं हृदयाद्यात्मत्वम् ; स्वेनैवात्मना व्यवस्थितो य औपनिषदः पुरुषः अशनायादिवर्जित उपनिषत्स्वेव विज्ञेयः नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामि । तं चेत् यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यतीत्याह याज्ञवल्क्यः । तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान्किल । तस्य ह मूर्धा विपपात विपतितः । समाप्ता आख्यायिका । श्रुतेर्वचनम् , ‘तं ह न मेने’ इत्यादि । किं च अपि ह अस्य परिमोषिणः तस्कराः अस्थीन्यपि संस्कारार्थं शिष्यैर्नीयमानानि गृहान्प्रत्यपजह्रुः अपहृतवन्तः — किं निमित्तम् — अन्यत् धनं नीयमानं मन्यमानाः । पूर्ववृत्ता ह्याख्यायिकेह सूचिता । अष्टाध्याय्यां किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव संवादो निर्वृत्तः ; तत्र याज्ञवल्क्येन शापो दत्तः — ‘पुरेऽतिथ्ये मरिष्यसि न तेऽस्थीनिचन गृहान्प्राप्स्यन्ति’ (शत. ब्रा. ११ । ६ । ३ । ११) इति ‘स ह तथैव ममार ; तस्य हाप्यन्यन्मन्यमानाः परिमोषिणोऽस्थीन्यपजह्रुः ; तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवतीति’ (शत. ब्रा. ११ । ६ । ३ । ११) । सैषा आख्यायिका आचारार्थं सूचिता विद्यास्तुतये च इह ॥
यस्य नेति नेतीत्यन्यप्रतिषेधद्वारेण ब्रह्मणो निर्देशः कृतः तस्य विधिमुखेन कथं निर्देशः कर्तव्य इति पुनराख्यायिकामेवाश्रित्याह मूलं च जगतो वक्तव्यमिति । आख्यायिकासम्बन्धस्त्वब्रह्मविदो ब्राह्मणाञ्जित्वा गोधनं हर्तव्यमिति । न्यायं मत्वाह —
अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥
अथ होवाच । अथ अनन्तरं तूष्णीम्भूतेषु ब्राह्मणेषु ह उवाच, हे ब्राह्मणा भगवन्त इत्येवं सम्बोध्य — यो वः युष्माकं मध्ये कामयते इच्छति — याज्ञवल्क्यं पृच्छामीति, स मा माम् आगत्य पृच्छतु ; सर्वे वा मा पृच्छत — सर्वे वा यूयं मा मां पृच्छत ; यो वः कामयते — याज्ञवल्क्यो मां पृच्छत्विति, तं वः पृच्छामि ; सर्वान्वा वः युष्मान् अहं पृच्छामि । ते ह ब्राह्मणा न दधृषुः — ते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किञ्चिदपि प्रत्युत्तरं वक्तुम् ॥
तान्हैतैः श्लोकैः पप्रच्छ —
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १ ॥
तेष्वप्रगल्भभूतेषु ब्राह्मणेषु तान् ह एतैः वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान् । यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषोऽमृषा — अमृषा सत्यमेतत् ; तस्य लोमानि — तस्य पुरुषस्य लोमानि इतरस्य वनस्पतेः पर्णानि ; त्वगस्योत्पाटिका बहिः — त्वक् अस्य पुरुषस्य इतरस्योत्पाटिका वनस्पतेः ॥
त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् ॥ २ ॥
त्वच एव सकाशात् अस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेस्त्वचः उत्पटः — त्वच एव उत्स्फुटति यस्मात् ; एवं सर्वं समानमेव वनस्पतेः पुरुषस्य च ; तस्मात् आतृण्णात् हिंसितात् प्रैति तत् रुधिरं निर्गच्छति, वृक्षादिव आहतात् छिन्नात् रसः ॥
मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३ ॥
एवं मांसान्यस्य पुरुषस्य, वनस्पतेः तानि शकराणि शकलानीत्यर्थः । किनाटम् , वृक्षस्य किनाटं नाम शकलेभ्योऽभ्यन्तरं वल्कलरूपं काष्ठसँलग्नम् , तत् स्नाव पुरुषस्य ; तत्स्थिरम् — तच्च किनाटं स्नाववत् दृढं हि तत् ; अस्थीनि पुरुषस्य, स्नाव्नोऽन्तरतः अस्थीनि भवन्ति ; तथा किनाटस्याभ्यन्तरतो दारूणि काष्ठानि ; मज्जा, मज्जैव वनस्पतेः पुरुषस्य च मज्जोपमा कृता, मज्जाया उपमा मज्जोपमा, नान्यो विशेषोऽस्तीत्यर्थः ; यथा वनस्पतेर्मज्जा तथा पुरुषस्य, यथा पुरुषस्य तथा वनस्पतेः ॥
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४ ॥
यत् यदि वृक्षो वृक्णः छिन्नः रोहति पुनः पुनः प्ररोहति प्रादुर्भवति मूलात् पुनर्नवतरः पूर्वस्मादभिनवतरः ; यदेतस्माद्विशेषणात्प्राक् वनस्पतेः पुरुषस्य च, सर्वं सामान्यमवगतम् ; अयं तु वनस्पतौ विशेषो दृश्यते — यत् छिन्नस्य प्ररोहणम् ; न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते ; भवितव्यं च कुतश्चित्प्ररोहणेन ; तस्मात् वः पृच्छामि — मर्त्यः मनुष्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति, मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः ॥
रेतस इति मा वोचत जीवतस्तत्प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ५ ॥
