बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
स यत्रायमात्मा । संसारोपवर्णनं प्रस्तुतम् ; ‘तत्रायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य’ (बृ. उ. ४ । ३ । ३६) इत्युक्तम् । तत्सम्प्रमोक्षणं कस्मिन्काले कथं वेति सविस्तरं संसरणं वर्णयितव्यमित्यारभ्यते —
स यत्रायमात्माबल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति ॥ १ ॥
सोऽयम् आत्मा प्रस्तुतः, यत्र यस्मिन्काले, अबल्यम् अबलभावम् , नि एत्य गत्वा — यत् देहस्य दौर्बल्यम् , तत् आत्मन एव दौर्बल्यमित्युपचर्यते ‘अबल्यं न्येत्य’ इति ; न ह्यसौ स्वतः अमूर्तत्वात् अबलभावं गच्छति — तथा सम्मोहमिव सम्मूढता सम्मोहः विवेकाभावः सम्मूढतामिव न्येति निगच्छति ; न चास्य स्वतः सम्मोहः असम्मोहो वा अस्ति, नित्यचैतन्यज्योतिःस्वभावत्वात् ; तेन इवशब्दः — सम्मोहमिव न्येतीति ; उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीभावः आत्मन इव लक्ष्यते लौकिकैः ; तथा च वक्तारो भवन्ति — सम्मूढः सम्मूढोऽयमिति । अथ वा उभयत्र इवशब्दप्रयोगो योज्यः — अबल्यमिव न्येत्य सम्मोहमिव न्येतीति, उभयस्य परोपाधिनिमित्तत्वाविशेषात् , समानकर्तृकनिर्देशाच्च । अथ अस्मिन्काले एते प्राणाः वागादयः एनमात्मानमभिसमायन्ति ; तदा अस्य शारीरस्यात्मनः अङ्गेभ्यः सम्प्रमोक्षणम् । कथं पुनः सम्प्रमोक्षणम् , केन वा प्रकारेण आत्मानमभिसमायन्तीत्युच्यते — सः आत्मा, एतास्तेजोमात्राः तेजसो मात्राः तेजोमात्राः तेजोवयवाः रूपादिप्रकाशकत्वात् , चक्षुरादीनि करणानीत्यर्थः, ता एताः समभ्याददानः सम्यक् निर्लेपेन अभ्याददानः आभिमुख्येन आददानः संहरमाणः ; तत् स्वप्नापेक्षया विशेषणं ‘सम्’ इति ; न तु स्वप्ने निर्लेपेन सम्यगादानम् ; अस्ति तु आदानमात्रम् ; ‘गृहीता वाक् गृहीतं चक्षुः’ (बृ. उ. २ । १ । १७) ‘अस्य लोकस्य सर्वावतो मात्रामपादाय’ (बृ. उ. ४ । ३ । ९) ‘शुक्रमादाय’ (बृ. उ. ४ । ३ । ११) इत्यादिवाक्येभ्यः । हृदयमेव पुण्डरीकाकाशम् अन्ववक्रामति अन्वागच्छति, हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थः — बुद्ध्यादिविक्षेपोपसंहारे सति ; न हि तस्य स्वतश्चलनं विक्षेपोपसंहारादिविक्रिया वा, ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । २) इत्युक्तत्वात् ; बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रिया अध्यारोप्यते तस्मिन् । कदा पुनः तस्य तेजोमात्राभ्यादानमित्युच्यते — सः यत्र एषः, चक्षुषि भवः चाक्षुषः पुरुषः आदित्यांशः भोक्तुः कर्मणा प्रयुक्तः यावद्देहधारणं तावत् चक्षुषोऽनुग्रहं कुर्वन् वर्तते ; मरणकाले तु अस्य चक्षुरनुग्रहं परित्यजति, स्वम् आदित्यात्मानं प्रतिपद्यते ; तदेतदुक्तम् — ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्’ (बृ. उ. ३ । २ । १३) इत्यादि ; पुनः देहग्रहणकाले संश्रयिष्यन्ति ; तथा स्वप्स्यतः प्रबुध्यतश्च ; तदेतदाह — चाक्षुषः पुरुषः यत्र यस्मिन्काले, पराङ् पर्यावर्तते — परि समन्तात् पराङ् व्यावर्तते इति ; अथ अत्र अस्मिन्काले अरूपज्ञो भवति, मुमूर्षुः रूपं न जानाति ; तदा अयमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति, स्वप्नकाल इव ॥
एकी भवति न पश्यतीत्याहुरेकी भवति न जिघ्रतीत्याहुरेकी भवति न रसयत इत्याहुरेकी भवति न वदतीत्याहुरेकी भवति न शृणोतीत्याहुरेकी भवति न मनुत इत्याहुरेकी भवति न स्पृशतीत्याहुरेकी भवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ २ ॥
एकी भवति करणजातं स्वेन लिङ्गात्मना, तदा एनं पार्श्वस्था आहुः — पश्यतीति ; तथा घ्राणदेवतानिवृत्तौ घ्राणमेकी भवति लिङ्गात्मना, तदा न जिघ्रतीत्याहुः । समानमन्यत् । जिह्वायां सोमो वरुणो वा देवता, तन्निवृत्त्यपेक्षया न रसयते इत्याहुः । तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुः । तदा उपलक्ष्यते देवतानिवृत्तिः, करणानां च हृदय एकीभावः । तत्र हृदये उपसंहृतेषु करणेषु योऽन्तर्व्यापारः स कथ्यते — तस्य ह एतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत् , अग्रम् नाडीमुखं निर्गमनद्वारम् , प्रद्योतते, स्वप्नकाल इव, स्वेन भासा तेजोमात्रादानकृतेन, स्वेनैव ज्योतिषा आत्मनैव च ; तेन आत्मज्योतिषा प्रद्योतेन हृदयाग्रेण एष आत्मा विज्ञानमयो लिङ्गोपाधिः निर्गच्छति निष्क्रामति । तथा आथर्वणे ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत’ (प्र. उ. ६ । ३) इति । तत्र च आत्मचैतन्यज्योतिः सर्वदा अभिव्यक्ततरम् ; तदुपाधिद्वारा हि आत्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारः ; तदात्मकं हि द्वादशविधं करणं बुद्ध्यादि, तत् सूत्रम् , तत् जीवनम् , सोऽन्तरात्मा जगतः तस्थुषश्च । तेन प्रद्योतेन हृदयाग्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीत्युच्यते — चक्षुष्टो वा, आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात् ; मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत् ; अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यः यथाकर्म यथाश्रुतम् । तं विज्ञानात्मानम् , उत्क्रामन्तम् परलोकाय प्रस्थितम् , परलोकाय उद्भूताकूतमित्यर्थः, प्राणः सर्वाधिकारिस्थानीयः राज्ञ इव अनूत्क्रामति ; तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे प्राणा अनूत्क्रामन्ति । यथाप्रधानान्वाचिख्यासा इयम् , न तु क्रमेण सार्थवत् गमनम् इह विवक्षितम् । तदा एष आत्मा सविज्ञानो भवति स्वप्न इव विशेषविज्ञानवान् भवति कर्मवशात् , न स्वतन्त्रः ; स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात् ; नैव तु तत् लभ्यते ; अत एवाह व्यासः — ‘सदा तद्भावभावितः’ (भ. गी. ८ । ६) इति ; कर्मणा तु उद्भाव्यमानेन अन्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्वो लोकः एतस्मिन्काले सविज्ञानो भवति ; सविज्ञानमेव च गन्तव्यम् अन्ववक्रामति अनुगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः । तस्मात् तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनम् परिसङ्ख्यानाभ्यासश्च विशिष्टपुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिः अप्रमत्तैः कर्तव्य इति । सर्वशास्त्राणां यत्नतो विधेयोऽर्थः — दुश्चरिताच्च उपरमणम् । न हि तत्काले शक्यते किञ्चित्सम्पादयितुम् , कर्मणा नीयमानस्य स्वातन्त्र्याभावात् । ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (बृ. उ. ३ । २ । १३) इत्युक्तम् । एतस्य ह्यनर्थस्य उपशमोपायविधानाय सर्वशाखोपनिषदः प्रवृत्ताः । न हि तद्विहितोपायानुसेवनं मुक्त्वा आत्यन्तिकः अस्य अनर्थस्य उपशमोपायः अस्ति । तस्मात् अत्रैव उपनिषद्विहितोपाये यत्नपरैर्भवितव्यम् — इत्येष प्रकरणार्थः ॥
शकटवत्सम्भृतसम्भार उत्सर्जन्यातीत्युक्तम् , किं पुनः तस्य परलोकाय प्रवृत्तस्य पथ्यदनं शाकटिकसम्भारस्थानीयम् , गत्वा वा परलोकं यत् भुङ्क्ते, शरीराद्यारम्भकं च यत् तत्किम् इत्युच्यते — तं परलोकाय गच्छन्तमात्मानम् , विद्याकर्मणी — विद्या च कर्म च विद्याकर्मणी विद्या सर्वप्रकारा विहिता प्रतिषिद्धा च अविहिता अप्रतिषिद्धा च, तथा कर्म विहितं प्रतिषिद्धं च अविहितमप्रतिषिद्धं च, समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः ; पूर्वप्रज्ञा च — पूर्वानुभूतविषया प्रज्ञा पूर्वप्रज्ञा अतीतकर्मफलानुभववासनेत्यर्थः ; सा च वासना अपूर्वकर्मारम्भे कर्मविपाके च अङ्गं भवति ; तेन असावपि अन्वारभते ; न हि तया वासनया विना कर्म कर्तुं फलं च उपभोक्तुं शक्यते ; न हि अनभ्यस्ते विषये कौशलम् इन्द्रियाणां भवति ; पूर्वानुभववासनाप्रवृत्तानां तु इन्द्रियाणाम् इह अभ्यासमन्तरेण कौशलमुपपद्यते ; दृश्यते च केषाञ्चित् कासुचित्क्रियासु चित्रकर्मादिलक्षणासु विनैव इह अभ्यासेन जन्मत एव कौशलम् , कासुचित् अत्यन्तसौकर्ययुक्तास्वपि अकौशलं केषाञ्चित् ; तथा विषयोपभोगेषु स्वभावत एव केषाञ्चित् कौशलाकौशले दृश्येते ; तच्च एतत्सर्वं पूर्वप्रज्ञोद्भवानुद्भवनिमित्तम् ; तेन पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्यचित् प्रवृत्तिरुपपद्यते । तस्मात् एतत् त्रयं शाकटिकसम्भारस्थानीयं परलोकपथ्यदनं विद्याकर्मपूर्वप्रज्ञाख्यम् । यस्मात् विद्याकर्मणी पूर्वप्रज्ञा च देहान्तरप्रतिपत्त्युपभोगसाधनम् , तस्मात् विद्याकर्मादि शुभमेव समाचरेत् , यथा इष्टदेहसंयोगोपभोगौ स्याताम् — इति प्रकरणार्थः ॥
एवं विद्यादिसम्भारसम्भृतो देहान्तरं प्रतिपद्यमानः, मुक्त्वा पूर्वं देहम् , पक्षीव वृक्षान्तरम् , देहान्तरं प्रतिपद्यते ; अथवा आतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते । किञ्चात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवति, आहोस्वित् शरीरस्थस्य सङ्कुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत् सर्वतो व्याप्य पुनः देहान्तरारम्भे सङ्कोचमुपगच्छन्ति — किञ्च मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रति गच्छति, किं वा कल्पनान्तरमेव वेदान्तसमये — इत्युच्यते — ‘त एते सर्व एव समाः सर्वेऽनन्ताः’ (बृ. उ. १ । ५ । १३) इति श्रुतः सर्वात्मकानि तावत्करणानि, सर्वात्मकप्राणसंश्रयाच्च ; तेषाम् आध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनानिमित्तः ; अतः तद्वशात् स्वभावतः सर्वगतानामनन्तानामपि प्राणानां कर्मज्ञानवासनानुरूपेणैव देहान्तरारम्भवशात् प्राणानां वृत्तिः सङ्कुचति विकसति च ; तथा चोक्तम् ‘समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण’ (बृ. उ. १ । ३ । २२) इति ; तथा च इदं वचनमनुकूलम् — ‘स यो हैताननन्तानुपास्ते’ (बृ. उ. १ । ५ । १३) इत्यादि, ‘तं यथा यथोपासते’ इति च । तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकावत् सन्ततैव स्वप्नकाल इव कर्मकृतं देहाद्देहान्तरम् आरभते हृदयस्थैव ; पुनर्देहान्तरारम्भे देहान्तरं पूर्वाश्रयं विमुञ्चति — इत्येतस्मिन्नर्थे दृष्टान्त उपादीयते —
तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसं हरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसं हरति ॥ ३ ॥
तत् तत्र देहान्तरसञ्चारे इदं निदर्शनम् — यथा येन प्रकारेण तृणजलायुका तृणजलूका तृणस्य अन्तम् अवसानम् , गत्वा प्राप्य, अन्यं तृणान्तरम् , आक्रमम् — आक्रम्यत इत्याक्रमः — तमाक्रमम् , आक्रम्य आश्रित्य, आत्मानम् आत्मनः पूर्वावयवम् उपसंहरति अन्त्यावयवस्थाने ; एवमेव अयमात्मा यः प्रकृतः संसारी इदं शरीरं पूर्वोपात्तम् , निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वा अविद्यां गमयित्वा अचेतनं कृत्वा स्वात्मोपसंहारेण, अन्यम् आक्रमम् तृणान्तरमिव तृणजलूका शरीरान्तरम् , गृहीत्वा प्रसारितया वासनया, आत्मानमुपसंहरति, तत्र आत्मभावमारभते — यथा स्वप्ने देहान्तरस्थ एव शरीरारम्भदेशे — आरभ्यमाणे देहे जङ्गमे स्थावरे वा । तत्र च कर्मवशात् करणानि लब्धवृत्तीनि संहन्यन्ते ; बाह्यं च कुशमृत्तिकास्थानीयं शरीरमारभ्यते ; तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहाय अग्न्यादिदेवताः संश्रयन्ते । एष देहान्तरारम्भविधिः ॥
तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उपमृद्य देहान्तरमारभते, आहोस्वित् अपूर्वमेव पुनः पुनरादत्ते — इत्यत्र उच्यते दृष्ठान्तः —
तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ४ ॥
तत् तत्र एतस्मिन्नर्थे, यथा पेशस्कारी — पेशः सुवर्णम् तत् करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्राम् , अप आदाय अपच्छिद्य गृहीत्वा, अन्यत् पूर्वस्मात् रचनाविशेषात् नवतरम् अभिनवतरम् , कल्याणात् कल्याणतरम् , रूपं तनुते निर्मिनोति ; एवमेवायमात्मेत्यादि पूर्ववत् । नित्योपात्तान्येव पृथिव्यादीनि आकाशान्तानि पञ्च भूतानि यानि ‘द्वे वाव ब्रह्मणो रूपे’ (बृ. उ. २ । ३ । १) इति चतुर्थे व्याख्यातानि, पेशःस्थानीयानि तान्येव उपमृद्य, उपमृद्य, अन्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषम् , देहान्तरमित्यर्थः, कुरुते — पित्र्यं वा पितृभ्यो हितम् , पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम् , तथा देवानां दैवम् , प्रजापतेः प्राजापत्यम् , ब्रह्मण इदं ब्राह्मं वा, यथाकर्म यथाश्रुतम् , अन्येषां वा भूतानां सम्बन्धि — शरीरान्तरं कुरुते इत्यभिसम्बध्यते ॥
ये अस्य बन्धनसंज्ञकाः उपाधिभूताः, यैः संयुक्तः तन्मयोऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्य इह एकत्र प्रतिनिर्दिश्यन्ते —
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५ ॥
सः वै अयम् यः एवं संसरति आत्मा — ब्रह्मैव पर एव, यः अशनायाद्यतीतः ; विज्ञानमयः — विज्ञानं बुद्धिः, तेन उपलक्ष्यमाणः, तन्मयः ; ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ३ । ७) इति हि उक्तम् ; विज्ञानमयः विज्ञानप्रायः, यस्मात् तद्धर्मत्वमस्य विभाव्यते — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति ; तथा मनोमयः मनःसन्निकर्षान्मनोमयः ; तथा प्राणमयः, प्राणः पञ्चवृत्तिः तन्मयः, येन चेतनः चलतीव लक्ष्यते ; तथा चक्षुर्मयः रूपदर्शनकाले ; एवं श्रोत्रमयः शब्दश्रवणकाले । एवं तस्य तस्य इन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति । एवं बुद्धिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादिभूतमयो भवति ; तत्र पार्थिवशरीरारम्भे पृथिवीमयो भवति ; तथा वरुणादिलोकेषु आप्यशरीरारम्भे आपोमयो भवति ; तथा वायव्यशरीरारम्भे वायुमयो भवति ; तथा आकाशशरीरारम्भे आकाशमयो भवति ; एवम् एतानि तैजसानि देवशरीराणि ; तेष्वारभ्यमाणेषु तन्मयः तेजोमयो भवति । अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि च अतेजोमयानि ; तान्यपेक्ष्य आह — अतेजोमय इति । एवं कार्यकरणसङ्घातमयः सन् आत्मा प्राप्तव्यं वस्त्वन्तरं पश्यन् — इदं मया प्राप्तम् , अदो मया प्राप्तव्यम् — इत्येवं विपरीतप्रत्ययः तदभिलाषः काममयो भवति । तस्मिन्कामे दोषं पश्यतः तद्विषयाभिलाषप्रशमे चित्तं प्रसन्नम् अकलुषं शान्तं भवति, तन्मयः अकाममयः । एवं तस्मिन्विहते कामे केनचित् , सकामः क्रोधत्वेन परिणमते, तेन तन्मयो भवन् क्रोधमयः । स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति, तदा प्रसन्नम् अनाकुलं चित्तं सत् अक्रोध उच्यते, तेन तन्मयः । एवं कामक्रोधाभ्याम् अकामक्रोधाभ्यां च तन्मयो भूत्वा, धर्ममयः अधर्ममयश्च भवति ; न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते, ‘यद्यद्धि कुरुते कर्म तत्तत्कामस्य चेष्टितम्’ (मनु. २ । ४) इति स्मरणात् । धर्ममयः अधर्ममयश्च भूत्वा सर्वमयो भवति — समस्तं धर्माधर्मयोः कार्यम् , यावत्किञ्चिद्व्याकृतम् , तत्सर्वं धर्माधर्मयोः फलम् , तत् प्रतिपद्यमानः तन्मयो भवति । किं बहुना, तदेतत् सिद्धमस्य — यत् अयम् इदम्मयः गृह्यमाणविषयादिमयः, तस्मात् अयम् अदोमयः ; अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते ; अनन्ता हि अन्तःकरणे भावनाविशेषाः ; नैव ते विशेषतो निर्देष्टुं शक्यन्ते ; तस्मिन्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते — इदमस्य हृदि वर्तते, अदः अस्येति ; तेन गृह्यमाणकार्येण इदम्मयतया निर्दिश्यते परोक्षः अन्तःस्थो व्यवहारः — अयमिदानीमदोमय इति । सङ्क्षेपतस्तु यथा कर्तुं यथा वा चरितुं शीलमस्य सोऽयं यथाकारी यथाचारी, सः तथा भवति ; करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या, चरणं नाम अनियतमिति विशेषः । साधुकारी साधुर्भवतीति यथाकारीत्यस्य विशेषणम् ; पापकारी पापो भवतीति च यथाचारीत्यस्य । ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्यतैव तन्मयत्वम् , न तु तत्कर्ममात्रेण — इत्याशङ्क्याह — पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति ; पुण्यपापकर्ममात्रेणैव तन्मयता स्यात् , न तु ताच्छील्यमपेक्षते ; ताच्छील्ये तु तन्मयत्वातिशय इत्ययं विशेषः । तत्र कामक्रोधादिपूर्वकपुण्यापुण्यकारिता सर्वमयत्वे हेतुः, संसारस्य कारणम् , देहात् देहान्तरसञ्चारस्य च ; एतत्प्रयुक्तो हि अन्यदन्यद्देहान्तरमुपादत्ते ; तस्मात् पुण्यापुण्ये संसारस्य कारणम् ; एतद्विषयौ हि विधिप्रतिषेधौ ; अत्र शास्त्रस्य साफल्यमिति ॥
अथो अपि अन्ये बन्धमोक्षकुशलाः खलु आहुः — सत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणम् ; तथापि कामप्रयुक्तो हि पुरुषः पुण्यापुण्ये कर्मणी उपचिनोति ; कामप्रहाणे तु कर्म विद्यमानमपि पुण्यापुण्योपचयकरं न भवति ; उपचिते अपि पुण्यापुण्ये कर्मणी कामशून्ये फलारम्भके न भवतः ; तस्मात् काम एव संसारस्य मूलम् । तथा चोक्तमाथर्वणे — ‘कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र’ (मु. उ. ३ । २ । २) इति । तस्मात् काममय एवायं पुरुषः, यत् अन्यमयत्वं तत् अकारणं विद्यमानमपि — इत्यतः अवधारयति ‘काममय एव’ इति । यस्मात् स च काममयः सन् यादृशेन कामेन यथाकामो भवति, तत्क्रतुर्भवति — स काम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति, सः अविहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते ; क्रतुर्नाम अध्यवसायः निश्चयः, यदनन्तरा क्रिया प्रवर्तते । यत्क्रतुर्भवति — यादृक्कामकार्येण क्रतुना यथारूपः क्रतुः अस्य सोऽयं यत्क्रतुः भवति — तत्कर्म कुरुते — यद्विषयः क्रतुः, तत्फलनिर्वृत्तये यत् योग्यं कर्म, तत् कुरुते निर्वर्तयति । यत् कर्म कुरुते, तत् अभिसम्पद्यते — तदीयं फलमभिसम्पद्यते । तस्मात् सर्वमयत्वे अस्य संसारित्वे च काम एव हेतुरिति ॥
तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ ६ ॥
तत् तस्मिन्नर्थे एष श्लोकः मन्त्रोऽपि भवति । तदेव एति तदेव गच्छति, सक्त आसक्तः तत्र उद्भूताभिलाषः सन्नित्यर्थः ; कथमेति ? सह कर्मणा — यत् कर्मफलासक्तः सन् अकरोत् , तेन कर्मणा सहैव तत् एति तत्फलमेति ; किं तत् ? लिङ्गं मनः — मनःप्रधानत्वाल्लिङ्गस्य मनो लिङ्गमित्युच्यते ; अथवा लिङ्ग्यते अवगम्यते — अवगच्छति — येन, तत् लिङ्गम् , तत् मनः — यत्र यस्मिन् निषक्तं निश्चयेन सक्तम् उद्भूताभिलाषम् अस्य संसारिणः ; तदभिलाषो हि तत्कर्म कृतवान् ; तस्मात्तन्मनोऽभिषङ्गवशादेव अस्य तेन कर्मणा तत्फलप्राप्तिः । तेन एतत्सिद्धं भवति, कामो मूलं संसारस्येति । अतः उच्छिन्नकामस्य विद्यमानान्यपि कर्माणि ब्रह्मविदः वन्ध्याप्रसवानि भवन्ति, ‘पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः’ (मु. उ. ३ । २ । २) इति श्रुतेः । किञ्च प्राप्यान्तं कर्मणः — प्राप्य भुक्त्वा अन्तम् अवसानं यावत् , कर्मणः फलपरिसमाप्तिं कृत्वेत्यर्थः ; कस्य कर्मणोऽन्तं प्राप्येत्युच्यते — तस्य, यत्किञ्च कर्म इह अस्मिन् लोके करोति निर्वर्तयति अयम् , तस्य कर्मणः फलं भुक्त्वा अन्तं प्राप्य, तस्मात् लोकात् पुनः ऐति आगच्छति, अस्मै लोकाय कर्मणे — अयं हि लोकः कर्मप्रधानः, तेनाह ‘कर्मणे’ इति — पुनः कर्मकरणाय ; पुनः कर्म कृत्वा फलासङ्गवशात् पुनरमुं लोकं याति — इत्येवम् । इति नु एवं नु, कामयमानः संसरति । यस्मात् कामयमान एव एवं संसरति, अथ तस्मात् , अकामयमानो न क्वचित्संसरति । फलासक्तस्य हि गतिरुक्ता ; अकामस्य हि क्रियानुपपत्तेः अकामयमानो मुच्यत एव । कथं पुनः अकामयमानो भवति ? यः अकामो भवति, असौ अकामयमानः । कथमकामतेत्युच्यते — यो निष्कामः यस्मान्निर्गताः कामाः सोऽयं निष्कामः । कथं कामा निर्गच्छन्ति ? य आप्तकामः भवति आप्ताः कामा येन स आप्तकामः । कथमाप्यन्ते कामाः ? आत्मकामत्वेन, यस्य आत्मैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति ; आत्मैव अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एकरसः नोर्ध्वं न तिर्यक् नाधः आत्मनोऽन्यत् कामयितव्यं वस्वन्तरम् — यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् , शृणुयात् , मन्वीत, विजानीयाद्वा — एवं विजानन्कं कामयेत । ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति ; न चासावन्यः ब्रह्मविद आप्तकामस्यास्ति । य एवात्मकामतया आप्तकामः, स निष्कामः अकामः अकामयमानश्चेति मुच्यते । न हि यस्य आत्मैव सर्वं भवति, तस्य अनात्मा कामयितव्योऽस्ति । अनात्मा चान्यः कामयितव्यः, सर्वं च आत्मैवाभूदिति विप्रतिषिद्धम् । सर्वात्मदर्शिनः कामयितव्याभावात्कर्मानुपपत्तिः । ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि, तेषां न आत्मैव सर्वं भवति, प्रत्यवायस्य जिहासितव्यस्य आत्मनोऽन्यस्य अभिप्रेतत्वात् । येन च अशनायाद्यतीतः नित्यं प्रत्यवायासम्बद्धः विदित आत्मा, तं वयं ब्रह्मविदं ब्रूमः ; नित्यमेव अशनायाद्यतीतमात्मानं पश्यति ; यस्माच्च जिहासितव्यमन्यम् उपादेयं वा यो न पश्यति, तस्य कर्म न शक्यत एव सम्बन्धुम् । यस्तु अब्रह्मवित् , तस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न विरोधः । अतः कामाभावात् अकामयमानो न जायते, मुच्यत एव ॥
