अनुशिष्यापि स नृपं यदा नैच्छद्धनं नृपात् ।।
अननुशिष्टहेतूक्त्या मती राज्ञस्तदाऽभवत् ।। १ ।।
यथोक्ता नानुशिष्टिश्चेत्कीदृक्तदनुशासनम् ।।
संभावितानुशिष्ट्यर्थं तं राजोपससाद ह ।। २ ।।
उपासनानां सर्वेषामैकात्म्यज्ञाननिष्ठता ।।
ब्रह्मविद्याधिकारत्वादित्येतदधुनोत्यते ।। ३ ।।
कूर्चादुत्थाय विधिना तं राजोपससाद ह ।।
भगवन्ननुशाधीति यथेहाभिमतं तव ।। ४ ।।
यथा जिगमिषुः पान्थो रथंं वा नावमेव वा ।।
आददीताऽऽप्तिसिद्ध्यर्थं गन्तव्यस्य तथैव च ।। ५ ।।
यथोक्तोपनिषद्भिस्त्वं संस्कृतात्माऽसि भावितः ।।
एवं वृन्दारकः पूज्य आढ्यो मानुषवित्तवान् ।। ६ ।।
तथैवाधीतवेदश्च युक्तः साधनसंपदा ।।
गतिसाधनवत्त्वाच्च गन्तव्यमनुमीयते ।। ७ ।।
अध्यात्मादिव्यवच्छेदान्मुच्यमान उपासनैः ।।
आविरिञ्चादितो भूप यास्यसि क्वेति भण्यताम् ।। ८ ।।
पप्रच्छ याज्ञवल्क्योऽत इतस्त्वं क गमिष्यसि ।।
सर्वस्यैवाऽऽत्मभूतत्वाद्गन्तव्यं न स पश्यति ।। ९ ।।
ननूक्तोपनिषद्भिर्हि गन्तव्यं प्राक्प्रबोधितम् ।।
देवो भूत्वेति वचसा तत्कस्मादिह पृच्छयते ।। १० ।।
नाहं वेदेति च नृपो जानन्नप्यब्रवीत्कथम् ।।
नैष दोषो यतोऽप्राक्षीद्याज्ञवल्क्यो नराधिपम् ।। ११ ।।
पूर्वभूमेर्मुच्यमान उत्तरां कां गमिष्यसि ।।
देवतोपासनाद्येतज्ज्ञानोत्पत्त्यै विवक्षितम् ।। १२ ।।
उपासनानि सर्वाणि परविद्याधिकारतः ।।
क्रममुक्तिफलानीति क्व गमिष्यसिगीरतः ।। १३ ।।
राज्ञस्तु तदविज्ञानान्नाहं वेदेति युज्यते ।।
अन्ये गतिविवक्षार्थं मुनेः प्रश्नं प्रचक्षते ।। १४ ।।
साक्षाद्ब्रह्मविदप्येष नाऽऽत्माप्तौ गतिविन्नृपः ।।
परमात्मैव गन्तव्यः परमात्मविदा ननु ।।
अथ कः संशयो येन स तेनैवं नियुज्यते ।। १५ ।।
गतिर्न विदिता तस्य तां स तस्मै विवक्षति ।।
एवमर्थमुपोद्धातमेवं स कृतवान्मुनिः ।। १६ ।।
श्रुतौ यद्यपि नैतस्यां श्रूयते गतिचोदना ।।
तथाऽपि गतिरेवेयमुत्तरत्र स्फुटं हि तत् ।। १७ ।।
गतिविज्ञानवैकल्यात्परमात्मविदप्यसौ ।।
न जाने क्व गमिष्यामि कथं वेत्यब्रवीन्नृपः ।। १८ ।।
इति व्याचक्षते केचिन्द्रन्थमेतं महाधियः ।।
श्रुत्यक्षरानुसारेण नायमर्थोऽत्र लभ्यते ।। १९ ।।
ब्रह्मवित्त्वे तु राज्ञोऽस्य मितिं नोपलभामहे ।।
