बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
जनको ह वैदेह आसाञ्चक्रे । अस्य सम्बन्धः — शारीराद्यानष्टौ पुरुषान्निरुह्य, प्रत्युह्य पुनर्हृदये, दिग्भेदेन च पुनः पञ्चधा व्यूह्य, हृदये प्रत्युह्य, हृदयं शरीरं च पुनरन्योन्यप्रतिष्ठं प्राणादिपञ्चवृत्त्यात्मके समानाख्ये जगदात्मनि सूत्र उपसंहृत्य, जगदात्मानं शरीरहृदयसूत्रावस्थमतिक्रान्तवान् य औपनिषदः पुरुषः नेति नेतीति व्यपदिष्टः, स साक्षाच्च उपादानकारणस्वरूपेण च निर्दिष्टः ‘विज्ञानमानन्दम्’ इति । तस्यैव वागादिदेवताद्वारेण पुनरधिगमः कर्तव्य इति अधिगमनोपायान्तरार्थोऽयमारम्भो ब्राह्मणद्वयस्य । आख्यायिका तु आचारप्रदर्शनार्था —
ओं जनको ह वैदेह आसाञ्चक्रेऽथ ह याज्ञवल्क्य आवव्राज । तंहोवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति । उभयमेव सम्राडिति होवाच ॥ १ ॥
जनको ह वैदेह आसाञ्चक्रे आसनं कृतवान् आस्थायिकां दत्तवानित्यर्थः, दर्शनकामेभ्यो राज्ञः । अथ ह तस्मिन्नवसरे याज्ञवल्क्य आवव्राज आगतवान् आत्मनो योगक्षेमार्थम् , राज्ञो वा विविदिषां दृष्ट्वा अनुग्रहार्थम् । तमागतं याज्ञवल्क्यं यथावत्पूजां कृत्वा उवाच ह उक्तवान् जनकः — हे याज्ञवल्क्य किमर्थमचारीः आगतोऽसि ; किं पशूनिच्छन्पुनरपि आहोस्वित् अण्वन्तान् सूक्ष्मान्तान् सूक्ष्मवस्तुनिर्णयान्तान् प्रश्नान् मत्तः श्रोतुमिच्छन्निति । उभयमेव पशून्प्रश्नांश्च, हे सम्राट् — सम्राडिति वाजपेययाजिनो लिङ्गम् ; यश्चाज्ञया राज्यं प्रशास्ति, स सम्राट् ; तस्यामन्त्रणं हे सम्राडिति ; समस्तस्य वा भारतस्य वर्षस्य राजा ॥
यत्ते कश्चिदब्रवीत्तछृणवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य । वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राडिति होवाच । वाचा वै सम्राड्बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञायन्ते वाग्वै सम्राट्परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ २ ॥
किं तु यत् ते तुभ्यम् , कश्चित् अब्रवीत् आचार्यः ; अनेकाचार्यसेवी हि भवान् ; तच्छृणवामेति । इतर आह — अब्रवीत् उक्तवान् मे मम आचार्यः, जित्वा नामतः, शिलिनस्यापत्यं शैलिनिः — वाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति । आहेतरः — यथा मातृमान् माता यस्य विद्यते पुत्रस्य सम्यगनुशास्त्री अनुशासनकर्त्री स मातृमान् ; अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान् ; उपनयनादूर्ध्वम् आ समावर्तनात् आचार्यो यस्यानुशास्ता स आचार्यवान् ; एवं शुद्धित्रयहेतुसंयुक्तः स साक्षादाचार्यः स्वयं न कदाचिदपि प्रामाण्याद्व्यभिचरति ; स यथा ब्रूयाच्छिष्याय तथासौ जित्वा शैलिनिरुक्तवान् — वाग्वै ब्रह्मेति ; अवदतो हि किं स्यादिति — न हि मूकस्य इहार्थम् अमुत्रार्थं वा किञ्चन स्यात् । किं तु अब्रवीत् उक्तवान् ते तुभ्यम् तस्य ब्रह्मणः आयतनं प्रतिष्ठां च — आयतनं नाम शरीरम् ; प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः । आहेतरः — न मेऽब्रवीदिति । इतर आह — यद्येवम् एकपात् वै एतत् , एकः पादो यस्य ब्रह्मणः तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यम् उपास्यमानमिति