तस्य एवमकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयः, नोत्क्रामन्ति नोर्ध्वं क्रामन्ति देहात् । स च विद्वान् आप्तकामः आत्मकामतया इहैव ब्रह्मभूतः । सर्वात्मनो हि ब्रह्मणः दृष्टान्तत्वेन प्रदर्शितम् एतद्रूपम् — ‘तद्वा अस्यैतदाप्तकाममकामं रूपम्’ (बृ. उ. ४ । ३ । २१) इति ; तस्य हि दार्ष्टान्तिकभूतोऽयमर्थ उपसंह्रियते — अथाकामयमान इत्यादिना । स कथमेवंभूतो मुच्यत इत्युच्यते — यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतम् अलुप्तचिद्रूपज्योतिःस्वभावम् आत्मानं पश्यति, तस्यैव अकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयो नोत्क्रामन्ति । किन्तु विद्वान् सः इहैव ब्रह्म, यद्यपि देहवानिव लक्ष्यते ; स ब्रह्मैव सन् ब्रह्म अप्येति । यस्मात् न हि तस्य अब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति, तस्मात् इहैव ब्रह्मैव सन् ब्रह्म अप्येति न शरीरपातोत्तरकालम् । न हि विदुषो मृतस्य भावान्तरापत्तिः जीवतोऽन्यः भावः, देहान्तरप्रतिसन्धानाभावमात्रेणैव तु ब्रह्माप्येतीत्युच्यते । भावान्तरापत्तौ हि मोक्षस्य सर्वोपनिषद्विवक्षितोऽर्थः आत्मैकत्वाख्यः स बाधितो भवेत् ; कर्महेतुकश्च मोक्षः प्राप्नोति, न ज्ञाननिमित्त इति ; स चानिष्टः ; अनित्यत्वं च मोक्षस्य प्राप्नोति ; न हि क्रियानिर्वृत्तः अर्थः नित्यो दृष्टः ; नित्यश्च मोक्षोऽभ्युपगम्यते, ‘एष नित्यो महिमा’ (बृ. उ. ४ । ४ । २३) इति मन्त्रवर्णात् । न च स्वाभाविकात् स्वभावात् अन्यत् नित्यं कल्पयितुं शक्यम् । स्वाभाविकश्चेत् अग्न्युष्णवत् आत्मनः स्वभावः, स न शक्यते पुरुषव्यापारानुभावीति वक्तुम् ; न हि अग्नेरौष्ण्यं प्रकाशो वा अग्निव्यापारानन्तरानुभावी ; अग्निव्यापारानुभावी स्वाभाविकश्चेति विप्रतिषिद्धम् । ज्वलनव्यापारानुभावित्वम् उष्णप्रकाशयोरिति चेत् , न, अन्योपलब्धिव्यवधानापगमाभिव्यक्त्यपेक्षत्वात् ; ज्वलनादिपूर्वकम् अग्निः उष्णप्रकाशगुणाभ्यामभिव्यज्यते, तत् न अग्न्यपेक्षया ; किं तर्हि अन्यदृष्टेः अग्नेरौष्ण्यप्रकाशौ धर्मौ व्यवहितौ, कस्यचिद्दृष्ट्या तु असम्बध्यमानौ, ज्वलनापेक्षया व्यवधानापगमे दृष्टेरभिव्यज्येते ; तदपेक्षया भ्रान्तिरुपजायते — ज्वलनपूर्वकौ एतौ उष्णप्रकाशौ धर्मौ जाताविति । यदि उष्णप्रकाशयोरपि स्वाभाविकत्वं न स्यात् — यः स्वाभाविकोऽग्नेर्धर्मः, तमुदाहरिष्यामः ; न च स्वाभाविको धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम् ॥
न च निगडभङ्ग इव अभावभूतो मोक्षः बन्धननिवृत्तिरुपपद्यते, परमात्मैकत्वाभ्युपगमात् , ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इति श्रुतेः ; न चान्यो बद्धोऽस्ति, यस्य निगडनिवृत्तिवत् बन्धननिवृत्तिः मोक्षः स्यात् ; परमात्मव्यतिरेकेण अन्यस्याभावं विस्तरेण अवादिष्म । तस्मात् अविद्यानिवृत्तिमात्रे मोक्षव्यवहार इति च अवोचाम, यथा रज्ज्वादौ सर्पाद्यज्ञाननिवृत्तौ सर्पादिनिवृत्तिः ॥
येऽप्याचक्षते — मोक्षे विज्ञानान्तरम् आनन्दान्तरं च अभिव्यज्यत इति, तैर्वक्तव्यः अभिव्यक्तिशब्दार्थः । यदि तावत् लौकिक्येव उपलब्धिविषयव्याप्तिः अभिव्यक्तिशब्दार्थः, ततो वक्तव्यम् — किं विद्यमानमभिव्यज्यते, अविद्यमानमिति वा । विद्यमानं चेत् , यस्य मुक्तस्य तदभिव्यज्यते तस्य आत्मभूतमेव तत् इति, उपलब्धिव्यवधानानुपपत्तेः नित्याभिव्यक्तत्वात् , मुक्तस्य अभिव्यज्यत इति विशेषवचनमनर्थकम् । अथ कदाचिदेव अभिव्यज्यते, उपलब्धिव्यवधानात् अनात्मभूतं तदिति, अन्यतोऽभिव्यक्तिप्रसङ्गः ; तथा च अभिव्यक्तिसाधनापेक्षता । उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदा अभिव्यक्तिः, अनभिव्यक्तिर्वा ; न तु अन्तरालकल्पनायां प्रमाणमस्ति । न च समानाश्रयाणाम् एकस्य आत्मभूतानां धर्माणाम् इतरेतरविषयविषयित्वं सम्भवति । विज्ञानसुखयोश्च प्रागभिव्यक्तेः संसारित्वम् , अभिव्यक्त्युत्तरकालं च मुक्तत्वं यस्य — सोऽन्यः परस्मात् नित्याभिव्यक्तज्ञानस्वरूपात् अत्यन्तवैलक्षण्यात् , शैत्यमिव औष्ण्यात् ; परमात्मभेदकल्पनायां च वैदिकः कृतान्तः परित्यक्तः स्यात् । मोक्षस्य इदानीमिव निर्विशेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति चेत् , न, अविद्याभ्रमापोहार्थत्वात् ; न हि वस्तुतो मुक्तामुक्तत्वविशेषोऽस्ति, आत्मनो नित्यैकरूपत्वात् ; किन्तु तद्विषया अविद्या अपोह्यते शास्त्रोपदेशजनितविज्ञानेन ; प्राक्तदुपदेशप्राप्तेः तदर्थश्च प्रयत्न उपपद्यत एव । अविद्यावतः अविद्यानिवृत्त्यनिवृत्तिकृतः विशेषः आत्मनः स्यादिति चेत् , न, अविद्याकल्पनाविषयत्वाभ्युपगमात् , रज्जूषरशुक्तिकागगनानां सर्पोदकरजतमलिनत्वादिवत् , अदोष इत्यवोचाम । तिमिरातिमिरदृष्टिवत् अविद्याकर्तृत्वाकर्तृत्वकृत आत्मनो विशेषः स्यादिति चेत् , न, ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति स्वतः अविद्याकर्तृत्वस्य प्रतिषिद्धत्वात् ; अनेकव्यापारसन्निपातजनितत्वाच्च अविद्याभ्रमस्य ; विषयत्वोपपत्तेश्च ; यस्य च अविद्याभ्रमो घटादिवत् विविक्तो गृह्यते, सः न अविद्याभ्रमवान् । अहं न जाने मुग्धोऽस्मीति प्रत्ययदर्शनात् ; अविद्याभ्रमवत्त्वमेवेति चेत् , न, तस्यापि विवेकग्रहणात् ; न हि यो यस्य विवेकेन ग्रहीता, स तस्मिन्भ्रान्त इत्युच्यते ; तस्य च विवेकग्रहणम् , तस्मिन्नेव च भ्रमः — इति विप्रतिषिद्धम् ; न जाने मुग्धोऽस्मीति दृश्यते इति ब्रवीषि — तद्दर्शिनश्च अज्ञानं मुग्धरूपता दृश्यत इति च — तद्दर्शनस्य विषयो भवति, कर्मतामापद्यत इति ; तत् कथं कर्मभूतं सत् कर्तृस्वरूपदृशिविशेषणम् अज्ञानमुग्धते स्याताम् ? अथ दृशिविशेषणत्वं तयोः, कथं कर्म स्याताम् — दृशिना व्याप्येते ? कर्म हि कर्तृक्रियया व्याप्यमानं भवति ; अन्यश्च व्याप्यम् , अन्यम् व्यापकम् ; न तेनैव तत् व्याप्यते ; वद, कथम् एवं सति, अज्ञानमुग्धते दृशिविशेषणे स्याताम् ? न च अज्ञानविवेकदर्शी अज्ञानम् आत्मनः कर्मभूतमुपलभमानः उपलब्धृधर्मत्वेन गृह्णाति, शरीरे कार्श्यरूपादिवत् तथा । सुखदुःखेच्छाप्रयत्नादीन् सर्वो लोकः गृह्णातीति चेत् , तथापि ग्रहीतुर्लोकस्य विविक्ततैव अभ्युपगता स्यात् । न जानेऽहं त्वदुक्तं मुग्ध एव इति चेत् — भवतु अज्ञो मुग्धः, यस्तु एवंदर्शी, तं ज्ञम् अमुग्धं प्रतिजानीमहे वयम् । तथा व्यासेनोक्तम् — ‘इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति’(भ.गी.१३/३३), ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तम् —’ (भ. गी. १३ । २७) इत्यादि शतश उक्तम् । तस्मात् न आत्मनः स्वतः बद्धमुक्तज्ञानाज्ञानकृतो विशेषः अस्ति, सर्वदा समैकरसस्वाभाव्याभ्युपगमात् । ये तु अतोऽन्यथा आत्मवस्तु परिकल्प्य बन्धमोक्षादिशास्त्रं च अर्थवादमापादयन्ति, ते उत्सहन्ते — खेऽपि शाकुनं पदं द्रष्टुम् , खं वा मुष्टिना आक्रष्टुम् , चर्मवद्वेष्टितुम् ; वयं तु तत् कर्तुमशक्ताः ; सर्वदा समैकरसम् अद्वैतम् अविक्रियम् अजम् अजरम् अमरम् अमृतम् अभयम् आत्मतत्त्वं ब्रह्मैव स्मः — इत्येष सर्ववेदान्तनिश्चितोऽर्थ इत्येवं प्रतिपद्यामहे । तस्मात् ब्रह्मात्येतीति उपचारमात्रमेतत् , विपरीतग्रहवद्देहसन्ततेः विच्छेदमात्रं विज्ञानफलमपेक्ष्य ॥
स्वप्नबुद्धान्तगमनदृष्टान्तस्य दार्ष्टान्तिकः संसारो वर्णितः । संसारहेतुश्च विद्याकर्मपूर्वप्रज्ञा वर्णिता । यैश्च उपाधिभूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति, तानि चोक्तानि । तेषां साक्षात्प्रयोजकौ धर्माधर्माविति पूर्वपक्षं कृत्वा, काम एवेत्यवधारितम् । यथा च ब्राह्मणेन अयम् अर्थः अवधारितः, एवं मन्त्रेणापीति बन्धं बन्धकारणं च उक्त्वा उपसंहृतं प्रकरणम् — ‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति । ‘अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इत्यारभ्य सुषुप्तदृष्टान्तस्य दार्ष्टान्तिकभूतः सर्वात्मभावो मोक्ष उक्तः । मोक्षकारणं च आत्मकामतया यत् आप्तकामत्वमुक्तम् , तच्च सामर्थ्यात् न आत्मज्ञानमन्तरेण आत्मकामतया आप्तकामत्वमिति — सामर्थ्यात् ब्रह्मविद्यैव मोक्षकारणमित्युक्तम् । अतः यद्यपि कामो मूलमित्युक्तम् , तथापि मोक्षकारणविपर्ययेण बन्धकारणम् अविद्या इत्येतदपि उक्तमेव भवति । अत्रापि मोक्षः मोक्षसाधनं च ब्राह्मणेनोक्तम् ; तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः —
तदेष श्लोको भवति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति । तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥
तत् तस्मिन्नेवार्थे एष श्लोकः मन्त्रो भवति । यदा यस्मिन्काले सर्वे समस्ताः कामाः तृष्णाप्रभेदाः प्रमुच्यन्ते, आत्मकामस्य ब्रह्मविदः समूलतो विशीर्यन्ते, ये प्रसिद्धा लोके इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणाः अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिताः आश्रिताः — अथ तदा, मर्त्यः मरणधर्मा सन् , कामवियोगात्समूलतः, अमृतो भवति ; अर्थात् अनात्मविषयाः कामा अविद्यालक्षणाः मृत्यवः इत्येतदुक्तं भवति ; अतः मृत्युवियोगे विद्वान् जीवन्नेव अमृतो भवति । अत्र अस्मिन्नेव शरीरे वर्तमानः ब्रह्म समश्नुते, ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः । अतः मोक्षः न देशान्तरगमनादि अपेक्षते । तस्मात् विदुषो नोत्क्रामन्ति प्राणाः, यथावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते ; नाममात्रं हि अवशिष्यते — इत्युक्तम् । कथं पुनः समवनीतेषु प्राणेषु, देहे च स्वकारणे प्रलीने, विद्वान् मुक्तः अत्रैव सर्वात्मा सन् वर्तमानः पुनः पूर्ववत् देहित्वं संसारित्वलक्षणं न प्रतिपद्यते — इत्यत्रोच्यते — तत् तत्र अयं दृष्टान्तः ; यथा लोके अहिः सर्पः, तस्य निर्ल्वयनी, निर्मोकः, सा अहिनिर्ल्वयनी, वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः, मृता प्रत्यस्ता प्रक्षिप्ता अनात्मभावेन सर्पेण परित्यक्ता, शयीत वर्तेत — एवमेव, यथा अयं दृष्टान्तः, इदं शरीरं सर्पस्थानीयेन मुक्तेन अनात्मभावेन परित्यक्तं मृतमिव शेते । अथ इतरः सर्पस्थानीयो मुक्तः सर्वात्मभूतः सर्पवत् तत्रैव वर्तमानोऽपि अशरीर एव, न पूर्ववत् पुनः सशरीरो भवति । कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं सशरीरः मर्त्यश्च ; तद्वियोगात् अथ इदानीम् अशरीरः, अत एव च अमृतः ; प्राणः, प्राणितीति प्राणः — ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति हि वक्ष्यमाणे श्लोके, ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इति च श्रुत्यन्तरे ; प्रकरणवाक्यसामर्थ्याच्च पर एव आत्मा अत्र प्राणशब्दवाच्यः ; ब्रह्मैव परमात्मैव । किं पुनस्तत् ? तेज एव विज्ञानम् ज्योतिः, येन आत्मज्योतिषा जगत् अवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत् सत् अविभ्रंशत् वर्तते । यः कामप्रश्नो विमोक्षार्थः याज्ञवल्क्येन वरो दत्तो जनकाय, सहेतुकः बन्धमोक्षार्थलक्षणः दृष्टान्तदार्ष्टान्तिकभूतः स एष निर्णीतः सविस्तरः जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या ; संसारविमोक्षोपाय उक्तः प्राणिभ्यः । इदानीं श्रुतिः स्वयमेवाह — विद्यानिष्क्रयार्थं जनकेनैवमुक्तमिति ; कथम् ? सोऽहम् एवं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रयार्थं सहस्रं ददामि — इति ह एवं किल उवाच उक्तवान् जनको वैदेहः । अत्र कस्माद्विमोक्षपदार्थे निर्णीते, विदेहराज्यम् आत्मानमेव च न निवेदयति, एकदेशोक्ताविव सहस्रमेव ददाति ? तत्र कोऽभिप्राय इति । अत्र केचिद्वर्णयन्ति — अध्यात्मविद्यारसिको जनकः श्रुतमप्यर्थं पुनर्मन्त्रैः शुश्रूषति ; अतो न सर्वमेव निवेदयति ; श्रुत्वाभिप्रेतं याज्ञवल्क्यात् पुनरन्ते निवेदयिष्यामीति हि मन्यते ; यदि चात्रैव सर्वं निवेदयामि, निवृत्ताभिलाषोऽयं श्रवणादिति मत्वा, श्लोकान् न वक्ष्यति — इति च भयात् सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति । सर्वमप्येतत् असत् , पुरुषस्येव प्रमाणभूतायाः श्रुतेः व्याजानुपपत्तेः ; अर्थशेषोपपत्तेश्च — विमोक्षपदार्थे उक्तेऽपि आत्मज्ञानसाधने, आत्मज्ञानशेषभूतः सर्वैषणापरित्यागः सन्न्यासाख्यः वक्तव्योऽर्थशेषः विद्यते ; तस्मात् श्लोकमात्रशुश्रूषाकल्पना अनृज्वी ; अगतिका हि गतिः पुनरुक्तार्थकल्पना ; सा च अयुक्ता सत्यां गतौ । न च तत् स्तुतिमात्रमित्यवोचाम । ननु एवं सति ‘अत ऊर्ध्वं विमोक्षायैव’ इति वक्तव्यम् — नैष दोषः ; आत्मज्ञानवत् अप्रयोजकः सन्न्यासः पक्षे, प्रतिपत्तिकर्मवत् — इति हि मन्यते ; ‘सन्न्यासेन तनुं त्यजेत्’ इति स्मृतेः । साधनत्वपक्षेऽपि न ‘अत ऊर्ध्वं विमोक्षायैव’ इति प्रश्नमर्हति, मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥
तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥
आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मन्त्रब्राह्मणोक्ते, विस्तरप्रतिपादका एते श्लोका भवन्ति । अणुः सूक्ष्मः पन्थाः दुर्विज्ञेयत्वात् , विततः विस्तीर्णः, विस्पष्टतरणहेतुत्वाद्वा ‘वितरः’ इति पाठान्तरात् , मोक्षसाधनो ज्ञानमार्गः पुराणः चिरन्तनः नित्यश्रुतिप्रकाशितत्वात् , न तार्किकबुद्धिप्रभवकुदृष्टिमार्गवत् अर्वाक्कालिकः, मां स्पृष्टः मया लब्ध इत्यर्थः ; यो हि येन लभ्यते, स तं स्पृशतीव सम्बध्यते ; तेन अयं ब्रह्मविद्यालक्षणो मोक्षमार्गः मया लब्धत्वात् ‘मां स्पृष्टः’ इत्युच्यते । न केवलं मया लब्धः, किं तु अनुवित्तो मयैव ; अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलावसानतानिष्ठा प्राप्तिः, भुजेरिव तृप्त्यवसानता ; पूर्वं तु ज्ञानप्राप्तिसम्बन्धमात्रमेवेति विशेषः । किम् असावेव मन्त्रदृक् एकः ब्रह्मविद्याफलं प्राप्तः, नान्यः प्राप्तवान् , येन ‘अनुवित्तो मयैव’ इत्यवधारयति — नैष दोषः, अस्याः फलम् आत्मसाक्षिकमनुत्तममिति ब्रह्मविद्यायाः स्तुतिपरत्वात् ; एवं हि कृतार्थात्माभिमानकरम् आत्मप्रत्ययसाक्षिकम् आत्मज्ञानम् , किमतः परम् अन्यत्स्यात् — इति ब्रह्मविद्यां स्तौति ; न तु पुनः अन्यो ब्रह्मवित् तत्फलं न प्राप्नोतीति, ‘तद्यो यो देवानाम्’ (बृ. उ. १ । ४ । १०) इति सर्वार्थश्रुतेः ; तदेवाह — तेन ब्रह्मविद्यामार्गेण धीराः प्रज्ञावन्तः अन्येऽपि ब्रह्मविद इत्यर्थः, अपियन्ति अपिगच्छन्ति, ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकम् ; स्वर्गलोकशब्दः त्रिविष्टपवाच्यपि सन् इह प्रकरणात् मोक्षाभिधायकः ; इतः अस्माच्छरीरपातात् ऊर्ध्वं जीवन्त एव विमुक्ताः सन्तः ॥
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९ ॥
तस्मिन् मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् ; कथम् ? तस्मिन् शुक्लं शुद्धं विमलम् आहुः केचित् मुमुक्षवः ; नीलम् अन्ये, पिङ्गलम् अन्ये, हरितं लोहितं च — यथादर्शनम् । नाड्यस्तु एताः सुषुम्नाद्याः श्लेष्मादिरससम्पूर्णाः — शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात् । आदित्यं वा मोक्षमार्गम् एवंविधं मन्यन्ते — ‘एष शुक्ल एष नीलः’ (छा. उ. ८ । ६ । १) इत्यादिश्रुत्यन्तरात् । दर्शनमार्गस्य च शुक्लादिवर्णासम्भवात् । सर्वथापि तु प्रकृतात् ब्रह्मविद्यामार्गात् अन्ये एते शुक्लादयः । ननु शुक्लः शुद्धः अद्वैतमार्गः — न, नीलपीतादिशब्दैः वर्णवाचकैः सह अनुद्रवणात् ; यान् शुक्लादीन् योगिनो मोक्षपथान् आहुः, न ते मोक्षमार्गाः ; संसारविषया एव हि ते — ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति शरीरदेशान्निःसरणसम्बन्धात् , ब्रह्मादिलोकप्रापका हि ते । तस्मात् अयमेव मोक्षमार्गः — यः आत्मकामत्वेन आप्तकामतया सर्वकामक्षये गमनानुपपत्तौ प्रदीपनिर्वाणवत् चक्षुरादीनां कार्यकरणानाम् अत्रैव समवनयः — इति एषः ज्ञानमार्गः पन्थाः, ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैषणेन, अनुवित्तः । तेन ब्रह्मविद्यामार्गेण ब्रह्मवित् अन्यः अपि एति । कीदृशो ब्रह्मवित् तेन एतीत्युच्यते — पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणः, परमात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्च — आत्मभूतः इहैव इत्यर्थः ; ईदृशो ब्रह्मवित् तेन मार्गेण एति । न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणम् , विरोधादित्यवोचाम ; ‘अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः’ (महा. भा. रा. ध. ४७ । ५५) इति च स्मृतेः ; ‘त्यज धर्ममधर्मं च’ (मो. ध. ३२९ । ४०) इत्यादि पुण्यापुण्यत्यागोपदेशात् ; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’ (मो. ध. २६३ । ३४) ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’ (मो. ध. १७५ । ३७) इत्यादिस्मृतिभ्यश्च । उपदेक्ष्यति च इहापि तु — ‘एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्’ (बृ. उ. ४ । ४ । २३) इति कर्मप्रयोजनाभावे हेतुमुक्त्वा, ‘तस्मादेवंविच्छान्तो दान्तः’ (बृ. उ. ४ । ४ । २३) इत्यादिना सर्वक्रियोपरमम् । तस्मात् यथाव्याख्यातमेव पुण्यकृत्त्वम् । अथवा यो ब्रह्मवित् तेन एति, स पुण्यकृत् तैजसश्च — इति ब्रह्मवित्स्तुतिरेषा ; पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं लोके, ताभ्याम् अतः ब्रह्मवित् स्तूयते प्रख्यातमहाभाग्यत्वाल्लोके ॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ १० ॥
अन्धम् अदर्शनात्मकं तमः संसारनियामकं प्रविशन्ति प्रतिपद्यन्ते ; के ? ये अविद्यां विद्यातोऽन्यां साध्यसाधनलक्षणाम् , उपासते, कर्म अनुवर्तन्त इत्यर्थः ; ततः तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति ; के ? ये उ विद्यायाम् अविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायाम् , रता अभिरताः ; विधिप्रतिषेधपर एव वेदः, नान्योऽस्ति — इति, उपनिषदर्थानपेक्षिण इत्यर्थः ॥
अनन्दा नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधो जनाः ॥ ११ ॥
यदि ते अदर्शनलक्षणं तमः प्रविशन्ति, को दोष इत्युच्यते — अनन्दाः अनानन्दाः असुखा नाम ते लोकाः, तेन अन्धेनादर्शनलक्षणेन तमसा आवृताः व्याप्ताः, — ते तस्य अज्ञानतमसो गोचराः ; तान् ते प्रेत्य मृत्वा अभिगच्छन्ति अभियान्ति ; के ? ये अविद्वांस ; किं सामान्येन अविद्वत्तामात्रेण ? नेत्युच्यते — अबुधः, बुधेः अवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम् , आत्मावगमवर्जिता इत्यर्थः ; जनाः प्राकृता एव जननधर्माणो वा इत्येतत् ॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ १२ ॥