यदि चेदेवं वदथ — रेतसः प्ररोहतीति, मा वोचत मैवं वक्तुमर्हथ ; कस्मात् ? यस्मात् जीवतः पुरुषात् तत् रेतः प्रजायते, न मृतात् । अपि च धानारुहः धाना बीजम् , बीजरुहोऽपि वृक्षो भवति, न केवलं काण्डरुह एव ; इव - शब्दोऽनर्थकः ; वै वृक्षः अञ्जसा साक्षात् प्रेत्य मृत्वा सम्भवः धानातोऽपि प्रेत्य सम्भवो भवेत् अञ्जसा पुनर्वनस्पतेः ॥
यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६ ॥
यत् यदि सह मूलेन धानया वा आवृहेयुः उद्यच्छेयुः उत्पाटयेयुः वृक्षम् , न पुनराभवेत् पुनरागत्य न भवेत् । तस्माद्वः पृच्छामि — सर्वस्यैव जगतो मूलं मर्त्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति ॥
जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७ ॥
जात एवेति, मन्यध्वं यदि, किमत्र प्रष्टव्यमिति — जनिष्यमाणस्य हि सम्भवः प्रष्टव्यः, न जातस्य ; अयं तु जात एव अतोऽस्मिन्विषये प्रश्न एव नोपपद्यत इति चेत् — न ; किं तर्हि ? मृतः पुनरपि जायत एव अन्यथा अकृताभ्यागमकृतनाशप्रसङ्गात् ; अतो वः पृच्छामि — को न्वेनं मृतं पुनर्जनयेत् । तत् न विजज्ञुर्ब्राह्मणाः — यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणैः ; अतो ब्रह्मिष्ठत्वात् हृता गावः ; याज्ञवल्क्येन जिता ब्राह्मणाः । समाप्ता आख्यायिका । यज्जगतो मूलम् , येन च शब्देन साक्षाद्व्यपदिश्यते ब्रह्म, यत् याज्ञवल्क्यो ब्राह्मणान्पृष्टवान् , तत् स्वेन रूपेण श्रुतिरस्मभ्यमाह — विज्ञानं विज्ञप्तिः विज्ञानम् , तच्च आनन्दम् , न विषयविज्ञानवद्दुःखानुविद्धम् , किं तर्हि प्रसन्नं शिवमतुलमनायासं नित्यतृप्तमेकरसमित्यर्थः । किं तत् ब्रह्म उभयविशेषणवद्रातिः रातेः षष्ठ्यर्थे प्रथमा, धनस्येत्यर्थः ; धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ । किञ्च व्युत्थायैषणाभ्यः तस्मिन्नेव ब्रह्मणि तिष्ठति अकर्मकृत् , तत् ब्रह्म वेत्तीति तद्विच्च, तस्य — तिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति ॥
अत्रेदं विचार्यते — आनन्दशब्दो लोके सुखवाची प्रसिद्धः ; अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते आनन्दं ब्रह्मेति ; श्रुत्यन्तरे च — ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । ९) ‘आनन्दं ब्रह्मणो विद्वान्’ (तै. उ. २ । ९ । १) ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) ‘यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति च ; ‘एष परम आनन्दः’ इत्येवमाद्याः ; संवेद्ये च सुखे आनन्दशब्दः प्रसिद्धः ; ब्रह्मानन्दश्च यदि संवेद्यः स्यात् , युक्ता एते ब्रह्मणि आनन्दशब्दाः । ननु च श्रुतिप्रामाण्यात् संवेद्यानन्दस्वरूपमेव ब्रह्म, किं तत्र विचार्यमिति — न, विरुद्धश्रुतिवाक्यदर्शनात् — सत्यम् , आनन्दशब्दो ब्रह्मणि श्रूयते ; विज्ञानप्रतिषेधश्च एकत्वे — ‘यत्र त्वस्य सर्वमात्मैवाभूत् , तत्केन कं पश्येत् , तत्केन किं विजानीयात्’ (बृ. उ. ४ । ५ । १५) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ (छा. उ. ७ । २४ । १) ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद’ (बृ. उ. ४ । ३ । २१) इत्यादि ; विरुद्धश्रुतिवाक्यदर्शनात् तेन कर्तव्यो विचारः । तस्मात् युक्तं वेदवाक्यार्थनिर्णयाय विचारयितुम् । मोक्षवादिविप्रतिपत्तेश्च — साङ्ख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः ; अन्ये निरतिशयं सुखं स्वसंवेद्यमिति ॥
किं तावद्युक्तम् ? आनन्दादिश्रवणात् ‘जक्षत्क्रीडन्रममाणः’ (छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामो भवति’ (छा. उ. ८ । २ । १) ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) ‘सर्वान्कामान्समश्नुते’ (तै. उ. २ । ५ । १) इत्यादिश्रुतिभ्यः मोक्षे सुखं संवेद्यमिति । ननु एकत्वे कारकविभागाभावात् विज्ञानानुपपत्तिः, क्रियायाश्चानेककारकसाध्यत्वात् विज्ञानस्य च क्रियात्वात् — नैष दोषः ; शब्दप्रामाण्यात् भवेत् विज्ञानमानन्दविषये ; ‘विज्ञानमानन्दम्’ इत्यादीनि आनन्दस्वरूपस्यासंवेद्यत्वेऽनुपपन्नानि वचनानीत्यवोचाम । ननु वचनेनापि अग्नेः शैत्यम् उदकस्य च औष्ण्यं न क्रियत एव, ज्ञापकत्वाद्वचनानाम् ; न च देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम् ; अगम्ये वा देशान्तरे उष्णमुदकमिति — न, प्रत्यगात्मन्यानन्दविज्ञानदर्शनात् ; न ‘विज्ञानमानन्दम्’ इत्येवमादीनां वचनानां शीतोऽग्निरित्यादिवाक्यवत् प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वम् । अनुभूयते तु अविरुद्धार्थता ; सुखी अहम् इति सुखात्मकमात्मानं स्वयमेव वेदयते ; तस्मात् सुतरां प्रत्यक्षाविरुद्धार्थता ; तस्मात् आनन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते । तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः स्युः ‘जक्षत्क्रीडन्रममाणः’ इत्येवमाद्याः पूर्वोक्ताः ॥