ग्रन्थे नानन्तरे यस्मादात्मज्ञानं समीरितम् ।। २० ।।
गत्यर्थो नापि च प्रश्नः क्व गमिष्यसिलक्षणः ।।
गन्तव्यं पृच्छ्यते यस्मान्न पिपृच्छिषिता गतिः ।। २१ ।।
यत्साक्षादित्युपक्रम्य य आत्मेत्युपसंहृतेः ।।
तदन्यस्य तदात्मत्वाद्ब्रह्मणि स्यात्कथं गतिः ।। २२ ।।
गतिगन्तव्यगन्त्रादेरोतप्रोतात्मवर्त्मना ।।
ब्रह्मात्मनि समाप्तत्वाद्गतिः का परमात्मनि ।। २३ ।।
अब्देशा पृथिवी कृत्स्ना तेजोदेशं तथा जलम् ।।
वायुदेशं तथा तेजो वियद्देशोऽनिलोऽखिलः ।। २४ ।।
स्वार्थदेशः परार्थोऽर्थः स्वप्नदर्शनवद्यतः ।।
आत्ममात्रैकयाथात्म्यान्न मुक्तौ स्याद्गतिस्ततः ।। २५ ।।
ब्रह्मैव सन्नवाप्नोति ब्रह्मोति वचनं स्फुटम् ।।
गन्तृगन्तव्ययोर्भेदे विरुध्येत न संशयः ।। २६ ।।
क्रियाकारकभेदे हि गतिः सर्वत्र दृश्यते ।।
गन्तव्य आत्मनि कुतः क्रियाकारकसंभवः ।। २७ ।।
नैवात्र गतिरस्तीति स्पष्टमागमशासनम् ।।
सर्वमात्मैव ब्रह्मैव तथाच श्रुतिशासनम् ।। २८ ।।
तमोमात्रातिरेकेण व्यवधानान्तरं न च ।।
यस्मादस्ति ततो मुक्तौ नाऽऽत्मनो गतिरिष्यते ।। २९ ।।
अध्यात्मादिपरिच्छेदाद्यथोक्तोपासनाश्रयात् ।।
विमुच्य़मानः केतस्त्वं गमिष्यसि वदाऽऽशु मे ।। ३० ।।
नाहं तद्भगवन्वेद यत्र यास्याम्यतः परम् ।।
देवतावर्त्मना नाहं गन्तव्यं वेद्मि किंचन ।। ३१ ।।
देवतावाप्तिमात्रं हि त्वत्तः प्राक्श्रुतवानहम् ।।
उक्तोपासाफलं नातो गन्तव्यं वेद्मि किंचन ।। ३२ ।।
इत्युक्तवन्तं प्रत्याह तद्वक्ष्यामि तवाधुना ।।
मुच्यमानोऽथ यत्र त्वं गमिष्यसि नराधिप ।। ३३ ।।
अविद्यामात्रविध्वस्तौ यतोऽनाप्तवदाप्यते ।।
गमिष्यसीत्यतो वक्ति स्वास्थ्यं यातो यथा तथा ।। ३४ ।।
अतोऽवगतिरेवात्र गतित्वेन विवक्ष्यते ।।
प्राप्तोऽसीति यतो ज्ञानजन्ममात्रं प्रवक्ष्यति ।। ३५ ।।
इन्धो नामैष पुरुषो दक्षिणेऽक्षणि यः स्थितः ।।
आदित्यान्तर्गतो देवो व्याख्यातायतनादिकः ।। ३६ ।।
इध्यतेऽहर्निशं यस्मादिन्धनामा ततः पुमान् ।।
श्रुत्येह दृष्टोऽतिशयः कश्चित्स्याद्दक्षिणोऽक्षणि ।। ३७ ।।
अङ्गं वा वीर्यवदृष्टं पुंसां प्रायेण दक्षिणम् ।।
दक्षिणाक्षिग्रहस्तस्माद्भोक्तृत्वप्रतिपत्तये ।। ३८ ।।