आत्मानं स्वं परं सर्वप्राणिमनीषितज्ञं हृत्स्थम् अशनायादिधर्मातीतम् , चेत् यदि, विजानीयात् सहस्रेषु कश्चित् ; चेदिति आत्मविद्याया दुर्लभत्वं दर्शयति ; कथम् ? अयम् पर आत्मा सर्वप्राणिप्रत्ययसाक्षी, यः नेति नेतीत्याद्युक्तः, यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, समः सर्वभूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावः — अस्मि भवामि — इति ; पूरुषः पुरुषः ; सः किमिच्छन् — तत्स्वरूपव्यतिरिक्तम् अन्यद्वस्तु फलभूतं किमिच्छन् कस्य वा अन्यस्य आत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय ; न हि तस्य आत्मन एष्टव्यं फलम् , न चाप्यात्मनोऽन्यः अस्ति, यस्य कामाय इच्छति, सर्वस्य आत्मभूतत्वात् ; अतः किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् , भ्रंशेत् , शरीरोपाधिकृतदुःखमनु दुःखी स्यात् , शरीरतापमनुतप्येत । अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्त्वन्तरेप्सोः ; ‘ममेदं स्यात् , पुत्रस्य इदम् , भार्याया इदम्’ इत्येवमीहमानः पुनःपुनर्जननमरणप्रबन्धरूढः शरीररोगमनुरुज्यते ; सर्वात्मदर्शिनस्तु तदसम्भव इत्येतदाह ॥
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन्सन्देह्ये गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥
किं च यस्य ब्राह्मणस्य, अनुवित्तः अनुलब्धः, प्रतिबुद्धः साक्षात्कृतः, कथम् ? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगतः, आत्मा अस्मिन्सन्देह्ये सन्देहे अनेकानर्थसङ्कटोपचये, गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे, प्रविष्टः ; स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः ; स विश्वकृत् विश्वस्य कर्ता ; कथं विश्वकृत्त्वम् , तस्य किं विश्वकृदिति नाम इत्याशङ्क्याह — सः हि यस्मात् सर्वस्य कर्ता, न नाममात्रम् ; न केवलं विश्वकृत् परप्रयुक्तः सन् , किं तर्हि तस्य लोकः सर्वः ; किमन्यो लोकः अन्योऽसावित्युच्यते — स उ लोक एव ; लोकशब्देन आत्मा उच्यते ; तस्य सर्व आत्मा, स च सर्वस्यात्मेत्यर्थः । य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतया अनुवित्तः आत्मा अनर्थसङ्कटे गहने प्रविष्टः, स न संसारी, किं तु पर एव ; यस्मात् विश्वस्य कर्ता सर्वस्य आत्मा, तस्य च सर्व आत्मा । एक एवाद्वितीयः पर एवास्मीत्यनुसन्धातव्य इति श्लोकार्थः ॥
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥
किं च इहैव अनेकानर्थसङ्कुले, सन्तः भवन्तः अज्ञानदीर्घनिद्रामोहिताः सन्तः, कथञ्चिदिव ब्रह्मतत्त्वम् आत्मत्वेन अथ विद्मः विजानीमः, तत् एतद्ब्रह्म प्रकृतम् ; अहो वयं कृतार्था इत्यभिप्रायः । यदेतद्ब्रह्म विजानीमः, तत् न चेत् विदितवन्तो वयम् — वेदनं वेदः, वेदोऽस्यास्तीति वेदी, वेद्येव वेदिः, न वेदिः अवेदिः, ततः अहम् अवेदिः स्याम् । यदि अवेदिः स्याम् , को दोषः स्यात् ? महती अनन्तपरिमाणा जन्ममरणादिलक्षणा विनष्टिः विनशनम् । अहो वयम् अस्मान्महतो विनाशात् निर्मुक्ताः, यत् अद्वयं ब्रह्म विदितवन्त इत्यर्थः । यथा च वयं ब्रह्म विदित्वा अस्माद्विनशनाद्विप्रमुक्ताः, एवं ये तद्विदुः अमृतास्ते भवन्ति ; ये पुनः नैवं ब्रह्म विदुः, ते इतरे ब्रह्मविद्भ्योऽन्ये अब्रह्मविद इत्यर्थः, दुःखमेव जन्ममरणादिलक्षणमेव अपियन्ति प्रतिपद्यन्ते, न कदाचिदपि अविदुषां ततो विनिवृत्तिरित्यर्थः ; दुःखमेव हि ते आत्मत्वेनोपगच्छन्ति ॥
यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥
यदा पुनः एतम् आत्मानम् , कथञ्चित् परमकारुणिकं कञ्चिदाचार्यं प्राप्य ततो लब्धप्रसादः सन् , अनु पश्चात् पश्यति साक्षात्करोति स्वमात्मानम् , देवं द्योतनवन्तम् दातारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपम् , अञ्जसा साक्षात् , ईशानं स्वामिनम् भूतभव्यस्य कालत्रयस्येत्येतत् — न ततः तस्मादीशानाद्देवात् आत्मानं विशेषेण जुगुप्सते गोपायितुमिच्छति । सर्वो हि लोक ईश्वराद्गुप्तिमिच्छति भेददर्शी ; अयं तु एकत्वदर्शी न बिभेति कुतश्चन ; अतो न तदा विजुगुप्सते, यदा ईशानं देवम् अञ्जसा आत्मत्वेन पश्यति । न तदा निन्दति वा कञ्चित् , सर्वम् आत्मानं हि पश्यति, स एवं पश्यन् कम् असौ निन्द्यात् ॥
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥
किं च यस्मात् ईशानात् अर्वाक् , यस्मादन्यविषय एवेत्यर्थः, संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता, यम् अपरिच्छिन्दन् अर्वागेव वर्तते, अहोभिः स्वावयवैः अहोरात्रैरित्यर्थः ; तत् ज्योतिषां ज्योतिः आदित्यादिज्योतिषामप्यवभासकत्वात् , आयुरित्युपासते देवाः, अमृतं ज्योतिः — अतोऽन्यन्म्रियते, न हि ज्योतिः ; सर्वस्य हि एतज्ज्योतिः आयुः । आयुर्गुणेन यस्मात् देवाः तत् ज्योतिरुपासते, तस्मात् आयुष्मन्तस्ते । तस्मात् आयुष्कामेन आयुर्गुणेन उपास्यं ब्रह्मेत्यर्थः ॥
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७ ॥
किं च यस्मिन् यत्र ब्रह्मणि, पञ्च पञ्चजनाः — गन्धर्वादयः पञ्चैव सङ्ख्याताः गन्धर्वाः पितरो देवा असुरा रक्षांसि — निषादपञ्चमा वा वर्णाः, आकाशश्च अव्याकृताख्यः — यस्मिन् सूत्रम् ओतं च प्रोतं च — यस्मिन्प्रतिष्ठितः ; ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्युक्तम् ; तमेव आत्मानम् अमृतं ब्रह्म मन्ये अहम् , न चाहमात्मानं ततोऽन्यत्वेन जाने । किं तर्हि ? अमृतोऽहम् ब्रह्म विद्वान्सन् ; अज्ञानमात्रेण तु मर्त्योऽहम् आसम् ; तदपगमात् विद्वानहम् अमृत एव ॥
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥
किं च तेन हि चैतन्यात्मज्योतिषा अवभास्यमानः प्राणः आत्मभूतेन प्राणिति, तेन प्राणस्यापि प्राणः सः, तं प्राणस्य प्राणम् ; तथा चक्षुषोऽपि चक्षुः ; उत श्रोत्रस्यापि श्रोत्रम् ; ब्रह्मशक्त्याधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम् ; स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि ; मनसोऽपि मनः — इति ये विदुः — चक्षुरादिव्यापारानुमितास्तित्वं प्रत्यगात्मानम् , न विषयभूतम् ये विदुः — ते निचिक्युः निश्चयेन ज्ञातवन्तः ब्रह्म, पुराणं चिरन्तनम् , अग्र्यम् अग्रे भवम् । ‘तद्यदात्मविदो विदुः’ (मु. उ. २ । २ । १०) इति ह्याथर्वणे ॥
मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥
तद्ब्रह्मदर्शने साधनमुच्यते — मनसैव परमार्थज्ञानसंस्कृतेन आचार्योपदेशपूर्वकं च अनुद्रष्टव्यम् । तत्र च दर्शनविषये ब्रह्मणि न इह नाना अस्ति किञ्चन किञ्चिदपि ; असति नानात्वे, नानात्वमध्यारोपयति अविद्यया । सः मृत्योः मरणात् , मृत्युं मरणम् आप्नोति ; कोऽसौ ? य इह नानेव पश्यति । अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो द्वैतमित्यर्थः ॥
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । विरजः पर आकाशादज आत्मा महान्ध्रुवः ॥ २० ॥
यस्मादेवम् तस्मात् , एकधैव एकेनैव प्रकारेण विज्ञानघनैकरसप्रकारेण आकाशवन्निरन्तरेण अनुद्रष्टव्यम् ; यस्मात् एतद्ब्रह्म अप्रमयम् अप्रमेयम् , सर्वैकत्वात् ; अन्येन हि अन्यत् प्रमीयते ; इदं तु एकमेव, अतः अप्रमेयम् ; ध्रुवं नित्यं कूटस्थम् अविचालीत्यर्थः । ननु विरुद्धमिदमुच्यते — अप्रमेयं ज्ञायत इति च ; ‘ज्ञायते’ इति प्रमाणैर्मीयत इत्यर्थः, ‘अप्रमेयम्’ इति च तत्प्रतिषेधः — नैष दोषः, अन्यवस्तुवत् अनागमप्रमाणप्रमेयत्वप्रतिषेधार्थत्वात् ; यथा अन्यानि वस्तूनि आगमनिरपेक्षैः प्रमाणैः विषयीक्रियन्ते, न तथा एतत् आत्मतत्त्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते ; सर्वस्यात्मत्वे केन कं पश्येत् विजानीयात् — इति प्रमातृप्रमाणादिव्यापारप्रतिषेधेनैव आगमोऽपि विज्ञापयति, न तु अभिधानाभिधेयलक्षणवाक्यधर्माङ्गीकरणेन ; तस्मात् न आगमेनापि स्वर्गमेर्वादिवत् तत् प्रतिपाद्यते ; प्रतिपादयित्रात्मभूतं हि तत् ; प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात् , भेदे हि सति तत् भवति । ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव ; न तस्मिन् साक्षात् आत्मभावः कर्तव्यः, विद्यमानत्वादात्मभावस्य ; नित्यो हि आत्मभावः सर्वस्य अतद्विषय इव प्रत्यवभासते ; तस्मात् अतद्विषयाभासनिवृत्तिव्यतिरेकेण न तस्मिन्नात्मभावो विधीयते ; अन्यात्मभावनिवृत्तौ, आत्मभावः स्वात्मनि स्वाभाविको यः, स केवलो भवतीति — आत्मा ज्ञायत इत्युच्यते ; स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियते इति उभयमप्यविरुद्धमेव । विरजः विगतरजः, रजो नाम धर्माधर्मादिमलम् तद्रहित इत्येतत् । परः — परो व्यतिरिक्तः सूक्ष्मो व्यापी वा आकाशादपि अव्याकृताख्यात् । अजः न जायते ; जन्मप्रतिषेधात् उत्तरेऽपि भावविकाराः प्रतिषिद्धाः, सर्वेषां जन्मादित्वात् । आत्मा, महान्परिमाणतः, महत्तरः सर्वस्मात् । ध्रुवः अविनाशी ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तदिति ॥ २१ ॥
तम् ईदृशमात्मानमेव, धीरः धीमान् विज्ञाय उपदेशतः शास्त्रतश्च, प्रज्ञां शास्त्राचर्योपदिष्टविषयां जिज्ञासापरिसमाप्तिकरीम् , कुर्वीत ब्राह्मणः — एवं प्रज्ञाकरणसाधनानि सन्न्यासशमदमोपरमतितिक्षासमाधानानि कुर्यादित्यर्थः । न अनुध्यायात् नानुचिन्तयेत् , बहून् प्रभूतान् शब्दान् ; तत्र बहुत्वप्रतिषेधात् केवलात्मैकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञायन्ते ; ‘ओमित्येवं ध्यायथ आत्मानम्’ (मु. उ. २ । २ । ६) ‘अन्या वाचो विमुञ्चथ’ (मु. उ. २ । २ । ५) इति च आथर्वणे । वाचो विग्लापनं विशेषेण ग्लानिकरं श्रमकरम् , हि यस्मात् , तत् बहुशब्दाभिध्यानमिति ॥
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥
सहेतुकौ बन्धमोक्षौ अभिहितौ मन्त्रब्राह्मणाभ्याम् ; श्लोकैश्च पुनः मोक्षस्वरूपं विस्तरेण प्रतिपादितम् ; एवम् एतस्मिन् आत्मविषये सर्वो वेदः यथा उपयुक्तो भवति, तत् तथा वक्तव्यमिति तदर्थेयं कण्डिका आरभ्यते । तच्च यथा अस्मिन्प्रपाठके अभिहितं सप्रयोजनम् अनूद्य अत्रैव उपयोगः कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्य — इत्येवमर्थ उक्तार्थानुवादः ‘स वा एषः’ इत्यादिः । स इति उक्तपरामर्शार्थः ; कोऽसौ उक्तः परामृश्यते ? तं प्रतिनिर्दिशति — य एष विज्ञानमय इति — अतीतानन्तरवाक्योक्तसंप्रत्ययो मा भूदिति, यः एषः ; कतमः एषः इत्युच्यते — विज्ञानमयः प्राणेष्विति ; उक्तवाक्योल्लिङ्गनं संशयनिवृत्त्यर्थम् ; उक्तं हि पूर्वं जनकप्रश्नारम्भे ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ३ । ७) इत्यादि । एतदुक्तं भवति — योऽयम् ‘विज्ञानमयः प्राणेषु’ इत्यादिना वाक्येन प्रतिपादितः स्वयं ज्योतिरात्मा, स एषः कामकर्माविद्यानामनात्मधर्मत्वप्रतिपादनद्वारेण मोक्षितः परमात्मभावमापादितः — पर एवायं नान्य इति ; एष सः साक्षान्महानज आत्मेत्युक्तः । योऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ एव । य एषः अन्तर्हृदये हृदयपुण्डरीकमध्ये य एष आकाशो बुद्धिविज्ञानसंश्रयः, तस्मिन्नाकाशे बुद्धिविज्ञानसहिते शेते तिष्ठति ; अथवा सम्प्रसादकाले अन्तर्हृदये य एष आकाशः पर एव आत्मा निरुपाधिकः विज्ञानमयस्य स्वस्वभावः, तस्मिन् स्वस्वभावे परमात्मनि आकाशाख्ये शेते ; चतुर्थे एतद्व्याख्यातम् ‘क्वैष तदाभूत्’ (बृ. उ. २ । १ । १६) इत्यस्य प्रतिवचनत्वेन । स च सर्वस्य ब्रह्मेन्द्रादेः वशी ; सर्वो हि अस्य वशे वर्तते ; उक्तं च ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) इति । न केवलं वशी, सर्वस्य ईशानः ईशिता च ब्रह्मेन्द्रप्रभृतीनाम् । ईशितृत्वं च कदाचित् जातिकृतम् , यथा राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति, तद्वन्मा भूदित्याह — सर्वस्याधिपतिः अधिष्ठाय पालयिता, स्वतन्त्र इत्यर्थः ; न राजपुत्रवत् अमात्यादिभृत्यतन्त्रः । त्रयमप्येतत् वशित्वादि हेतुहेतुमद्रूपम् — यस्मात् सर्वस्याधिपतिः, ततोऽसौ सर्वस्येशानः ; यो हि यमधिष्ठाय पालयति, स तं प्रतीष्ट एवेति प्रसिद्धम् , यस्माच्च सर्वस्येशानः, तस्मात् सर्वस्य वशीति । किञ्चान्यत् स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयः न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति, न वर्धते पूर्वावस्थातः केनचिद्धर्मेण ; नो एव शास्त्रप्रतिषिद्धेन असाधुना कर्मणा कनीयान् अल्पतरो भवति, पूर्वावस्थातो न हीयत इत्यर्थः । किं च सर्वो हि अधिष्ठानपालनादि कुर्वन् परानुग्रहपीडाकृतेन धर्माधर्माख्येन युज्यते ; अस्यैव तु कथं तदभाव इत्युच्यते — यस्मात् एष सर्वेश्वरः सन् कर्मणोऽपीशितुं भवत्येव शीलमस्य, तस्मात् न कर्मणा सम्बध्यते । किं च एष भूताधिपतिः ब्रह्मादिस्तम्बपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम् । एष भूतानां तेषामेव पालयिता रक्षिता । एष सेतुः ; किंविशिष्ट इत्याह — विधरणः वर्णाश्रमादिव्यवस्थाया विधारयिता ; तदाह — एषां भूरादीनां ब्रह्मलोकान्तानां लोकानाम् असम्भेदाय असम्भिन्नमर्यादायै ; परमेश्वरेण सेतुवदविधार्यमाणा लोकाः सम्भिन्नमर्यादाः स्युः ; अतो लोकानामसम्भेदाय सेतुभूतोऽयं परमेश्वरः, यः स्वयं ज्योतिरात्मैव एवंवित् सर्वस्य वशी — इत्यादि ब्रह्मविद्यायाः फलमेतन्निर्दिष्टम् । ‘किञ्ज्योतिरयं पुरुषः’ (बृ. उ. ४ । ३ । २) इत्येवमादिषष्ठप्रपाठकविहितायामेतस्यां ब्रह्मविद्यायाम् एवंफलायाम् काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन विनियुज्यते ; तत् कथमित्युच्यते — तमेतम् एवंभूतमौपनिषदं पुरुषम् , वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्यायलक्षणेन, विविदिषन्ति वेदितुमिच्छन्ति ; के ? ब्राह्मणाः ; ब्राह्मणग्रहणमुपलक्षणार्थम् ; अविशिष्टो हि अधिकारः त्रयाणां वर्णानाम् ; अथवा कर्मकाण्डेन मन्त्रब्राह्मणेन वेदानुवचनेन विविदिषन्ति ; कथं विविदिषन्तीत्युच्यते — यज्ञेनेत्यादि ॥
ये पुनः मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं विविदिषन्ति — इति व्याचक्षते, तेषाम् आरण्यकमात्रमेव वेदानुवचनं स्यात् ; न हि कर्मकाण्डेन पर आत्मा प्रकाश्यते ; ‘तं त्वौपनिषदम्’ (बृ. उ. ३ । ९ । २६) इति विशेषश्रुतेः । वेदानुवचनेनेति च अविशेषितत्वात् समस्तग्राहि इदं वचनम् ; न च तदेकदेशोत्सर्गः युक्तः । ननु त्वत्पक्षेऽपि उपनिषद्वर्जमिति एकदेशत्वं स्यात् — न, आद्यव्याख्याने अविरोधात् अस्मत्पक्षे नैष दोषो भवति ; यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते, तदा उपनिषदपि गृहीतैवेति, वेदानुवचनशब्दार्थैकदेशो न परित्यक्तो भवति । यज्ञादिसहपाठाच्च — यज्ञादीनि कर्माण्येव अनुक्रमिष्यन् वेदानुवचनशब्दं प्रयुङ्क्ते ; तस्मात् कर्मैव वेदानुवचनशब्देनोच्यत इति गम्यते ; कर्म हि नित्यस्वाध्यायः ॥
कथं पुनः नित्यस्वाध्यायादिभिः कर्मभिः आत्मानं विविदिषन्ति ? नैव हि तानि आत्मानं प्रकाशयन्ति, यथा उपनिषदः — नैष दोषः, कर्मणां विशुद्धिहेतुत्वात् ; कर्मभिः संस्कृता हि विशुद्धात्मानः शक्नुवन्ति आत्मानमुपनिषत्प्रकाशितम् अप्रतिबन्धेन वेदितुम् ; तथा ह्याथर्वणे — ‘विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (मु. उ. ३ । १ । ८) इति ; स्मृतिश्च ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ (मो. ध. २०४ । ८) इत्यादिः । कथं पुनः नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते ? ‘स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते’ (शत. ब्रा. ११ । २ । ६ । १३) इत्यादिश्रुतेः ; सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येव आचक्षते ‘अष्टाचत्वारिंशत्संस्काराः’ (गौ. ध. १ । ८ । ८ तः २२, २४, २५) इत्यादिषु । गीतासु च — ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् । ’ (भ. गी. १८ । ५) ‘सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः’ (भ. गी. ४ । ३०) इति । यज्ञेनेति — द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः ; संस्कृतस्य च विशुद्धसत्त्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यति ; अतो यज्ञेन विविदिषन्ति । दानेन — दानमपि पापक्षयहेतुत्वात् धर्मवृद्धिहेतुत्वाच्च । तपसा, तप इति अविशेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणम् — अनाशकेनेति ; कामानशनम् अनाशकम् , न तु भोजननिवृत्तिः ; भोजननिवृत्तौ म्रियत एव, न आत्मवेदनम् । वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यं कर्म उपलक्ष्यते ; एवं काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रतिपद्यते ; एवं कर्मकाण्डेन अस्य एकवाक्यतावगतिः । एवं यथोक्तेन न्यायेन एतमेव आत्मानं विदित्वा यथाप्रकाशितम् , मुनिर्भवति, मननान्मुनिः, योगी भवतीत्यर्थः ; एतमेव विदित्वा मुनिर्भवति, नान्यम् । ननु अन्यवेदनेऽपि मुनित्वं स्यात् ; कथमवधार्यते — एतमेवेति — बाढम् , अन्यवेदनेऽपि मुनिर्भवेत् ; किं तु अन्यवेदने न मुनिरेव स्यात् , किं तर्हि कर्म्यपि भवेत् सः ; एतं तु औपनिषदं पुरुषं विदित्वा, मुनिरेव स्यात् , न तु कर्मी ; अतः असाधारणं मुनित्वं विवक्षितमस्येति अवधारयति — एतमेवेति ; एतस्मिन्हि विदिते, केन कं पश्येदित्येवं क्रियासम्भवात् मननमेव स्यात् । किं च एतमेव आत्मानं स्वं लोकम् इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति प्रकर्षेण व्रजन्ति, सर्वाणि कर्माणि सन्न्यस्यन्तीत्यर्थः । ‘एतमेव लोकमिच्छन्तः’ इत्यवधारणात् न बाह्यलोकत्रयेप्सूनां पारिव्राज्ये अधिकार इति गम्यते ; न हि गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुखः प्रैति । तस्मात् बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम् , ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा’ (बृ. उ. १ । ५ । १६) इत्यादिश्रुतेः ; अतः तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय, न पारिव्राज्यं प्रतिपत्तुं युक्तम् , अतत्साधनत्वात्पारिव्राज्यस्य । तस्मात् ‘एतमेव लोकमिच्छन्तः प्रव्रजन्ति’ इति युक्तमवधारणम् । आत्मलोकप्राप्तिर्हि अविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव । तस्मात् आत्मानं चेत् लोकमिच्छति यः, तस्य सर्वक्रियोपरम एव आत्मलोकसाधनं मुख्यम् अन्तरङ्गम् , यथा पुत्रादिरेव बाह्यलोकत्रयस्य, पुत्रादिकर्मण आत्मलोकं प्रति असाधनत्वात् । असम्भवेन च विरुद्धत्वमवोचाम । तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्त्येव, सर्वक्रियाभ्यो निवर्तेरन्नेवेत्यर्थः । यथा च बाह्यलोकत्रयार्थिनः प्रतिनियतानि पुत्रादीनि साधनानि विहितानि, एवमात्मलोकार्थिनः सर्वैषणानिवृत्तिः पारिव्राज्यं ब्रह्मविदो विधीयत एव । कुतः पुनः ते आत्मलोकार्थिनः प्रव्रजन्त्येवेत्युच्यते ; तत्र अर्थवादवाक्यरूपेण हेतुं दर्शयति — एतद्ध स्म वै तत् । तदेतत् पारिव्राज्ये कारणमुच्यते — ह स्म वै किल पूर्वे अतिक्रान्तकालीना विद्वांसः आत्मज्ञाः, प्रजां कर्म अपरब्रह्मविद्यां च ; प्रजोपलक्षितं हि त्रयमेतत् बाह्यलोकत्रयसाधनं निर्दिश्यते ‘प्रजाम्’ इति । प्रजां किम् ? न कामयन्ते, पुत्रादिलोकत्रयसाधनं न अनुतिष्ठन्तीत्यर्थः । ननु अपरब्रह्मदर्शनमनुतिष्ठन्त्येव, तद्बलाद्धि व्युत्थानम् — न अपवादात् ; ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’ (बृ. उ. २ । ४ । ६) ‘सर्वं तं परादात् —’ इति अपरब्रह्मदर्शनमपि अपवदत्येव, अपरब्रह्मणोऽपि सर्वमध्यान्तर्भावात् ; ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) इति च ; पूर्वापरबाह्यान्तरदर्शनप्रतिषेधाच्च अपूर्वमनपरमनन्तरमबाह्यमिति ; ‘तत्केन कं पश्येद्विजानीयात्’ (बृ. उ. २ । ४ । १४) इति च ; तस्मात् न आत्मदर्शनव्यतिरेकेण अन्यत् व्युत्थानकारणमपेक्षते । कः पुनः तेषामभिप्राय इत्युच्यते — किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन ; प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता ; स च बाह्यलोको नास्ति अस्माकम् आत्मव्यतिरिक्तः ; सर्वं हि अस्माकम् आत्मभूतमेव, सर्वस्य च वयम् आत्मभूताः ; आत्मा च नः आत्मत्वादेव न केनचित् साधनेन उत्पाद्यः आप्यः विकार्यः संस्कार्यो वा । यदपि आत्मयाजिनः संस्कारार्थं कर्मेति, तदपि कार्यकरणात्मदर्शनविषयमेव, इदं मे अनेन अङ्गं संस्क्रियते — इति अङ्गाङ्गित्वादिश्रवणात् ; न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनः अङ्गाङ्गिसंस्कारोपधानदर्शनं सम्भवति । तस्मात् न किञ्चित् प्रजादिसाधनैः करिष्यामः ; अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम् ; न हि मृगतृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊषरमात्रमुदकाभावं पश्यतोऽपि प्रवृत्तिर्युक्ता ; एवम् अस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे अविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः । तदेतदुच्यते — येषाम् अस्माकं परमार्थदर्शिनां नः, अयमात्मा अशनायादिविनिर्मुक्तः साध्वसाधुभ्यामविकार्यः अयं लोकः फलमभिप्रेतम् ; न चास्य आत्मनः साध्यसाधनादिसर्वसंसारधर्मविनिर्मुक्तस्य साधनं किञ्चित् एषितव्यम् ; साध्यस्य हि साधनान्वेषणा क्रियते ; असाध्यस्य साधनान्वेषणायां हि, जलबुद्ध्या स्थल इव तरणं कृतं स्यात् , खे वा शाकुनपदान्वेषणम् । तस्मात् एतमात्मानं विदित्वा प्रव्रजेयुरेव ब्राह्मणाः, न कर्म आरभेरन्नित्यर्थः, यस्मात् पूर्वे ब्राह्मणा एवं विद्वांसः प्रजामकामयमानाः । ते एवं साध्यसाधनसंव्यवहारं निन्दन्तः अविद्वद्विषयोऽयमिति कृत्वा, किं कृतवन्त इत्युच्यते — ते ह स्म किल पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीत्यादि व्याख्यातम् ॥
तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयुः — इत्येष विधिः अर्थवादेन सङ्गच्छते ; न हि सार्थवादस्य अस्य लोकस्तुत्याभिमुख्यम् उपपद्यते ; प्रव्रजन्तीत्यस्यार्थवादरूपो हि ‘एतद्ध स्म’ इत्यादिरुत्तरो ग्रन्थः ; अर्थवादश्चेत् , नार्थवादान्तरमपेक्षेत ; अपेक्षते तु ‘एतद्ध स्म’ इत्याद्यर्थवादं ‘प्रव्रजन्ति’ इत्येतत् । यस्मात् पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्रजितवन्त एव, तस्मात् अधुनातना अपि प्रव्रजन्ति प्रव्रजेयुः — इत्येवं सम्बध्यमानं न लोकस्तुत्यभिमुखं भवितुमर्हति ; विज्ञानसमानकर्तृकत्वोपदेशादित्यादिना अवोचाम । वेदानुवचनादिसहपाठाच्च ; यथा आत्मवेदनसाधनत्वेन विहितानां वेदानुवचनादीनां यथार्थत्वमेव, नार्थवादत्वम् , तथा तैरेव सह पठितस्य पारिव्राज्यस्य आत्मलोकप्राप्तिसाधनत्वेन अर्थवादत्वमयुक्तम् । फलविभागोपदेशाच्च ; ‘एतमेवात्मानं लोकं विदित्वा’ इति अन्यस्मात् बाह्यात् लोकात् आत्मानं फलान्तरत्वेन प्रविभजति, यथा — पुत्रेणैवायं लोको जय्यः नान्येन कर्मणा, कर्मणा पितृलोकः — इति । न च प्रव्रजन्तीत्येतत् प्राप्तवत् लोकस्तुतिपरम् , प्रधानवच्च अर्थवादापेक्षम् — सकृच्छ्रुतं स्यात् । तस्मात् भ्रान्तिरेव एषा — लोकस्तुतिपरमिति । न च अनुष्ठेयेन पारिव्राज्येन स्तुतिरुपपद्यते ; यदि पारिव्राज्यम् अनुष्ठेयमपि सत् अन्यस्तुत्यर्थं स्यात् , दर्शपूर्णमासादीनामपि अनुष्ठेयानां स्तुत्यर्थता स्यात् । न च अन्यत्र कर्तव्यता एतस्माद्विषयात् निर्ज्ञाता, यत इह स्तुत्यर्थो भवेत् । यदि पुनः क्वचिद्विधिः परिकल्प्येत पारिव्राज्यस्य, स इहैव मुख्यः नान्यत्र सम्भवति । यदपि अनधिकृतविषये पारिव्राज्यं परिकल्प्यते, तत्र वृक्षाद्यारोहणाद्यपि पारिव्राज्यवत् कल्प्येत, कर्तव्यत्वेन अनिर्ज्ञातत्वाविशेषात् । तस्मात् स्तुतित्वगन्धोऽपि अत्र न शक्यः कल्पयितुम् ॥
यदि अयमात्मा लोक इष्यते, किमर्थं तत्प्राप्तिसाधनत्वेन कर्माण्येव न आरभेरन् , किं पारिव्राज्येन — इत्यत्रोच्यते — अस्य आत्मलोकस्य कर्मभिरसम्बन्धात् ; यमात्मानमिच्छन्तः प्रव्रजेयुः, स आत्मा साधनत्वेन फलत्वेन च उत्पाद्यत्वादिप्रकाराणामन्यतमत्वेनापि कर्मभिः न सम्बध्यते ; तस्मात् — स एष नेति नेत्यात्मागृह्यो न हि गृह्यते — इत्यादिलक्षणः ; यस्मात् एवंलक्षण आत्मा कर्मफलसाधनासम्बन्धी सर्वसंसारधर्मविलक्षणः अशनायाद्यतीतः अस्थूलादिधर्मवान् अजोऽजरोऽमरोऽमृतोऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभावः स्वयं ज्योतिः एक एवाद्वयः अपूर्वोऽनपरोऽनन्तरोऽबाह्यः — इत्येतत् आगमतस्तर्कतश्च स्थापितम् , विशेषतश्चेह जनकयाज्ञवल्क्यसंवादे अस्मिन् ; तस्मात् एवंलक्षणे आत्मनि विदिते आत्मत्वेन नैव कर्मारम्भ उपपद्यते । तस्मादात्मा निर्विशेषः । न हि चक्षुष्मान् पथि प्रवृत्तः अहनि कूपे कण्टके वा पतति ; कृत्स्नस्य च कर्मफलस्य विद्याफलेऽन्तर्भावात् ; न च अयत्नप्राप्ये वस्तुनि विद्वान् यत्नमातिष्ठति ; ‘अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य सम्प्राप्तौ को विद्वान्यत्नमाचरेत्’ ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते —’ (भ. गी. ४ । ३३) इति गीतासु । इहापि च एतस्यैव परमानन्दस्य ब्रह्मवित्प्राप्यस्य अन्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम् । अतो ब्रह्मविदां न कर्मारम्भः ॥
यस्मात् सर्वैषणाविनिवृत्तः स एष नेति नेत्यात्मानमात्मत्वेनोपगम्य तद्रूपेणैव वर्तते, तस्मात् एतम् एवंविदं नेति नेत्यात्मभूतम् , उ ह एव एते वक्ष्यमाणे न तरतः न प्राप्नुतः — इति युक्तमेवेति वाक्यशेषः । के ते इत्युच्यते — अतः अस्मान्निमित्तात् शरीरधारणादिहेतोः, पापम् अपुण्यं कर्म अकरवं कृतवानस्मि — कष्टं खलु मम वृत्तम् , अनेन पापेन कर्मणा अहं नरकं प्रतिपत्स्ये — इति योऽयं पश्चात् पापं कर्म कृतवतः — परितापः स एवं नेति नेत्यात्मभूतं न तरति ; तथा अतः कल्याणं फलविषयकामान्निमित्तात् यज्ञदानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि, अतोऽहम् अस्य फलं सुखमुपभोक्ष्ये देहान्तरे — इत्येषोऽपि हर्षः तं न तरति । उभे उ ह एव एषः ब्रह्मवित् एते कर्मणी तरति पुण्यपापलक्षणे । एवं ब्रह्मविदः सन्न्यासिन उभे अपि कर्मणी क्षीयेते — पूर्वजन्मनि कृते ये ते, इह जन्मनि कृते ये ते च ; अपूर्वे च न आरभ्येते । किं च नैनं कृताकृते, कृतं नित्यानुष्ठानम् , अकृतं तस्यैव अक्रिया, ते अपि कृताकृते एनं न तपतः ; अनात्मज्ञं हि, कृतं फलदानेन, अकृतं प्रत्यवायोत्पादनेन, तपतः ; अयं तु ब्रह्मवित् आत्मविद्याग्निना सर्वाणि कर्माणि भस्मीकरोति, ‘यथैधांसि समिद्धोऽग्निः’ (भ. गी. ४ । ३७) इत्यादिस्मृतेः ; शरीरारम्भकयोस्तु उपभोगेनैव क्षयः । अतो ब्रह्मवित् अकर्मसम्बन्धी ॥
तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति ॥ २३ ॥
तदेतद्वस्तु ब्राह्मणेनोक्तम् ऋचा मन्त्रेण अभ्युक्तम् प्रकाशितम् । एषः नेति नेत्यादिलक्षणः नित्यो महिमा ; अन्ये तु महिमानः कर्मकृता इत्यनित्याः ; अयं तु तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यः ब्रह्मविदः ब्राह्मणस्य त्यक्तसर्वैषणस्य । कुतोऽस्य नित्यत्वमिति हेतुमाह — कर्मणा न वर्धते शुभलक्षणेन कृतेन वृद्धिलक्षणां विक्रियां न प्राप्नोति ; अशुभेन कर्मणा नो कनीयान् नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति ; उपचयापचयहेतुभूता एव हि सर्वा विक्रिया इति एताभ्यां प्रतिषिध्यन्ते ; अतः अविक्रियात्वात् नित्य एष महिमा । तस्मात् तस्यैव महिम्नः, स्यात् भवेत् , पदवित् — पदस्य वेत्ता, पद्यते गम्यते ज्ञायत इति महिम्नः स्वरूपमेव पदम् , तस्य पदस्य वेदिता । किं तत्पदवेदनेन स्यादित्युच्यते — तं विदित्वा महिमानम् , न लिप्यते न सम्बध्यते कर्मणा पापकेन धर्माधर्मलक्षणेन, उभयमपि पापकमेव विदुषः । यस्मादेवम् अकर्मसम्बन्धी एष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणः, तस्मात् एवंवित् शान्तः बाह्येन्द्रियव्यापारत उपशान्तः, तथा दान्तः अन्तःकरणतृष्णातो निवृत्तः, उपरतः सर्वैषणाविनिर्मुक्तः सन्न्यासी, तितिक्षुः द्वन्द्वसहिष्णुः, समाहितः इन्द्रियान्तःकरणचलनरूपाद्व्यावृत्त्या ऐकाग्र्यरूपेण समाहितो भूत्वा ; तदेतदुक्तं पुरस्तात् ‘बाल्यं च पाण्डित्यं च निर्विद्य’ (बृ. उ. ३ । ५ । १) इति ; आत्मन्येव स्वे कार्यकरणसङ्घाते आत्मानं प्रत्यक्चेतयितारं पश्यति । तत्र किं तावन्मात्रं परिच्छिन्नम् ? नेत्युच्यते — सर्वं समस्तम् आत्मानमेव पश्यति, नान्यत् आत्मव्यतिरिक्तं वालाग्रमात्रमप्यस्तीत्येवं पश्यति ; मननात् मुनिर्भवति जाग्रत्स्वप्नसुषुप्ताख्यं स्थानत्रयं हित्वा । एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पुण्यपापलक्षणः तरति, न प्राप्नोति ; अयं तु ब्रह्मवित् सर्वं पाप्मानं तरति आत्मभावेनैव व्याप्नोति अतिक्रामति । नैनं पाप्मा कृताकृतलक्षणः तपति इष्टफलप्रत्यवायोत्पादनाभ्याम् ; सर्वं पाप्मानम् अयं तपति ब्रह्मवित् सर्वात्मदर्शनवह्निना भस्मीकरोति । स एष एवंवित् विपापः विगतधर्माधर्मः, विरजः विगतरजः, रजः कामः, विगतकामः, अविचिकित्सः छिन्नसंशयः, अहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिः ब्राह्मणो भवति — अयं तु एवंभूतः एतस्यामवस्थायां मुख्यो ब्राह्मणः, प्रागेतस्मात् ब्रह्मस्वरूपावस्थानात् गौणमस्य ब्राह्मण्यम् । एष ब्रह्मलोकः — ब्रह्मैव लोको ब्रह्मलोकः मुख्यो निरुपचरितः सर्वात्मभावलक्षणः, हे सम्राट् । एनं ब्रह्मलोकं परिप्रापितोऽसि अभयं नेति नेत्यादिलक्षणम् — इति होवाच याज्ञवल्क्यः । एवं ब्रह्मभूतो जनकः याज्ञवल्क्येन ब्रह्मभावमापादितः प्रत्याह — सोऽहं त्वया ब्रह्मभावमापादितः सन् भगवते तुभ्यम् विदेहान् देशान् मम राज्यं समस्तं ददामि, मां च सह विदेहैः दास्याय दासकर्मणे — ददामीति च - शब्दात्सम्बध्यते । परिसमापिता ब्रह्मविद्या सह सन्न्यासेन साङ्गा सेतिकर्तव्यताका ; परिसमाप्तः परमपुरुषार्थः ; एतावत् पुरुषेण कर्तव्यम् , एष निष्ठा, एषा परा गतिः, एतन्निःश्रेयसम् , एतत्प्राप्य कृतकृत्यो ब्राह्मणो भवति, एतत् सर्ववेदानुशासनमिति ॥