न, कार्यकरणाभावे अनुपपत्तेर्विज्ञानस्य — शरीरवियोगो हि मोक्ष आत्यन्तिकः ; शरीराभावे च करणानुपपत्तिः, आश्रयाभावात् ; ततश्च विज्ञानानुपपत्तिः अकार्यकरणत्वात् ; देहाद्यभावे च विज्ञानोत्पत्तौ सर्वेषां कार्यकरणोपादानानर्थक्यप्रसङ्गः । एकत्वविरोधाच्च — परं चेद्ब्रह्म आनन्दात्मकम् आत्मानं नित्यविज्ञानत्वात् नित्यमेव विजानीयात् , तन्न ; संसार्यपि संसारविनिर्मुक्तः स्वाभाव्यं प्रतिपद्येत ; जलाशय इवोदकाञ्जलिः क्षिप्तः न पृथक्त्वेन व्यवतिष्ठते आनन्दात्मकब्रह्मविज्ञानाय ; तदा मुक्त आनन्दात्मकमात्मानं वेदयत इत्येतदनर्थकं वाक्यम् । अथ ब्रह्मानन्दम् अन्यः सन् मुक्तो वेदयते, प्रत्यगात्मानं च, अहमस्म्यानन्दस्वरूप इति ; तदा एकत्वविरोधः ; तथा च सति सर्वश्रुतिविरोधः । तृतीया च कल्पना नोपपद्यते । किञ्चान्यत् , ब्रह्मणश्च निरन्तरात्मानन्दविज्ञाने विज्ञानाविज्ञानकल्पनानर्थक्यम् ; निरन्तरं चेत् आत्मानन्दविषयं ब्रह्मणो विज्ञानम् , तदेव तस्य स्वभाव इति आत्मानन्दं विजानातीति कल्पना अनुपपन्ना ; अतद्विज्ञानप्रसङ्गे हि कल्पनाया अर्थवत्त्वम् , यथा आत्मानं परं च वेत्तीति ; न हि इष्वाद्यासक्तमनसो नैरन्तर्येण इषुज्ञानाज्ञानकल्पनाया अर्थवत्त्वम् । अथ विच्छिन्नमात्मानन्दं विजानाति — विज्ञानस्य आत्मविज्ञानच्छिद्रे अन्यविषयत्वप्रसङ्गः ; आत्मनश्च विक्रियावत्त्वम् , ततश्चानित्यत्वप्रसङ्गः । तस्मात् ‘विज्ञानमानन्दम्’ इति स्वरूपान्वाख्यानपरैव श्रुतिः, नात्मानन्दसंवेद्यत्वार्था । ‘जक्षत्क्रीडन्’ (छा. उ. ८ । १२ । ३) इत्यादिश्रुतिविरोधोऽसंवेद्यत्व इति चेन्न, सर्वात्मैकत्वे यथाप्राप्तानुवादित्वात् — मुक्तस्य सर्वात्मभावे सति यत्र क्वचित् योगिषु देवेषु वा जक्षणादि प्राप्तम् ; तत् यथाप्राप्तमेवानूद्यते — तत् तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये । यथाप्राप्तानुवादित्वे दुःखित्वमपीति चेत् — योग्यादिषु यथाप्राप्तजक्षणादिवत् स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत् — न, नामरूपकृतकार्यकरणोपाधिसम्पर्कजनितभ्रान्त्यध्यारोपितत्वात् सुखित्वदुःखित्वादिविशेषस्येति परिहृतमेतत्सर्वम् । विरुद्धश्रुतीनां च विषयमवोचाम । तस्मात् ‘एषोऽस्य परम आनन्दः’ (बृ. उ. ४ । ३ । ३२) इतिवत् सर्वाण्यानन्दवाक्यानि द्रष्टव्यानि ॥
इति तृतीयाध्यायस्य नवमं ब्राह्मणम् ॥
सूत्रादिकार्यमार्गेण यन्तृत्वं कारणात्मनः ।।
यदभ्यधायि प्राक्श्रुत्या तदेवानूद्य पूर्ववत् ।। १ ।।
साक्षादित्यादि याथात्म्यं भूयोऽप्यात्मन उच्यते ।।
नियम्यदेवताभेदव्याससंक्षेपवर्त्मना ।। २ ।।
चिदाभासं स्वमज्ञानं संनिपत्य तदक्षरण् ।।
कारणं सत्स्वकार्येषु नियन्तृत्वं प्रपद्यते ।। ३ ।।
सुषुप्तप्रलयावस्थप्राणात्माऽक्षरमुच्यते ।।
स ब्रह्म त्यदिति तथा श्रुतिरप्याह तत्स्फुटम् ।। ४ ।।
इत्यन्तर्याम्यवस्थायां स्थित्वैकां प्राणदेवताम् ।।
सूत्राद्यवच्छेदवशात्सर्वमेतन्नियच्छति ।। ५ ।।
नानात्वैकत्वरूपाभ्यां सा पुनः प्राणदेवता ।।
स्थिता जगदितं व्याप्य प्राणिकर्मवशादियम् ।। ६ ।।
तस्या विक्षेपसंहारौ शाकल्यः पर्यपृच्छत ।।
नियन्तव्यनियन्तृत्वसंबन्धस्य प्रसिद्धये ।। ७ ।।
देवसंख्यां स संपृष्टो निविदैव प्रपेदिवान् ।।
देवा निविदि यावन्तो वैश्वदेवस्य संश्रिताः ।। ८ ।।
तावन्त एव सोऽसुः स्याज्जगत्यस्मिंश्चराचरे ।।
आन्त्यं बहुशब्देन देवानां प्राब्रवीन्मुनिः ।। ९ ।।
त्रयस्रिशत्प्रभृत्येषां षडादिषु यथाक्रमम् ।।
संहृतिः प्रातिलोम्येन व्यूहस्त्वागणनाक्षयात् ।। १० ।।
कतम इति पृष्टोऽथ वस्वादीन्प्रत्यपद्यत ।।
वसूनप्यथ संपृष्टः सोऽग्न्यादीन्प्राब्रवीद्वसून् ।। ११ ।।
संहृतात्मप्रभेदा हि सैवैका प्राणदेवता ।।
वसुत्वमष्टधा भिन्ना विभार्ति जनिमत्स्थितौ ।। १२ ।।
वसु कर्मफलं चाऽऽहुः कर्मणः साधनं वसु ।।
यस्मात्तदेषु निहितं तस्मात्ते वसवः स्मृताः ।। १३ ।।
पुरुषे ये दश प्राणा इन्द्रियाणि सहाऽऽत्मना ।।
मनसैकादशात्रैतान्नुद्रानित्याचचक्षिरे ।। १४ ।।
रोदयन्तो द्रवन्त्येते रुदन्ति च यतस्ततः ।।
रुद्रा इत्यभिधीयन्ते प्राणा एकादशोदिताः ।। १५ ।।
आददाना यतो यन्ति मर्त्यानां स्थितिकारणम् ।।
मासाभिमानिनो देवा आदित्यास्तेन ते स्मृताः ।। १६ ।।
आयुर्वीर्यं स्मृतिं प्रज्ञां सौकुमार्यं वपुःश्रियम् ।।
आददाना यतो यन्ति तेनाऽऽदित्या अमी स्मृताः ।। १७ ।।