दक्षिणेऽक्ष्णीन्धनामाऽयंं पुमान्भोक्तेति यं विदुः ।।
इन्धं सन्तं तमात्मानमिन्द्रनाम्ना प्रचक्षते ।। ३९ ।।
प्रत्यक्षनामग्रहणं परिहृत्य परोक्षतः ।।
परोक्षनामग्रहणप्रिया देवा य़तस्ततः ।। ४० ।।
परोक्षनामग्रहणे प्रीयन्ते देवता यतः ।।
तस्मादाचक्षते नाम पारोक्ष्येणैव मानवाः ।। ४१ ।।
मा ज्ञासिष्ट कथं नाम नामतत्त्वं बहिर्जनः ।।
परोक्षनामग्रहणं तेन देवस्य रोचते ।। ४२ ।।
प्रत्यक्षनामग्रहणं प्रद्विषन्ति जगत्यपि ।।
श्रेयांसोऽमुकमिश्रास्त इत्युक्तिं कामयन्ति च ।। ४३ ।।
तस्यैवान्नपतेर्जाया येयं सव्येऽक्ष्णि संस्थिता ।।
भोग्यत्वात्सा विराडुक्ता तद्भोक्ता दक्षिणाक्षिगः ।। ४४ ।।
एकस्यैव हि देवस्य विभागः स्थानदेवतः ।।
अग्नीषोमात्मना श्रुत्या ध्यानार्थमिह भण्यते ।। ४५ ।।
नानयोर्व्यतिरेकोऽस्ति भोक्तृभोग्यात्मनोः क्वचित् ।।
प्रधानगुणभावेन सर्वत्रैते व्यवस्थिते ।। ४६ ।।
तयोः समागमश्चास्मिन्हृद्यन्तस्थे सुषौ मिथः ।।
संस्तुतोऽत्रेति संस्तावो हृद्याकाश इहोच्यते ।। ४७ ।।
ऊर्ग्रसो लोहितस्यात्र पिण्डो यः सोऽन्नमेतयोः ।।
अन्नं दामेति यत्पूर्वं व्याख्यातं शिशुबन्धनम् ।। ४८ ।।
मिथो नाडीशतानद्धं तयोः प्रावरणं तथा ।।
तज्जालकमिवाऽऽभाति बहुच्छिद्रत्वसाम्यतः ।। ४९ ।।
तयोः संचरतोर्मार्गो यैषोर्ध्वा हृदयाद्गता ।।
जाग्रद्देशाप्तये ज्ञेया नाडी स्वप्नाख्यभूमितः ।। ५० ।।
अन्नस्य प्रविवेकार्थं भोक्तुः सौक्ष्म्यार्थमेव च ।।
नाडीनां परिणाहोऽथ सम्यक्श्रुत्येह वर्ण्यते ।। ५१ ।।
नाड्योऽतिसूक्ष्माः पुसोऽस्य व्यवहारप्रसिद्धये ।।
सहस्रभेदसंभिन्नकेशैकाशसमा हिताः ।। ५२ ।।
नोपमेह यतस्तासां सौक्ष्म्ये जगति विद्यते ।।
तस्मात्केशविभागोऽयं नाडीसौक्ष्म्यार्थमुच्यते ।। ५३ ।।
यथा संचरणी नाडी प्रोक्तेयं देवतात्मनोः ।।
देवतानां तथाऽन्यासां नाड्यो ज्ञेयाः सहस्रशः ।। ५४ ।।
शब्दाद्यन्नवहाः सूक्ष्माः श्रोत्रादिकरणाश्रयाः ।।
देवता देवतात्मानं तर्पयन्तीद्द ताः सदा ।। ५५ ।।
अतिसूक्ष्माभिरेताभिर्जग्धमन्न समास्रवत् ।।
देवता आस्रवत्येतद्व्याप्नोत्येतद्यथोदितम् ।। ५६ ।।
सर्वास्वेव हितास्वासु सर्वा अध्यात्मदेवताः ।।
चरन्त्यूर्ग्रसपूर्णासु भोगार्थे पुरुषस्य तु ।। ५७ ।।