न फलाय भवतीत्यर्थः । यद्येवम् , स त्वं विद्वान्सन् नः अस्मभ्यं ब्रूहि हे याज्ञवल्क्येति । स च आह — वागेव आयतनम् , वाग्देवस्य ब्रह्मणः वागेव करणम् आयतनं शरीरम् , आकाशः अव्याकृताख्यः प्रतिष्ठा उत्पत्तिस्थितिलयकालेषु । प्रज्ञेत्येनदुपासीत — प्रज्ञेतीयमुपनिषत् ब्रह्मणश्चतुर्थः पादः — प्रज्ञेति कृत्वा एनत् ब्रह्म उपासीत । का प्रज्ञता याज्ञवल्क्य, किं स्वयमेव प्रज्ञा, उत प्रज्ञानिमित्ता — यथा आयतनप्रतिष्ठे ब्रह्मणो व्यतिरिक्ते, तद्वत्किम् । न ; कथं तर्हि ? वागेव, सम्राट् , इति होवाच ; वागेव प्रज्ञेति ह उवाच उक्तवान् , न व्यतिरिक्ता प्रज्ञेति । कथं पुनर्वागेव प्रज्ञेति उच्यते — वाचा वै, सम्राट् , बन्धुः प्रज्ञायते — अस्माकं बन्धुरित्युक्ते प्रज्ञायते बन्धुः ; तथा ऋग्वेदादि, इष्टं यागनिमित्तं धर्मजातम् , हुतं होमनिमित्तं च, आशितम् अन्नदाननिमित्तम् , पायितं पानदाननिमित्तम् , अयं च लोकः, इदं च जन्म, परश्च लोकः, प्रतिपत्तव्यं च जन्म, सर्वाणि च भूतानि — वाचैव, सम्राट् , प्रज्ञायन्ते ; अतो वाग्वै, सम्राट् , परमं ब्रह्म । नैनं यथोक्तब्रह्मविदं वाग्जहाति ; सर्वाण्येनं भूतान्यभिक्षरन्ति बलिदानादिभिः ; इह देवो भूत्वा पुनः शरीरपातोत्तरकालं देवानप्येति अपिगच्छति, य एवं विद्वानेतदुपास्ते । विद्यानिष्क्रयार्थं हस्तितुल्य ऋषभो हस्त्यृषभः यस्मिन्गोसहस्रे तत् हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः — अननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्यात् धनं न हरेतेति मे मम पिता — अमन्यत ; ममाप्ययमेवाभिप्रायः ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥
यदेव ते कश्चिदब्रवीत् उदङ्को नामतः शुल्बस्यापत्यं शौल्बायनः अब्रवीत् ; प्राणो वै ब्रह्मेति, प्राणो वायुर्देवता — पूर्ववत् । प्राण एव आयतनम् आकाशः प्रतिष्ठा ; उपनिषत् — प्रियमित्येनदुपासीत । कथं पुनः प्रियत्वम् ? प्राणस्य वै, हे सम्राट् , कामाय प्राणस्यार्थाय अयाज्यं याजयति पतितादिकमपि ; अप्रतिगृह्यस्याप्युग्रादेः प्रतिगृह्णात्यपि ; तत्र तस्यां दिशि वधनिमित्तमाशङ्कम् — वधाशङ्केत्यर्थः — यां दिशमेति तस्कराद्याकीर्णां च, तस्यां दिशि वधाशङ्का ; तच्चैतत्सर्वं प्राणस्य प्रियत्वे भवति, प्राणस्यैव, सम्राट् , कामाय । तस्मात्प्राणो वै, सम्राट् , परमं ब्रह्म ; नैनं प्राणो जहाति ; समानमन्यत् ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेत्यपश्यतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट्परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥
यदेव ते कश्चित् बर्कुरिति नामतः वृष्णस्यापत्यं वार्ष्णः ; चक्षुर्वै ब्रह्मेति — आदित्यो देवता चक्षुषि । उपनिषत् — सत्यम् ; यस्मात् श्रोत्रेण श्रुतमनृतमपि स्यात् , न तु चक्षुषा दृष्टम् , तस्माद्वै, सम्राट् , पश्यन्तमाहुः — अद्राक्षीस्त्वं हस्तिनमिति, स चेत् अद्राक्षमित्याह, तत्सत्यमेव भवति ; यस्त्वन्यो ब्रूयात् — अहमश्रौषमिति, तद्व्यभिचरति ; यत्तु चक्षुषा दृष्टं तत् अव्यभिचारित्वात् सत्यमेव भवति ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त इत्येनदुपासीत कानन्तता याज्ञवल्क्य दिश एव सम्राडिति होवाच तस्माद्वै सम्राडपि यां कां च दिशं गच्छति नैवास्या अन्तं गच्छत्यनन्ता हि दिशो दिशो वै सम्राट् श्रोत्रं श्रोत्रं वै सम्राट्परमं ब्रह्म नैनं श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥
यदेव ते गर्दभीविपीत इति नामतः भारद्वाजो गोत्रतः ; श्रोत्रं वै ब्रह्मेति — श्रोत्रे दिक् देवता । अनन्त इत्येनदुपासीत ; का अनन्तता श्रोत्रस्य ? दिश एव श्रोत्रस्य आनन्त्यं यस्मात् , तस्माद्वै, सम्राट् , प्राचीमुदीचीं वा यां काञ्चिदपि दिशं गच्छति, नैवास्य अन्तं गच्छति कश्चिदपि ; अतोऽनन्ता हि दिशः ; दिशो वै सम्राट् , श्रोत्रम् ; तस्मात् दिगानन्त्यमेव श्रोत्रस्य आनन्त्यम् ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत कानन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट्परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥
सत्यकाम इति नामतः जबालाया अपत्यं जाबालः । चन्द्रमा मनसि देवता । आनन्द इत्युपनिषत् ; यस्मान्मन एव आनन्दः, तस्मात् मनसा वै, सम्राट् , स्त्रियमभिकामयमानः अभिहार्यते प्रार्थयत इत्यर्थः ; तस्मात् यां स्त्रियमभिकामयमानोऽभिहार्यते, तस्यां प्रतिरूपः अनुरूपः पुत्रो जायते ; स आनन्दहेतुः पुत्रः ; स येन मनसा निर्वर्त्यते, तन्मनः आनन्दः ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेत्यहृदयस्य हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट्सर्वेषां भूतानामायतनं हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट्परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥
विदग्धः शाकल्यः — हृदयं वै ब्रह्मेति । हृदयं वै, सम्राट् , सर्वेषां भूतानामायतनम् । नामरूपकर्मात्मकानि हि भूतानि हृदयाश्रयाणीत्यवोचाम शाकल्यब्राह्मणे हृदयप्रतिष्ठानि चेति । तस्मात् हृदये ह्येव, सम्राट् , सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । तस्मात् हृदयं स्थितिरित्युपासीत ; हृदये च प्रजापतिर्देवता ॥
इति चतुर्थाध्यायस्य प्रथनं ब्राह्मणम् ॥
आनन्दं ब्रह्म विज्ञानं साक्षादित्यादिलक्षणम् ।।
पञ्चमान्ते विनिर्णीतं जल्पन्यायेन सांप्रतम् ।। १ ।।
वागादिदेवताद्वारा भूयस्तस्यैव वित्तये ।।
षष्ठ आरभ्यतेऽध्यायो वादन्यायेन यत्नतः ।। २ ।।
योग्यकालावबोधार्थमासांचक्र इतीरणम् ।।
कल्पं बुद्ध्वाऽथ तमृषिराजगाम महीपतिम् ।। ३ ।।
पशूनिच्छन्किमागास्त्वं प्रश्नान्वा सूक्ष्मनिर्मयान् ।।
वक्तुं किमागतोऽसीति नृपः पप्रच्छ तं मुनिम् ।। ४ ।।
धनार्थं ब्राह्मणा यान्ति राजानमिति युज्यते ।।
न त्वनापदि विद्यार्थं तं यान्तीह द्विजोत्तमाः ।। ५ ।।
नान्यत्र क्षत्र्रियाद्विद्या यत्र संभाव्यते क्वचित् ।।
उपसीदन्ति तत्रैव ब्राह्मणाः क्षत्र्रियान्सदा ।। ६ ।।
याज्ञवल्क्यस्य शिष्यत्वे ग्रन्थच्छायाऽपि नेष्यते ।।
जनकस्यैव शिष्यत्वे ग्रन्थच्छायोपलक्ष्यते ।। ७ ।।
अण्वन्तानिति शब्दोऽयं न स्यात्पशुविशेषणम् ।।
उभयं त्वित्यतः शेषाद्दूयं पृष्टमतो भवेत् ।। ८ ।।
तद्धेतुहेतुमत्त्वस्य प्रसिद्ध्यर्थमथावदत् ।।
इच्छाम्युभयमप्येतदित्येवं ह्यन्यथा वदेत् ।। ९ ।।