इन्द्रश्च देवता ज्ञेया मेघनादाभिमानिनी ।।
स्तनयित्नुरिह ज्ञेयस्तथा यज्ञः प्रजापतिः ।। १८ ।।
वीर्यं वज्रोऽशनिरिति स्तनयित्नुरिहोच्यते ।।
पशुसाधनको यस्माद्यज्ञस्तस्मात्पशुः स्मृतः ।। १९ ।।
अग्न्यादिषु यतः षट्सु यथोक्ताः सर्वदेवताः ।।
षट्संख्यामेव संयान्ति षडग्न्याद्यास्ततः स्मृताः ।। २० ।।
आधाराधेययोरैक्यात्पृथिव्यग्न्यादिषु त्रिषु ।।
त्रयो देवास्ततोऽग्न्याद्याः कृत्स्नान्तर्भावकारणात् ।। २१ ।।
अन्नं प्राणश्च देवौ द्वौ द्वयोरेष विनिर्णयः ।।
एतावन्मात्रयाथात्म्यं सर्वस्य जगतस्ततः ।। २२ ।।
योऽयं पवत इ्त्युक्तिरध्यर्धस्य विनिर्णये ।।
एकत्वात्पवमानस्य तदाहुरिति चोदना ।। २३ ।।
एकसंक्यैव नान्याऽस्ति द्विसंख्याया यतस्तातः ।।
पृष्टोऽध्यर्ध इति प्राह सोपहासमृषिः सुधीः ।। २४ ।।
वायुर्वा देवता कृत्स्ना तदन्यस्य तदात्मनः ।।
अर्धत्वं स्यात्कनीयस्त्वाद्व्याप्यस्याग्न्यादिरूपिणः ।। २५ ।।
ऋद्धिं प्रापद्यतः सर्वं वायौ सति चराचरम् ।।
तस्मादध्यर्ध इत्येवं वायुमाचक्षते बुधाः ।। २६ ।।
संख्याप्राधान्यमध्यर्धे विदग्धेन विवक्षितम् ।।
सर्वमृध्नोति यत्प्राणो तेनेति श्रुतिहृद्गतम् ।। २७ ।।
अन्नाशितृत्वसिद्ध्यर्थं यथा व्युत्पत्तिरुच्यते ।।
अन्नेनाश्नुत इत्येवमध्यर्धस्यापि योजनाा ।। २८ ।।
जनिमत्सर्वभूतानां प्राणोऽन्तर्भावहेतुतः ।।
प्राणो देवोऽत एवैकस्तस्यैव महिमा परः ।। २९ ।।
भरणात्सर्वकार्याणां प्राणो ब्रह्मेति भण्यते ।।
त्यदित्याचक्षते तस्मात्प्राणं ब्रह्म परोक्षतः ।। ३० ।।
साक्षान्निर्देशनुत्त्यर्थं कारणत्वावबुद्धये ।।
प्राणं ब्रह्म त्यदित्याद्दुः पारोक्ष्येण महाधियः ।। ३१ ।।
करणेष्वेषु सर्वेषु तथा कार्यात्मकेषु च ।।
अध्यात्मादिषु कार्त्स्न्येन तेषु तेष्ववतिष्ठते ।। ३२ ।।
अष्टधाऽतः पुनस्तस्य भेदोऽयमुपवर्ण्यते ।।
अधिकारविशेषेण पृथिवीत्यादिनाऽधुऩा ।। ३३ ।।
अनन्तभेदभिन्नस्य पुनरप्यष्टधोच्यते ।।
देवतासमुदायस्य भेदः संक्षेपलक्षणः ।। ३४ ।।
पृथिव्यायतनं यस्य तत्स्थोऽग्निर्लोक एव च ।।
तस्याऽऽलोकनहेतुः स्यादग्निर्देवस्य सर्वदा ।। ३५ ।।
मनश्च ज्योतिर्विज्ञानं संकल्पादिस्वलक्षणम् ।।
स्वरूपं वा मनोज्योतिर्यस्य देवस्य भण्यते ।। ३६ ।।
क्षितिदेहोऽग्निनयनो मनःसंकल्पसाधनः ।।
यः पृथिव्यभिमान्यत्र सर्वस्यैव परायणम् ।। ३७ ।।
आध्यात्मिकस्य सर्वस्य कार्यस्य करणस्य च ।।
परायणमवष्टम्भ आत्मनः स्यात्तथाविधम् ।। ३८ ।।
याज्ञवल्क्येह यो विद्याद्वेदितिा स्यात्स एव तु ।।
पण्डितो न त्वनेवंविद्यथा त्वं पण्डितायसे ।। ३९ ।।
इयता यदि पाण्डित्यं लभ्यते वेद तर्हि तम् ।।
शारीरः पार्थिवेंऽशेऽत्र देवोऽध्यात्माभिमानवान् ।। ४० ।।
पृथिव्येवाहमित्येवं योऽभिमानी व्यवस्थितः ।।
लोमत्वङ्भांससंघातः कार्यं तस्यायमेव तु ।। ४१ ।।
स एष देवो यः पृष्टो वद भूयोऽप्यहल्लिक ।।
यतोऽसमाप्तमेवेदं दर्शनं ते विवक्षितम् ।। ४२ ।।
तस्य का देवतेत्येनमप्राक्षीत्क्षोभितो रूषा ।।
तं प्रत्याहामृतमिति याज्ञवल्क्योऽपि देवताम् ।। ४३ ।।
यतो यो लभते सिद्धिं तस्यासावेव देवता ।।
विवक्षितेह विज्ञेयाऽमृतमित्यादिलक्षणा ।। ४४ ।।
योषिज्जाग्धस्य योन्नस्य रसः स्यात्परिणामजः ।।
मातृजस्यासृजो हेतुरमृतं सोऽत्र भण्यते ।। ४५ ।।
रसाच्छोणितनिष्पत्तिः शोणिताद्बीजसंश्रयात् ।।
शरीरं जायते साक्षाद्येन शारीर उच्यते ।। ४६ ।।
अन्येऽमृतमिदं प्राहुर्दिव्यं चान्द्रमसं पयः ।।
तत्पर्जन्यादिना जातं दार्ढ्यकृत्क्षितिदेहयोः ।। ४७ ।।
उत्तरेष्वपि वाक्येषु यथोक्तमुपपादयेत् ।।
न्यायः साधारणं सर्वं विशेषस्तु प्रवक्ष्यते ।। ४८ ।।
योषित्समागमेच्छेह काम इत्यभिधीयते ।।
हृदयं बुद्धिरालोकः सर्वं तेन हि पश्यति ।। ४९ ।।
स च काममयो देवः कामभावनयाऽञ्जितः ।।
देवताऽस्य स्रियो ज्ञेयाः कामः स्रीतो हि जायते ।। ५० ।।
शुक्लादीन्यत्र रूपाणि भास्वराण्युत्तरत्र तु ।।
सावित्रः पुरुषस्तस्य चक्षुः सत्यं च देवता ।। ५१ ।।
रूपभास्करसत्येषु त्रिधैषोऽपि व्यवस्थितः ।।
पूर्ववच्चोत्तरत्रापि सर्वत्रैव त्रिधा त्रिधा ।। ५२ ।।
प्रतिश्रवणवेलायां श्रोत्रे यः संनिधीयते ।।
स त्वयेहाभिनिर्दिष्टो दिशस्तस्यापि देवता ।। ५३ ।।
अन्धकारस्तमो ज्ञेयं तथा छायामयः पुमान् ।।
मृत्युश्च देवता तस्य तमसैव मृतिर्यतः ।। ५४ ।।
रूपायतनदेवस्य प्रतिबिम्बोदयाश्रयः ।।
विशेषकार्यं प्राणोऽसुस्तस्यापीहाधिदेवता ।। ५५ ।।
सामान्याम्मयदेहस्य विशिष्टाः कार्यमस्य ताः ।।
वरुणो देवता तस्य वरुणाद्वि स जायते ।। ५६ ।।
शुक्रस्नाय्वस्थिमज्जानो भवन्ति पितृतो यतः ।।