स्वचिदाभाससंव्याप्तिः पुंभोगः सुखदुःखयोः ।।
सोऽप्यस्य देवतातन्त्रो देवताश्चान्नसंश्रयाः ।। ५८ ।।
अन्नं नाड्याश्रयं सूक्ष्मं तच्छ्रुत्येहोपवर्ण्यते ।।
एताभिरित्यतो यावच्छारीरादिति चोदना ।। ५९ ।।
प्रविविक्ततरोऽन्नंशस्तर्पयन्प्राणदेवताः ।।
प्राप्नोति लिङ्गमाहारः स तस्येत्यभिधीयते ।। ६० ।।
चीयमानादितो देहाद्रसाद्यन्नेन भौतिकात् ।।
प्रविविक्ततराहारो लिङ्गात्माऽयं पुरोदितात् ।। ६१ ।।
रसादिः प्रविविक्तः स्यात्पुरीषदिव्यपेक्षया ।।
रसादेरपि सूक्ष्मोऽयमाहारो लिङ्गतृप्तिकृत् ।। ६२ ।।
यत एवमतः प्राह तल्लिङ्गं स्थूलदेहतः ।।
प्रविविक्ततराहारं श्रुतिः सूक्ष्मान्नसंस्थितेः ।। ६३ ।।
यतोऽतिसूक्ष्मो लिङ्गात्मा नातोऽयं स्थूलदेहवत् ।।
देहाद्देहान्तरं गच्छन्केनचित्प्रतिहन्यते ।। ६४ ।।
इवेत्यनर्थकं केचिदेवार्थेन विरोधतः ।।
एवार्थस्योपमामन्य इवार्थे चावधारणम् ।। ६५ ।।
लिङ्गाहारादप्यणीयान्यतः प्राज्ञात्मनस्ततः ।।
उपमार्थमिवेत्येतत्पदमत्र प्रयुज्यते ।। ६६ ।।
कदम्बपुष्पवत्सैषा देवता हृदयाश्रया ।।
बहिर्गतासु नाडीषु विषक्ता हृदयादधि ।। ६७ ।।
यथेयं देवता सर्वास्तथाऽन्या अपि देवताः ।।
साधारणत्वात्सर्वासां कारप्यस्य करणस्य च ।। ६८ ।।
तत्रैकस्या यदा कार्यं दृष्ट्यादि स्यादुपस्थितम् ।।
गुणभावं तदा यान्ति सर्वास्तां प्रति देवताः ।। ६९ ।।
नाड्यन्तरेष्वपि तथा सर्वासां संहतत्वतः ।।
एष एव क्रमो ज्ञेयः प्राधान्यगुणभावयोः ।। ७० ।।
एवं च सति यावत्यो नाड्यो हृदयबन्धनाः ।।
संवत्सराश्च तावन्तस्ते प्रजापतयोऽग्नयः ।। ७१ ।।
प्रतिभागं समाप्तत्वात्पूर्वोक्तस्येह वस्तुनः ।।
देवताऽतो यथाऽध्यात्ममधिभूतं तथैव सा ।। ७२ ।।
अधिदैवं च विभ्वीयं द्वैतैकत्वेन विष्ठिता ।।
यथाऽस्य नाड्यः पुंसः स्युरध्यात्मं सर्वतो गताः ।। ७३ ।।
अधिभूतः तथाऽस्यैव वायुमय्यः समन्तगाः ।।
एतस्मादेव निःसृत्य शरीरात्सर्वतो गताः ।। ७४ ।।
अधिभूतात्मनैवायं नाडीलक्षणवर्त्मना ।।
आपूर्येदं जगत्सर्वं स्थित आध्यात्मिकः पुमान् ।। ७५ ।।
नाड्य आध्यात्मिकस्येव ह्यधिदैवात्मनस्तथा ।।
विराजो रश्मयो ज्ञेयाः प्रत्यंशावसितास्तथा ।। ७६ ।।
आध्यात्मिकस्येव पुंसः कृत्स्नाऽध्यात्माधिभूतय़ोः ।।