वाग्देवताऽग्निरत्र स्यात्तथाऽऽयतनमिन्द्रियम् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा च नामोपनिषदुच्यते ।। १० ।।
करणायतनान्देवान्स्वप्रतिष्ठान्व्रजेत्तु सः ।।
प्रज्ञाद्युपनिषत्कान्यो ध्यानाद्देवो भवेदिह ।। ११ ।।
देवतायतने चैव प्रतिष्ठोपनिषत्तथा ।।
षट्स्वप्येतेषु विज्ञेयमेतदेव चतुष्टयम् ।। १२ ।।
मातृमानिति हेतूक्तिः सम्यग्बक्तृत्वसिद्धये ।।
सम्यक्त्वप्रतिपत्त्यर्थं तथैव स्यात्परं वचः ।। १३ ।।
यस्मादवदतो लोके पुरुषार्थो न कश्चन ।।
दृष्टो वा यदि वाऽदृष्टो वाग्ब्रह्मातः प्रतीयताम् ।। १४ ।।
न चेदायतनाद्युक्तमेकपाद्ब्रह्म तर्हि तत् ।।
असमस्तमिदं ब्रह्म न युक्तं समुपासितुम् ।। १५ ।।
स त्वं जानंश्चतुष्पान्मे ब्रह्म व्याख्यातुमर्हसि ।।
वागेवाऽऽयतनमिति याज्ञवल्क्योऽप्युवाच तम् ।। १६ ।।
वागेवाऽऽयतनं तस्य वागेव करणं भवेत् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा स्यात्प्रज्ञाऽस्योपनिषत्तथा ।। १७ ।।
प्रज्ञेयं किं ततो भिन्ना प्रतिष्ठायतने यथा ।।
किंवाऽभिन्नेति मे ब्रूहि प्रज्ञोपनिषदं स्फुटम् ।। १८ ।।
स्वयमेव तु वाक्प्रज्ञा ब्रह्मणो न तु भिद्यते ।।
कुतः प्रज्ञात्वसंसिद्धिर्वाच इत्येतदुच्यते ।। १९ ।।
यत एवमतो वाचं परं ब्रह्मेति चिन्तयेत् ।।
विराङ्गृहीतिरत्र स्यात्साधारकरणग्रहात् ।। २० ।।
तथा देवतया सूत्रं नियन्ताऽपि वियद्गिरा ।।
कारणाद्यखिलं विश्वं देवतावधि भण्यते ।। २१ ।।
यतो वागाद्युपास्त्यत्र तस्मात्सर्वं विवक्षितम् ।।
एनं भूतानि सर्वाणीत्युपासनफलाभिधा ।। २२ ।।
देवो भूत्वेति देवान्हि प्रधानफलकीर्तनम् ।।
विद्वान्य एवमित्युक्त्या साध्यसाधनसंगतिः ।। २३ ।।
देवो भूत्वेति जीवन्सन्भावनोपचयान्नरः ।।
वैलक्षण्यमुपास्तीनां भण्यते ब्रह्मबोधतः ।। २४ ।।
तथैव वचसोक्तिः स्याद्देवो भूत्वेति संभवात् ।।
प्रतिवाक्यं बहूक्तिश्च षण्णामेकत्वसिद्धये ।। २५ ।।
प्रागपि ब्रह्मविज्ञानाद्ब्रह्मैवाभूद्यथा तथा ।।
देवोपासनतः पूर्वं नाभूद्देव उपासकः ।। २६ ।।
भावनोपचयाद्देवो भूत्वा विद्वानिहैव तु ।।
देवानप्येति सोऽग्न्यादीञ्शरीरत्यागतः परम् ।। २७ ।।
उत्पत्त्याद्यात्मकं कार्यं साध्यं सर्वस्य कर्मणः ।।
उपासनं च कर्मैव युक्तमुक्तमिदं ततः ।। २८ ।।
ब्रह्म वा इदमित्येवं तथा ब्रह्मैव सन्निति ।।
प्रागपि ब्रह्मविज्ञानात्सिद्धं तादात्म्यमुच्यते ।। २९ ।।
हस्त्यृषभमिति चोक्त्या भण्यते गुरुदक्षिणा ।।
स च तां नाग्रहीद्दत्तां पिता म इति हेतुगीः ।। ३० ।।
नन्वनुशिष्ट एवायं पूर्वोक्तैरनुशासनैः ।।
पितृव्रतोपरोधोऽत्र नातः कश्चन विद्यते ।। ३१ ।।
नाऽऽत्मविद्यातिरेकेण पितुर्वस्त्वन्तरे यतः ।।
असमाप्तेः पुमर्थस्य मतं नास्यानुशासनम् ।। ३२ ।।
यस्मिञ्ज्ञातेऽखिलं ज्ञातं कृतमाप्तं च कामितम् ।।
तित्यक्षितं च संत्यक्तं पितुस्तदनुशासनम् ।। ३३ ।।
यतो वस्त्वन्तरं नान्यदात्मनो विद्यते परम् ।।
सम्यक्तज्ज्ञानमेवातस्तदन्यत्र मृषा मतिः ।। ३४ ।।
आत्मज्ञानोदयायैव याज्ञवल्क्योऽप्यतोऽवदत् ।।
उपासनान्यशेषाणि तथा कर्माण्यशेषतः ।। ३५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य प्रथमं षडाचार्यब्राह्मणम्