प्रजापतित्वं पितरि तस्मादेतदिहोच्यते ।। ५७ ।।
यावत्किंचिद्विजानाति शाकल्यः सर्वमेव तत् ।।
पर्यपृच्छद्यथाशक्ति मुक्त्वा दिग्ज्ञानमात्रकम् ।। ५८ ।।
अवशिष्टं यदप्यस्य तन्मां पृच्छतु कामतः ।।
इति चेतसि संधाय याज्ञवल्क्योऽभ्यभाषत ।। ५९ ।।
अतिनिर्बन्धतो वाऽपि निषेध्योऽयं प्रमादवान् ।।
इत्येतद्धृदये कृत्वा कारुण्यात्तमथाब्रवीत् ।। ६० ।।
मय्यग्नौ शिशुवन्मोहात्प्रविशन्तं न कश्चन ।।
त्वां वारयति यत्नेन साधुब्राह्मणसंसदि ।। ६१ ।।
सर्वेषामपि नूनं त्वं हन्तव्यत्वेन संमतः ।।
अक्रत त्वां यतो विप्राः संदंशं मयि पावके ।। ६२ ।।
तस्माद्बुध्यस्व शाक्ल्य महद्भयमुपस्थितम् ।।
अतिनिर्मथनादग्निश्चन्दनादपि जायते ।। ६३ ।।
विषायतेऽमृतमपि यथा पथ्यं मुमूर्षतः ।।
तथैव नाग्रहीत्सूक्तं शाकल्यः कालचोदितः ।। ६४ ।।
ब्राह्मणैर्घातयिष्यामि मां जिघांसन्तमाश्विमम् ।।
इत्युर्थं कोपकृद्वाक्यं शाकल्यो मुनिरब्रवीत् ।। ६५ ।।
अङ्गारावक्षयणोक्त्या विद्वान्किं ब्रह्म श्रेयसः ।।
अत्यवादीस्त्वमज्ञः सन्का विद्या फलिनी तव ।। ६६ ।।
दिग्विभागाधिकारेण यथोक्ता एव देवताः ।।
पञ्चधेहोपदिश्यन्ते तदेतदनुवर्ण्यते ।। ३७ ।।
का विद्या सफला साक्षात्तवेतिप्रश्नवादिनम् ।।
सदेवाः सप्रतिष्ठाश्च दिशो वेदेत्यथाब्रवीत् ।। ६८ ।।
सदेवसप्रतिष्ठादिशरीरं प्रतिजज्ञिवान् ।।
आत्मानं स मुनिः पृष्टो यतस्तं पर्यपृच्छत ।। ६९ ।।
सदेवाः सप्रतिष्ठैता दिशोऽहमितिवादिनम् ।।
प्राच्यां किंदेवतोऽसीति विदग्धस्तमपृच्छत ।। ७० ।।
पूर्वदिगात्मभूतं मां त्वं विद्ध्यादित्यादेवतम् ।।
इत्युक्ते तमृषिं भूयः स प्रतिष्ठामपृच्छत ।। ७१ ।।
सर्वरूपात्मकः सूर्यश्चक्षुष्येव प्रतिष्ठितः ।।
सर्वरूपेषु चक्षुश्च रूपाणि हृदये तथा ।। ७२ ।।
रूपारब्धमिदं चक्षू रूपाणामेव तद्गहात् ।।
अभिव्यङ्ग्यसजातीयो व्यञ्जको रूपदीपवत् ।। ७३ ।।
अशेषविषयात्मत्वं मनोबुद्ध्योर्विनिर्दिशेत् ।।
सर्वगोचरभासित्वात्तादात्म्ये तच्च युज्यते ।। ७४ ।।
एष एवानुसंधेयो न्यायो योऽयमिहोदितः ।।
वक्ष्यमाणासु सर्वासु दिक्षु प्रत्येकशः क्रमात् ।। ७५ ।।
प्राच्यां रूपोपसंहारो दिक्त्र्ये कर्मसंहृतिः ।।
ध्रुवायां संहृतिर्नाम्नो हृद्येवं सर्वसंहृतिः ।। ७६ ।।
केवलं कर्म याम्यायां प्रतीच्यां पुत्रजन्म च ।।
ज्ञानयुक्तमुदीच्यां च कर्मैवमुपसंहृतम् ।। ७७ ।।
नाम्नश्चाप्युपसंहारो ध्रुवायां हृदि वर्णितः ।।
एवं क्रमेण निःशेषं जगद्धृद्युपसंहृतम् ।। ७८ ।।
सामर्थ्याच्च मनोऽप्यत्र विज्ञेयमुपसंहृतम् ।।
रूपादिपञ्चकं यस्मात्तद्द्वारेणाऽऽश्रितं हृदि ।। ७९ ।।
निःशेषं ब्रह्मलोकान्तं संहृत्य हृदयात्मना ।।
याज्ञवल्क्यं स्थितं भूयो विदग्धः पर्यपृच्छत ।। ८० ।।
सर्वोपसंहृद्धृदयं ब्रूहि क्वेैतत्प्रतिष्ठितम् ।।
इत्युक्तोऽहँल्लिकेत्येवं संबोध्योत्तरमब्रवीत् ।। ८१ ।।
अहँल्लिकेति वचसा नाऽऽधारान्तरमुच्यते ।।
आद्युदात्तत्वलिङ्गेन ह्यभिधानं विदग्धवत् ।। ८२ ।।
प्रेतीभूतोऽसि नूनं त्वं प्रेतवद्भाषसे यतः ।।
लीयतेऽहनि रात्रौ च व्यज्यतेऽहँल्लिकस्ततः ।। ८३ ।।
मत्तः शरीरात्क्वान्यत्र मथ्येघातः प्रतिष्ठितम् ।।
अस्मदन्यत्र मन्वीथा यत्रेदं हृदयं क्वचित् ।। ८४ ।।
यद्येतद्देहतोऽन्यत्र हृदयं स्यादवस्थितम् ।।
हृद्वियुक्तं तदा देहमद्युः श्वानो मृतं ध्रुवम् ।। ८५ ।।
न त्वयं मृत इत्यस्मात्कारणादवसीयताम् ।।
वनसिंहवदेवैतद्द्वयमन्योन्यसंश्रयम् ।। ८६ ।।
नर्ते लिङ्गं शरीरस्य स्थितिः काचिदिहेष्यते ।।
न शरीरं विना लिङ्गं कस्मैचित्कर्मणे क्षमम् ।। ८७ ।।
न ह्यन्योन्यातिरेकेण संहतानां क्वचित्थितिः ।।
संहतं च प्रतीचोऽन्यज्जगदेतच्चराचरम् ।। ८८ ।।
कार्यत्वाद्दूयमप्येतद्यतो न स्वाश्रयं ततः ।।
तत्प्रतिष्ठामथाप्राक्षीच्छाकल्यो निर्णयेच्छया ।। ८९ ।।
द्वावप्येतौ ममाऽऽत्मानौ प्राण एव प्रतिष्ठितौ ।।
प्राणोऽपाने स च व्यान उदाने व्यान आश्रितः ।। ९० ।।
समाने च तथोदानः सूत्रात्मनि समाश्रितः ।।
एवमेप समानान्तः शाकल्यप्रश्ननिर्णयः ।। ९१ ।।
देहहृद्वायवोऽन्योन्यप्रतिष्ठाः संहतत्वतः ।।
प्रयुक्ताः कर्मणा पुंसां वर्तन्ते भोगसिद्धये ।। ९२ ।।
सकारणमिदं सर्वमाकाशान्तं यथोदितम् ।।
ओतं प्रोतं च यत्रेदं तदक्षरमथोच्यते ।। ९३ ।।
विहायाऽऽख्यायिकारूपं स्वेनैव वचसा श्रुतिः ।।
पुरुषार्थं समापित्सुः स एष इति चावदत् ।। ९४ ।।
प्रशासन इदं तस्थौ यस्यान्तर्यामिरूपिणः ।।
स एष नेति नेतीति मधुकाण्डेऽपि वर्णितः ।। ९५ ।।
ननु ब्रह्माधिकारत्वात्कथमात्मेत्युनूद्यते ।।
नैष दोषोऽतिरेकेण नाऽऽत्मनो ब्रह्मता यतः ।। ९६ ।।
ग्राह्यत्वं शरणं सङ्गो भयं चाज्ञानकारणम् ।।