अनन्तभिन्नकार्येषु समाप्तिर्देवतात्मनः ।। ७७ ।।
आध्यात्मिकं परिच्छेदमुक्तदर्शनवर्त्मना ।।
देवतासूपसंहृत्य विराज्यपि च देवताः ।। ७८ ।।
विराजं चोपसंहृत्य प्राणविज्ञानविग्रहे ।।
हिरण्यगर्भे तं चापि सर्वकारण आत्मनि ।। ७९ ।।
अध्यात्मदेवताः सर्वा हृदि नीत्वाऽऽत्मनस्ततः ।।
हृदयादुक्तनाडीभिः संदध्यात्सूर्यरश्मिभिः ।। ८० ।।
रविहृन्मध्यगं यायात्ततो रश्मिभिरावृतः ।।
हिरण्यगर्भमात्मानं ततस्तत्कारणं बुधः ।। ८१ ।।
वैश्वानरात्तदात्मानं प्राप्तस्य हृदि तैजसम् ।।
हिरण्यगर्भं तं चापि प्राणात्मन्युपसंहरेतु ।। ८२ ।।
प्राणशब्देन चाप्यत्र कारणात्माऽभिधीयते ।।
बीजं कार्यस्य सर्वस्य प्राज्ञश्चेति निरुच्यते ।। ८३ ।।
कार्याणां कारणं मुक्त्वा नान्यत्रास्त्यप्ययो यतः ।।
तस्मात्कारणसंप्राप्त्या यायान्नेतीत्यकारणम् ।। ८४ ।।
साश्रयैः करणैर्हीनो ग्रस्ताध्यात्माधिदैवतः ।।
प्राणात्मा एक एवाऽऽस्ते प्रज्ञानघनविग्रहः ।। ८५ ।।
निर्विभागात्मनस्तस्य प्राञ्चः प्राणाः पुराऽस्य ये ।।
प्राची दिगेव संवृत्तास्तदवच्छेदहानतः ।। ८६ ।।
दक्षिणा दक्षिणे प्राणाः प्रत्यञ्चश्चापि पश्चिमाः ।।
उदीची दिगुदञ्चश्च सर्वे सर्वा दिशस्तथा ।। ८७ ।।
यत्साक्षिकी तमःसिद्धिस्तत्कार्यस्य च लक्ष्यते ।।
तद्भावाभावयोरात्मा न कार्यं नापि कारणम् ।। ८८ ।।
तेनैव ज्ञात्मनाऽशेषं तद्ध्वान्तं ध्वान्तजं तथा ।।
जग्ध्वा नित्यात्मना विद्वान्पूर्णदृष्ट्याऽवशिष्यते ।। ८९ ।।
एष मार्ग उपन्यस्त ऐकात्म्यज्ञानजन्मने ।।
न त्वर्चिरादिवत्तस्य प्राप्तये गतिकल्पना ।। ९० ।।
आत्मत्वादाप्ततत्त्वोऽयं न देशाद्यन्तरायवान् ।।
ज्ञानं मुक्त्वा ततः प्राप्तौ नान्यत्किंचिदपेक्षते ।। ९१ ।।
प्रत्याय्यैवं परात्मानं मुनिराह नराधिपम् ।।
प्राप्तोऽस्यभयमित्येवं भयहेतुविनाशतः ।। ९२ ।।
भयहेतुरविद्यैव सा च दुःस्थितसिद्धिका ।।
प्रागप्यैकात्म्यविज्ञानादविचारितसिद्धिका ।। ९३ ।।
यतोऽतः प्रत्याग्याथात्म्यभास्वद्विज्ञानभास्कर -
प्रसतिमात्रादेवास्या ध्वस्तिरात्यन्तिकी भवेत् ।। ९४ ।।
प्राप्तोऽसीति च निर्देशाज्ज्ञानमेवाऽऽत्मनो गतिः ।।
ज्ञानादन्या गतिश्चेत्स्यात्प्राप्स्यसीत्येव तं वदेत् ।। ९५ ।।