तदत्ययाद्भयान्तानि न सन्ति प्रत्यगात्मनि ।। ९७ ।।
निरविद्योऽसितो भास्वदविलुप्तचिदात्मकः ।।
यत एवमतो नास्य नाशान्ता विक्रियाऽऽत्मनः ।। ९८ ।।
कार्यधर्मानतीत्यैतांस्तद्धेतोरप्यतिक्रमात् ।।
अपूर्वानपराद्येकः पूर्णः स्वात्मन्यवस्थितः ।। ९९ ।।
श्रुतिः स्वेनैव वचसा साक्षादित्यादिलक्षणम् ।।
समापय्याऽऽत्मविज्ञानं भूयोऽप्याख्यानरूपकम् ।। १०० ।।
गृहीत्वा परिपप्रच्छ शाकल्यमभिमानिनम् ।।
याज्ञवल्क्यात्मिका भूत्वा ह्यतिनिर्बन्धकारिणम् ।। १०१ ।।
धनं निसृष्टं राज्ञेह ब्रह्मिष्ठोद्देशतो यतः ।।
प्रष्टुं नैवाधिकारोऽतोऽब्रह्मिष्ठस्येह विद्यते ।। १०२ ।।
अब्रह्मिष्ठत्वसिद्ध्यर्थमतोऽप्राक्षीद्रुषाऽन्वितः ।।
स याज्ञवल्क्यः शाकल्यं सापराधत्वसिद्धये ।। १०३ ।।
स एष नेति नेत्याद्यः प्रश्नो वाऽयं समीक्ष्यताम् ।।
मध्ये वाक्यच्छिदोऽभावादितिशब्दस्य पूर्ववत् ।। १०४ ।।
समासव्यासरूपेण शाकल्यो यदपृच्छत ।।
ततः परस्ताच्छाकल्यं याज्ञवल्क्योऽप्यपृच्छत ।। १०५ ।।
ऐकात्म्ये सर्वमेवेदं कार्यकारणलक्षणम् ।।
समापनीयं निःशेषं समासव्यासवर्जिते ।। १०६ ।।
अपि शास्रार्थसंबन्ध उत्तरस्याः श्रुतेरयम् ।।
तदनुक्तौ यतः पूर्वं सर्वं स्यात्तुषकण्डनम् ।। १०७ ।।
अष्टावायतनान्यत्र पृथिव्यादीनि निर्दिशेत् ।।
अग्न्योदयस्तथा लोका अमृताद्याश्च देवताः ।। १०८ ।।
शारीरप्रमुखास्तद्वदष्टौ ज्ञेया यथोदिताः ।।
पुरुषाः सर्व एवामी पुनर्दिक्षूपसंहृताः ।। १०९ ।।
दिशश्च हृदये सर्वाः समाने हृदयादिकम् ।।
एवं समाने संक्षेपो विकासोऽनन्तदेवताः ।। ११० ।।
प्रत्यग्याथात्म्यमोहस्य महिमैष त्वयोदितः ।।
यतोऽविद्यैव प्रथते कार्यकारणरूपिणी ।। १११ ।।
स्वात्माविद्यानुरोध्येव समासव्यासतामगात् ।।
आत्मा स्वतस्तु भास्वच्चिन्मात्रः पूर्णो निरञ्जनः ।। ११२ ।।
यः स एतांस्त्वया पृष्टांश्चतुरोऽप्यष्टकानिह ।।
निरुह्य कार्यतां नीत्वा प्रत्युह्याथाऽऽत्मकारणे ।। ११३ ।।
विभज्यकारणादुच्चैर्नीत्वा कार्यात्मतां मुहुः ।।
वस्तुवृत्तेन निःशेषान्कार्यकारणलक्षणान् ।। ११४ ।।
योऽत्यक्रामदनानात्वो भेदसंसर्गवर्जितः ।।
तं त्वौपनिषदं देव साक्षादित्यादिलक्षणम् ।। ११५ ।।
आस्वेवोपनिषत्स्वेनं यतो व्याचक्षते बुधाः ।।
कर्मकाण्डे विरोधित्वान्नैवैनं व्याचचक्षिरे ।। ११६ ।।
तं त्वौपनिषदं धीरा ब्रह्मात्मानं प्रचक्षते ।।
तं त्वा पृच्छामि शाकल्य तं मह्यं ब्रूहि तत्त्वतः ।। ११७ ।।
न चेद्वक्ष्यसि तं मे त्वं मूर्धा ते विपतिष्यति ।।
न विजज्ञौ च शाकल्यस्तमात्मानं यथोदितम् ।। ११८ ।।
ततः स याज्ञवल्क्योत्थशापवाक्याख्यवह्निना ।।
दग्धः सद्यो ममारैव ब्रह्मविद्विड्ज्वरान्वितः ।। ११९ ।।
कर्मप्रकरणे नायं श्रुतः पूर्वं कदाचन ।।
मित्यं ह्युपनिषत्स्वेव श्रूयते वैदिकीष्वयम् ।। १२० ।।
कर्मकाण्डादपच्छिद्य तेनात्रैवैष भण्यते ।।
अपि प्राप्तं कर्मकाण्डे तद्विरोधात्तु नाब्रवीत् ।। १२१ ।।
प्रत्यग्ज्ञानस्य नैवातः कर्मणा स्यात्समुच्चयः ।।
ऐकात्म्यवस्तुविज्ञानं कर्मभिर्हि विरुध्यते ।। १२२ ।।
अपरे पण्डितंमन्याः सम्यग्ज्ञातात्मतत्त्वकाः ।।
कर्मव्यध्वेषु कुर्वन्ति यथावस्त्वात्मबोधनम् ।। १२३ ।।
वस्तुतन्त्रं, न हि ज्ञानं कर्तृतन्त्रं क्रिया यथा ।।
कर्मव्यध्वोपरोधेन ह्यन्यथात्वं प्रपद्यते ।। १२४ ।।
यत्कर्तुमन्यथा कर्तुमकर्तुं वाऽपि शक्यते ।।
स्वातन्त्र्यात्तत्र भवता क्रियतां तद्यथेष्टकम् ।। १२५ ।।
वस्तुवृत्तानुरोध्येव यत्तु ज्ञानं भवेदिह ।।
व्यभिचारं न तद्याति पुरुषेच्छावशात्क्वचित् ।। १२६ ।।
उपवादिनेह विदुषो न भाव्यं कस्यचित्क्वचित् ।।
एवंविदपि सञ्शत्रुरुपवादादभूद्यतः ।। १२७ ।।
दग्धक्रोधनिदानः सन्याज्ञवल्क्योऽपि शत्रुताम् ।।
शाकल्यस्यापि संयाच उपवादैकदोषतः ।। १२८ ।।
तस्मान्नैवोपवादी स्याद्याज्ञवल्क्योऽपि शत्रुताम् ।।
यस्मादगात्कष्टतरं नोपवादादतः परम् ।। १२९ ।।
परलोकविनाशोऽपि विद्वद्विद्वेषकारणात् ।।
अग्निहोत्राग्निसंस्कारं यतो नावाप शापतः ।। १३० ।।
परिमोषिणो यतोऽस्थीनि धनशङ्काप्रचोदिताः ।।
तान्यप्यस्यारपजङ्रुस्ते ब्रह्मविद्वेषहेतुतः ।। १३१ ।।
अनात्मार्थनिषेधेन यो नेतीति पुरोदितः ।।
विधिद्वारेण तस्यैव निर्देशार्थं परा श्रुतिः ।। १३२ ।।
मूलं च जगतो वाच्यमत आख्यानतोऽपि च ।।
जित्वा देया द्विजान्गाव इत्यर्थं चोत्तरा श्रुतिः ।। १३३ ।।
साधर्म्ये सति वैधर्म्यं शक्यं प्रष्टुं यतस्ततः ।।
साधर्म्यमुच्यते श्रुत्या तद्वनस्पतिमर्त्ययोः ।। १३४ ।।
बीजाद्वनस्पतेर्जन्म मूलाच्चेहोपलभ्यते ।।
मर्त्यस्य जन्ममूलं यत्तद्ब्रूत ब्राह्मणा मम ।। १३५ ।।
रेतो मूलं न वो वाच्यं जीवतस्तद्धि जायते ।।
न मृतस्येह रेतोऽपि विद्यते कस्यचित्कचित् ।। १३६ ।।
अपि धानारुहो वृक्षो बीजात्तज्जन्मदर्शनात् ।।
मृतस्य बीजस्थानीयं न च किंचिदिहेक्ष्यते ।। १३७ ।।
धानारुहो यथा वृक्षः साक्षादव्यवधानतः ।।
मर्त्यजन्म तथा साक्षाद्यतस्तदभिधीयताम् ।। १३८ ।।
यथाऽनुभूतशक्तीह बीजं वृक्षस्य दृश्यते ।।
न च तादृङ्मृतस्यास्ति यस्मात्तस्य पुनर्भवः ।। १३९ ।।
दृष्टः काण्डरुहोऽपीह वृक्षस्तद्वच्चनेष्यते ।।
हस्तपादादितश्छिन्नान्न मृतस्य पुनर्भवः ।। १४० ।।
मूलाद्बीजाच्च वृक्षस्य साक्षाद्यदूत्समुद्भवः ।।
तद्वन्मृतस्य वक्तव्यं न तु पुत्राप्रपौत्रवत् ।। १४१ ।।
समूलबीजं चेद्वृक्षमावृहेयुस्तदोभयम् ।।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ।। १४२ ।।
मतं न जायमानोऽस्ति जातत्वादेव कारणात् ।।
पुमाञ्जनिप्यमाणो वा संसारस्य प्रवाहतः ।। १४३ ।।
प्रवाहरूपी संसारो दीपार्चिर्वदवस्थितः ।।
न जायते जनिष्यन्वा तस्मादस्तीह कश्चन ।। १४४ ।।
जात एवेत्यतोऽसाधु यदुक्तं पूर्वपक्षिणा ।।
जनित्वा म्रियते सर्वो मृत्वा भूयश्च जायते ।। १४५ ।।
निर्बीजस्य च जन्मेह नाऽऽगमान्न च युक्तितः ।।
ब्रूतातो जगतो मूलं यतो भूयोऽभिजायते ।। १४६ ।।
तत्पृष्टं जगतो मूलं न विदुर्ब्राह्मणा यतः ।।
अतो जिता हृता गावो याताः सर्वे यथायथम् ।। १४७ ।।
पृष्टं यद्याज्ञवल्क्येन न विदुर्ब्राह्मणाश्च यत् ।।
श्रुत्या स्वतन्त्रया तन्नो ब्रह्माऽऽविष्क्रियते परम् ।। १४८ ।।
साक्षादित्यादिना प्रोक्तस्तथा सर्वान्तरश्च यः ।।
अस्थूलोऽनणुरित्येवमक्षरात्माऽवधारितः ।। १४९ ।।
नेति नेतीति यश्चोक्त इहौपनिषदः पुमान् ।।
तस्य साक्षादयं श्रुत्या निर्देशः क्रियतेऽधुना ।। १५० ।।
विज्ञानमिति चैतन्यं कूटस्थमभिधीयते ।।
न कारकं न धात्वर्थो नापि यत्स्यात्क्रियाफलम् ।। १५१ ।।
न चापि तदभावश्च नेत्यस्थूलादिशास्रतः ।।
अभावस्यापि तत्साक्ष्यात्तदभावः कुतो मितेः ।। १५२ ।।
एतावन्मात्रयाथात्म्यात्कार्यकारणवस्तुनः ।।
अतस्तत्त्वमसीत्युक्त्या तादात्म्यं प्रतिपाद्यते ।। १५३ ।।
निर्धूताशेषदुःखौघहेतुत्वात्सुखमेव तत् ।।
अथैष एव परमो यो वै भूमेतिशास्रतः ।। १५४ ।।
विषयेन्द्रियसंवन्धाद्यत्तु दुःखं सुखायते ।।
आद्यन्तवत्त्वात्तुद्दुःखं दुःखसंस्कारजं तथा ।। १५५ ।।
अव्यावृत्ताननुगतभास्वद्विज्ञानमात्रतः ।।
निरविद्याद्वयत्वात्तत्साक्षाद्ब्रह्मेति शब्द्यते ।। १५६ ।।
साविद्यः प्रत्यगात्मा यो वियद्योनिरुदाहृतः ।।
अन्तर्याम्यादिरूपेण स एव प्रथते मृषा ।। १५७ ।।
अदृष्टफलसंप्रेप्सोर्दृष्टकर्मफलत्यजः ।।
रातेर्धनस्य दातुस्तद्ब्रह्मेदं स्यात्परायणम् ।। १५८ ।।
अस्मिन्प्रशास्तरि सति क्रियातत्फलसंगतेः ।।
नियमो युक्तिमानेष कर्मिणामुपपद्यते ।। १५९ ।।
एवं संसरतस्तावत्परं ब्रह्म परायणम् ।।
जगतश्चाप्युपादानं स्वात्माविद्यासमन्वयात् ।। १६० ।।
निविवृत्सोस्तु संसारान्मुनेस्त्यक्तैषणस्य च ।।
तद्विदस्तिष्ठमानस्य समाप्तिः स्यात्परायणम् ।। १६१ ।।
दग्धमोहान्धकारस्य प्रत्यग्बोधाग्निना मुनेः ।।
ऐकात्म्ये वर्तमानस्य ब्रह्मात्माऽस्य परायणम् ।। १६२ ।।
तद्विदो ब्रह्मणश्चेह भेदहेतोरसंभवात् ।।
ब्रह्मैव ब्राह्मणः साक्षादुपचारात्परायणम् ।। १६३ ।।
यत्र वा अन्यदित्येवं यत्र त्वस्येतिवाक्यतः ।।
इत्युक्त्यर्थोपरोधेन व्याचक्षीत परायणम् ।। १६४ ।।
तस्मात्तमस्विनो ब्रह्म भेदेनैवप परायणम् ।।
ध्वस्ताविद्यस्य चैकात्म्यात्कैवल्येन परायणम् ।। १६५ ।।
ब्रह्मण्यानन्दशब्दोऽयं प्रयुक्तः सुखवाचकः ।।
संवेद्ये च सुखे लोक आनन्दाख्या प्रयुज्यते ।। १६६ ।।
विशेषणतयाऽऽनन्दशब्दोऽन्यत्रापि दृश्यते ।।
वेदान्तेष्वत आनन्दो विचार्योऽयं प्रयत्नतः ।। १६७ ।।
आनन्दो ब्रह्मेति तथा तैत्तिरीयश्रुतौ श्रुतम् ।।
अथैष एव इति च तथोदर्के प्रवक्ष्यते ।। १६८ ।।
भूमा तत्सुखमित्येवं छान्दोग्योपनिषद्वचः ।।
संवेद्योऽयं किमानन्दः किंवा नेति विचार्यते ।। १६९ ।।
ब्रह्मण्यानन्दः संवेद्यो लौकिकानन्दवद्यदि ।।
युक्ताः शब्दास्तदैते स्युर्ब्रह्मण्यानन्दवाचकाः ।। १७० ।।
संवेद्यानन्दरूपं तद्वाक्याच्चेत्परिनिश्चितम् ।।
प्रमाणावगतेस्तत्र किं चिन्त्यमिति चेन्मतम् ।। १७१ ।।
नान्योन्यातिविरुद्धार्थवाक्यानां तत्र दर्शनात् ।।
अतिप्रमाणविषयं ब्रह्म सर्वत्र विश्रुतम् ।। १७२ ।।
यत्र त्वस्येति वचनं न दृष्टेरिति चापरम् ।।
विदिताविदिताभ्यां तदन्यदेवेति च श्रुतिः ।। १७३ ।।
निरानन्दं तथा केचित्कैवल्यं प्रतिजानते ।।
तेषामपि निषेधार्थं कर्तव्याऽतो विचारणा ।। १७४ ।।