ज्ञानतुल्याममन्वानो दक्षिणां गुरवे नृपः ।।
अभयं त्वामिति प्राह याज्ञवल्क्यं स पार्थिवः ।। ९६ ।।
उचिता दक्षिणैषैव योक्तेहाभयलक्षणा ।।
सम्यग्ज्ञानाख्यदानस्य तदन्या संसृतिर्यतः ।। ९७ ।।
यच्चाभयं वेदयस इति प्रत्यूचिवान्नृपः ।।
तत्तमोध्वस्तितः कार्यं नान्यदस्तीति लिङ्ग्यते ।। ९८ ।।
अभयस्य प्रदातृत्वान्नन्ववाप्ताभयो गुरुः ।।
अभयं त्वामिति कथं राज्ञाऽऽशीस्तं प्रतीर्यते ।। ९९ ।।
इत्यस्य परिहारोक्तिं केचिदाचक्षते बुधाः ।।
शब्दादवाप्तमभयं न तु साक्षाच्चकार तत् ।। १०० ।।
साक्षात्करणसिद्ध्यर्थमतो राजाऽब्रवीन्मुनिम् ।।
अभयं त्वामिति वचस्तद्ध्यस्याप्राप्तमुच्यते ।। १०१ ।।
यदि वा द्विविधो मोक्षो जीवत्येव शरीरके ।।
एकः साक्षात्कृतब्रह्मा मृतेरूर्ध्वं च तल्लयः ।। १०२ ।।
एवं परिजिहीर्षन्ति न तु न्यायोक्तिरीदृशी ।।
प्राप्तोऽसीति मुनेरुक्तेः परिहारो न युज्यते ।। १०३ ।।
तज्ज्ञानमात्रमेवोकत्वा प्राप्तोऽसीति यतोऽवदत् ।।
तत्साक्षात्करणान्नान्यस्तल्लयो वाऽत इष्यते ।। १०४ ।।
शाब्दविज्ञानमात्रेण नाऽऽचार्यत्वे नियुज्यते ।।
श्रोत्रियं ब्रह्मनिष्ठं च गुरुं यायादिति श्रुतेः ।। १०५ ।।
अभयं वेदयसीत्येतन्न चासाश्रात्कृते परे ।।
शाब्दमात्रपरिज्ञाने राज्ञोे युक्तं प्रभाषितुम् ।। १०६ ।।
असाधारणधर्मोत्थं विज्ञानं वस्तुनि प्रमा ।।
शब्दमात्रप्रमोत्थं तु न मानं वस्त्वसंश्रयात् ।। १०७ ।।
साक्षात्कृतैकतत्त्वस्याप्यैकात्म्यप्रलयं प्रति ।।
किं समाशङ्क्यते येन तदाशीः संप्रयुज्यते ।। १०८ ।।
ज्ञानानुरूपामेवातो दक्षिणां दित्सुरब्रवीत् ।।
अभयं त्वामिति नृपो यथोक्तज्ञानलिङ्गनम् ।। १०९ ।।
साक्षाज्ज्ञानातिरेकेण नालमन्यद्विमुक्तये ।।
यथा तथाऽसकृत्पूर्वमवोचाम पदे पदे ।। ११० ।।
भवानप्यहमेवेति यदा साक्षाद्विनिश्चयः ।।
विदेहादि तदा विश्वं त्वत्तः कस्येति कथ्यताम् ।। १११ ।।
ममेव भवतोऽपीदं न च किंचिदसंगतम् ।।
अभावाच्च त्वदन्यस्य सर्वमात्मेति शासनात् । ११२ ।।
अहं ममेत्यविद्याधीः सहेतुर्नाशिता यदा ।।
पूर्णात्मनि तदा दृष्टे कः कस्मै किं प्रदित्सति ।। ११३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य द्वितायं कूर्चब्राह्मणम्