विकल्पासंभवश्चात्र वस्तुवृत्तत्वकारणात् ।।
क्रियायां स्याद्विकल्पोऽयं न तु वस्तुन्यसंभवात् ।। १७५ ।।
वादिविप्रतिपत्तेश्च, केचेदिच्छन्ति वादिनः ।।
असंवेद्यं सुखं मोक्षे, केचिन्नेति प्रचक्षते ।। १७६ ।।
कर्तव्योऽतो विचारोऽत्र युक्तिमार्गेण यत्नतः ।।
सम्यङ्निश्चयसिद्ध्यर्थं पक्षयोरुभयोरपि ।। १७७ ।।
संवेद्यानन्दकं तावद्ब्रह्मेतीहावसीयताम् ।।
जक्षत्क्रीडन्नममाण इत्यादिश्रुतिवाक्यतः ।। १७८ ।।
नन्वेकत्वे विभागोऽत्र नास्ति कारकसंश्रयः ।।
भूरिकारकसाध्या च क्रिया लोकेऽपि दृश्यते ।। १७९ ।।
विज्ञानस्य क्रियात्वाच्च न सिद्धिः कारकैर्विना ।।
नातः संवेद्य आनन्दो ब्रह्मणीहोपपद्यते ।। १८० ।।
नैष दोषोऽस्ति विज्ञानं स्यादेवाऽऽनन्दगोचरम् ।।
विज्ञानमानन्दमितिशब्दप्रामाण्यकारणात् ।। १८१ ।।
ननु सत्स्वपि वाक्येषु नैतदध्यवसीयते ।।
प्रत्यर्थिनि श्रुतेर्वाक्ये सत्यैकात्म्यावबोधिनि ।। १८२ ।।
मानान्तरविरोधेन न हि लोकेऽपि किंचन ।।
मानं प्रवर्तते तस्मान्नैतदध्यवसीयते ।। १८३ ।।
व्यञ्जकत्वाच्च मानानां सिद्धवस्तुप्रयोज्यता ।।
कारकत्वेऽप्यकार्यत्वाद्दुःसंभाव्यं त्वयोदितम् ।। १८४ ।।
ननु सुख्यहमस्मीति विज्ञानमनुभूयते ।।
प्रतीच्यानन्दविषयं न प्रत्यक्षं विरोध्यतः ।। १८५ ।।
नैतेदेवं यतो मोक्षे विज्ञानं नोपपद्यते ।।
देहाभावो हि मोक्षोऽयं करणानि न सन्त्यतः ।। १८६ ।।
करणाद्यनपेक्षः सन्न च विज्ञानसंभवः ।।
तथा सति शरीरादेरुपादानमनर्थकम् ।।
तथैकत्वविरोधान्न संवेद्यानन्दकं परम् ।। १८७ ।।
यद्यानन्दात्मकं ब्रह्म नित्यमात्मानमात्मना ।।
तद्विज्ञानस्य नित्यत्वाज्जानीयान्नित्यमेव तत् ।। १८८ ।।
जले जलं यथा तस्मिन्संसार्यप्येकतां गतः ।।
सर्व एकी भवन्तीति न पृथक्त्वेन संस्थितः ।। १८९ ।।
तदानन्दात्मकब्रह्मविज्ञानाय मनागपि ।।
न तदेकत्वतो वेत्ति ब्रह्माऽऽनन्दं स्वकं तथा ।। १९० ।।
मुक्तोऽपि न च संसारी, तयोरेकत्वहेतुतः ।।
मुक्तो वेत्ति परानन्दमिति तस्माद्वचो मृषा ।। १९१ ।।
ब्रह्मानन्दमथान्यः सन्वेद मुक्तो घटादिवत् ।।
ब्रह्मत्वमन्यो वेदेति तदैकत्वं विरुध्यते ।। १९२ ।।
प्रेत्य संज्ञेह नास्तीति श्रुतिरेव निषेधति ।।
मुक्तौ विभागविज्ञानमेकत्वादेव कारणात् ।। १९३ ।।
स्रीपुंदृष्टान्तवचनं यद्वै तदिति चापरम् ।।
ज्ञात्राद्यसंभवं वक्ति कूटस्थैकत्वकारणात् ।। १९४ ।।
नेति नेत्यादिभूयांसि विरुध्यन्ते वचांस्यपि ।।
कारकाद्यभ्युपगतौ मुक्तौ ब्रह्मणि केवले ।। १९५ ।।
विज्ञानान्दयोश्चैक्यादसंयोगविभागतः ।।
आनन्दज्ञानविषया कल्पनेयं वृथा श्रमः ।। १९६ ।।
अज्ञानान्यार्थविज्ञानप्रसक्तावेव युज्यते ।।
वेत्ति ब्रह्म सुखमिति न तु ज्ञानघनात्मनि ।। १९७ ।।
अज्ञानान्यार्थविज्ञानप्रसङ्गाङ्गीकृतावपि ।।
जाड्यं जन्मादिबद्धत्वं ब्रह्मणः प्राप्नुयाद्ध्रुवम् ।। १९८ ।।
तस्माद्विज्ञानमित्यादि यथावस्थितवस्तुनः ।।
वचोऽन्वाख्यायकं ग्राह्यं, न ज्ञानादिविधायकम् ।। १९९ ।।
जक्षदित्यादि यच्चोक्तं तच्चापि न विरुध्यते ।।
सर्वात्मकत्वाद्विदुषः सर्वतःपाणिपादवत् ।। २०० ।।
योगिदेवादिदेहेषु जक्षणाद्युपपत्स्यते ।।
सर्वात्मकत्वाद्विदुषः स्याद्विमुक्तिस्तुतीरणम् ।। २०१ ।।
मतं जक्षणवन्मुक्तौ सर्वात्मत्वात्परात्मनः ।।
दुःखित्वमपि संप्राप्तं कुम्भीपाकादिदेहिषु ।। २०२ ।।
नैवं नामादिसंभूतिपिण्डप्राणादिसंश्रय -
संपर्कजनितभ्रान्तिदुःखित्वाध्यस्तिहेतुतः ।। २०३ ।।
विषयप्रविभागश्च विरुद्धवचसां मिथः ।।
प्रागेवास्माभिरुक्तोऽसौ यथावदुपपत्तिभिः ।। २०४ ।।
आनन्दब्रह्मविज्ञानपदार्थैकत्वहेतुतः ।।
नीलोत्पलादिवन्नातः संसर्गो ब्रह्मणीष्यते ।। २०५ ।।
मर्त्याच्छतगुणेनात उत्तरोत्तरवृद्धितः ।।
कार्यकारणरूपस्य निष्ठाऽऽनन्दः परो मतः ।। २०६ ।।
साधनादिव्यपेक्षैव सुखसंवित्तिरिष्यते ।।
लौकिकी नश्वरी साऽपि दुःखसंस्कारजा तथा ।। २०७ ।।
कैवल्ये न तु सापेक्षा सर्वसाधनानिःस्पृहा ।।
आत्मैवाऽऽनन्दयाथात्म्यं नातो ज्ञानादिसाधनम् ।। २०८ ।।
न जडं ज्ञानरूपत्वादानन्दत्वान्न निःसुखम् ।।
नान्तवद्ब्रह्मरूपत्वादिति वाक्यप्रमाणतः ।। २०९ ।।
आनन्दैकस्वभावोऽस्य सुषुप्तेऽध्यवसीयते ।।
व्यावृत्ताशेषमात्रादेरनन्यानुभवात्मना ।। २१० ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य नवमं ब्राह्मणम्
त्रयोदशैव ज्ञेयानि पञ्चमेऽस्मिन्समासतः ।।
शतानि वार्तिकग्रन्थे षष्ठे वक्ष्याम्यतः परम् ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीसुरेश्वराचार्यविरचिते बृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयोऽध्यायः