स वा एष महानज आत्मान्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २४ ॥
योऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा स वै एषः महान् अजः आत्मा अन्नादः सर्वभूतस्थः सर्वान्नानामत्ता, वसुदानः — वसु धनं सर्वप्राणिकर्मफलम् — तस्य दाता, प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः ; तमेतत् अजमन्नादं वसुदानमात्मानम् अन्नादवसुदानगुणाभ्यां युक्तम् यो वेद, सः सर्वभूतेष्वात्मभूतः अन्नमत्ति, विन्दते च वसु सर्वं कर्मफलजातं लभते सर्वात्मत्वादेव, य एवं यथोक्तं वेद । अथवा दृष्टफलार्थिभिरपि एवंगुण उपास्यः ; तेन अन्नादः वसोश्च लब्धा, दृष्टेनैव फलेन अन्नात्तृत्वेन गोश्वादिना च अस्य योगो भवतीत्यर्थः ॥
स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेद ॥ २५ ॥
इदानीं समस्तस्यैव आरण्यकस्य योऽर्थ उक्तः, स समुच्चित्य अस्यां कण्डिकायां निर्दिश्यते, एतावान्समस्तारण्यकार्थ इति । स वा एष महानज आत्मा अजरः न जीर्यत इति, न विपरिणमत इत्यर्थः ; अमरः — यस्माच्च अजरः, तस्मात् अमरः, न म्रियत इत्यमरः ; यो हि जायते जीर्यते च, स विनश्यति म्रियते वा ; अयं तु अजत्वात् अजरत्वाच्च अविनाशी यतः, अत एव अमृतः । यस्मात् जनिप्रभृतिभिः त्रिभिर्भावविकारैः वर्जितः, तस्मात् इतरैरपि भावविकारैस्त्रिभिः तत्कृतैश्च कामकर्ममोहादिभिर्मृत्युरूपैर्वर्जित इत्येतत् । अभयः अत एव ; यस्माच्च एवं पूर्वोक्तविशेषणः, तस्माद्भयवर्जितः ; भयं च हि नाम अविद्याकार्यम् ; तत्कार्यप्रतिषेधेन भावविकारप्रतिषेधेन च अविद्यायाः प्रतिषेधः सिद्धो वेदितव्यः । अभय आत्मा एवंगुणविशिष्टः किमसौ ? ब्रह्म परिवृढं निरतिशयं महदित्यर्थः । अभयं वै ब्रह्म ; प्रसिद्धमेतत् लोके — अभयं ब्रह्मेति । तस्माद्युक्तम् एवंगुणविशिष्ट आत्मा ब्रह्मेति । य एवं यथोक्तमात्मानमभयं ब्रह्म वेद, सः अभयं हि वै ब्रह्म भवति । एष सर्वस्या उपनिषदः सङ्क्षिप्तोऽर्थ उक्तः । एतस्यैवार्थस्य सम्यक्प्रबोधाय उत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा च आत्मनि कृता ; तदपोहेन च नेति नेतीत्यध्यारोपितविशेषापनयद्वारेण पुनः तत्त्वमावेदितम् । यथा एकप्रभृत्यापरार्धसङ्ख्यास्वरूपपरिज्ञानाय रेखाध्यारोपणं कृत्वा — एकेयं रेखा, दशेयम् , शतेयम् , सहस्रेयम् — इति ग्राहयति, अवगमयति सङ्ख्यास्वरूपं केवलम् , न तु सङ्ख्याया रेखात्मत्वमेव ; यथा च अकारादीन्यक्षराणि विजिग्राहयिषुः पत्रमषीरेखादिसंयोगोपायमास्थाय वर्णानां सतत्त्वमावेदयति, न पत्रमष्याद्यात्मतामक्षराणां ग्राहयति — तथा चेह उत्पत्त्याद्यनेकोपायमास्थाय एकं ब्रह्मतत्त्वमावेदितम् , पुनः तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः । तदुपसंहृतं पुनः परिशुद्धं केवलमेव सफलं ज्ञानम् अन्तेऽस्यां कण्डिकायामिति ॥
इति चतुर्थाध्यायस्य चतुर्थं ब्राह्मणम् ॥
यत उत्क्रान्तिरुक्तेयं विशिष्टफ़लसंगतेः ||
सर्वेषामविशिष्टाऽतः स यत्रेत्युच्यतेऽधुना || १ ||
करणानां समुत्क्रान्तिर्गमनं च तयोः समम् ||
प्रागुक्तं तत्र यन्नोक्तं तदेवेहोच्यतेऽधुना || २ ||
संसारस्याधिकारोऽयमा श्लोकोदाहृतेर्मतः ||
स यत्रेत्यत आरभ्य पुंसः संसारवर्णनम् || ३ ||
पुंसः संसरणं पूर्वं सूत्रितं यत्समासतः ||
विस्तरस्तस्य वक्तव्य इत्यर्था वा परा श्रुतिः || ४ ||
तत्संप्रमोक्षणं कस्मिन्पुंसः कालेऽभिजायते ||
कथं वेत्यादिकोऽत्रार्थो विस्तरेणोपवर्ण्यते || ५ ||
प्रकृतात्मपरामर्शः सशब्देन विवक्ष्यते ||
संसारानर्थसंबन्धविज्ञानाय तमस्विनः || ६ ||
य आत्मा प्रस्तुतोऽविद्वान्स यदेदं शरीरकम् ||
कार्श्यं प्रापय्य पूर्वोक्तैर्जरारोगादिहेतुभिः || ७ ||
यदि वा स्वयमेवैत्य देहाभेदत्वहेतुतः ||
दौर्बल्यमेवं संप्राप्य संमोहमिव यात्यथ || ८ ||
मूर्छादाविव संमोहमिहाप्यात्मा निगच्छति ||
बोधमात्रैकयाथात्म्यान्नायं संमोहभाग्यतः ||
संमूढबुद्धिसाक्षित्वात्संमूढ इव भात्यतः || ९ ||
संमोहहेतुकं कार्यं संमोहात्मकमिष्यते ||
अकार्यकारणं प्रत्यग्ज्योतिः संमुह्यते कुतः || १० ||
कार्श्यसंमोहसंबन्धो यतो नास्य स्वतस्ततः ||
मोहोत्थदेहबुद्ध्यादिसंगतेरिवगीरियम् || ११ ||
उत्क्रान्तिकाले प्राणानां स्वस्थानादार्ढ्यहेतुका ||
स्वगोचरेष्वशक्तिर्या संमोहोऽसाविहाऽऽत्मनः || १२ ||
दाहच्छेदादयो यद्वददाह्याच्छेद्यतन्विनः ||
परोपाधिनिमित्ताः स्युर्दुर्बलत्वादयस्तथा || १३ ||
बाह्या तावदियं वृत्तिर्व्याख्याता प्रत्यगात्मनः ||
कार्श्यसंमोहरूपा या प्रसिद्धा जगतीदृशी || १४ ||
मरिष्यतोऽस्य या वृत्तिरान्तरी साऽधुनोच्यते ||
हृत्सद्मन्युपसंहारो यथा स्यादिन्द्रियात्मनाम् || १५ ||
अथैनमुच्चिक्रिमिषु विज्ञानात्मानमीश्वरम् ||
प्राणा वागादयः सर्वे तं समायन्ति कृत्स्नतः || १६ ||
अभीति चाऽऽभिमुख्येऽर्थे सं तु सामस्त्य इष्यते ||
अवध्यर्थे तथाऽऽङत्र यन्तीत्यस्य विशेषणम् || १७ ||
स्वाश्रयेभ्यो यियासन्ति करणानि हृदीश्वरम् ||
यदैषां स्थानसंबन्धविमोक्षः स्यात्तदैव तु || १८ ||
कथं तमभिसंयान्तीत्युक्ते श्रुत्याऽभिधीयते ||
आत्मानमभिसंयान्ति वागादीनि यथा स्फ़ुटम् || १९ ||
स आत्मा प्रकृतस्त्वेताश्चक्षुःश्चोत्रादिलक्षणः ||
तेजोमात्रा यथादेशं समये मृतिकर्मणः || २० ||
उद्भूताकूतविज्ञानो मृतिं प्रति यदा तदा ||
आकूतानुविधायीनि जायन्ते करणान्यथ || २१ ||
स्वाकूतानुविधायित्वं यत्तदा करणात्मनाम् ||
अभ्याददान इति तत्कर्तृत्वं स्यादिहाऽऽत्मनः || २२ ||
एतत्कर्तृत्वमापेक्ष्य श्रुत्यैवमभिधीयते ||
अभ्याददान इति तु तेजोमात्राः स्वदेशतः || २३ ||
मीयन्ते विषया याभिर्मात्रास्ताश्चक्षुरादयः ||
तेजोविकृतिहेतुत्वात्तेजोमात्राश्च ताः स्मृताः || २४ ||
सत्त्वं तेजोऽत्र विज्ञेयं तदेव करणात्मना ||
प्रविभक्तं हि तच्छब्दस्पर्शाद्यर्थावभासनात् || २५ ||
पित्ताख्यां वा भवेत्तेजस्तदंशाश्चक्षुरादयः ||
इत्येवमायुर्वेदज्ञाः करणानि प्रचक्षते || २६ ||
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ||
इति प्रकाशरूपत्वं करणानां श्रुतिर्जगौ || २७ ||
भौतिकस्तु प्रकाशोऽयं भौतिकार्थप्रकाशनात् ||
प्रदीपवन्न भूतेभ्यो जात्यन्तरमतो भवेत् || २८ ||
स्पष्टं च वक्ष्यतेऽथोर्ध्वमेतेभ्य इति हि श्रुतिः ||
अक्षाणि भौतिकान्येव नातः शक्तय आत्मनः || २९ ||
लिङ्गात्मकानां भूताना निर्देशोऽविद्यया सह ||
तन्नाशमनु नाशः स्याद्यतो दुःखात्मनस्ततः || ३० ||
पिण्डनाशेऽपि नैवास्य नाशः संसारिणो यतः ||
अविद्यादीनि भूतानि तत्रोच्यन्ते ततो ध्रुवम् || ३१ ||
मात्रासंसर्ग एवास्य तथाचैव प्रवक्ष्यते ||
विज्ञानेनाथ विज्ञानमादायेत्यपि चावदत् || ३२ ||
अस्य लोकस्य चेत्युक्तं शुक्रमित्यादि चापरम् ||
सर्वेष्वेषु प्रदेशेषु भूतमात्राग्रहः श्रुतौ || ३३ ||
भूतेभ्यो नापरं वस्तु यस्मादात्मन ईक्ष्यते || ३४ ||
अतो विवेको भूतानां यः परोऽतीव शुद्धितः ||
तेजोमात्रादिवचसा स एवात्राभिधीयते || ३५ ||
इन्द्रियाणीन्द्रियार्थाश्च न विकारः परात्मनः ||
अतो न जायत इति तद्विकारनिषेधतः || ३६ ||
जन्मादिविक्रियाषट्कं साक्षान्न परमात्मनः ||
अपूर्वानपराद्युक्तेर्नेति नेत्यादिवाक्यतः || ३७ ||
न च वेदान्तसिद्धान्ते परमात्मातिरेकतः ||
इष्टं विकारवद्वस्तु यथा कापिलशासने || ३८ ||
स्वतः कूटस्थतत्त्वस्य तदसंबोधतस्ततः ||
जन्मादिविक्रियाषट्कसंगतिः स्यात्परात्मनः || ३९ ||
आत्मकारणवादोऽयमेवं सत्युपपद्यते ||
न तु विध्वस्तनिःशेषजन्मनाशादिकारणे || ४० ||
तेजोऽतो भौतिकं सर्वमन्यत्र परमात्मनः ||
स्वयंज्योतिःप्रसङ्गेन तदुक्तं प्रागपि श्रुतौ || ४१ ||
आदित्यादीनि तेजांसि तथाऽध्यात्माधिभूतयोः ||
भौतिकान्येय तानीति प्रत्यङ् तेभ्यो विलक्षणः || ४२ ||
ता एतास्तेजसो मात्राः समस्ताश्चाऽऽभिमुख्यतः ||
सामस्त्येनाऽऽददानः सन्हृत्सद्मन्युपसर्पति || ४३ ||
अभ्याददान एवायमन्ववक्रामतीश्वरः ||
न त्वाक्रम्य समादत्ते कथं तदिति भण्यते || ४४ ||
विशेषज्ञानलाभोऽस्य लिङ्गात्मानुविधानतः ||
यतस्तदपकर्षेण विज्ञानात्मोपसंहृतिः || ४५ ||
तद्व्याप्तौ चापि संव्याप्तिरापादतलमस्तकम् ||
स्वतस्तु व्याप्तिसंहाररहितत्वात्परात्मनः || ४६ ||
सैन्धवादिरसव्याप्ते पीयमाने यथोदके ||
पानं सलवणस्यैवं लिङ्ङात्मनुविधायिता || ४७ ||
सोऽभ्यादानस्य कर्ताऽत्र लिङ्गं योऽस्मीति मन्यते ||
आक्रामद्धृदयं लिङ्गमन्ववक्रामतीव सः || ४८ ||
तथा हृदयशब्देन तत्स्था धीरभिधीयते ||
एवेत्यवधृतिश्चाम्र स्वप्नप्राज्ञनिवृत्तये || ४९ ||
विशेषकार्यवाहिभ्यः स्रोतोभ्यः स्वप्नभूमिगः ||
विशेषाननुसृप्याऽऽत्मा यात्वा हृदयमाश्रयम् || ५० ||
पुरीतत्प्रमुखं देहं वृत्त्या सामान्यरूपया ||
तप्तलोहादिवद्व्याप्य शेते प्राणात्मतां गतः || ५१ ||
इह त्वेवेति निःशेषा लिङ्गस्यास्योपसंहृतिः ||
विशेषेभ्योऽविशेषेभ्यो युक्तं प्रत्यवसर्पणम् || ५२ ||
अवदध्रेऽत एवेति मा भूत्स्वप्नादिवत्स्थितिः ||
सामान्यं वा विशेषो वा न यतोऽत्रावशिष्यते ||
कार्त्स्न्येन हृदय एव पिण्डीभावं व्रजत्यतः || ५३ ||
विधिराकर्षणो तावत्तेजोमात्राश्रयो गतः ||
अथासंवेदनाविधिर्मुमूर्षोरुच्यते यथा || ५४ ||
साधारणात्मनो योंऽशो भोक्तृकर्मवशीकृतः ||
अध्यात्मं चक्षुषि रवेश्चक्षुर्व्यापारसिद्धिकृत् || ५५ ||
कर्मोपभोगसिद्ध्यर्थं परिच्छिन्नः स्वचक्षुषा ||
चाक्षुषोऽतः स विज्ञेयः सामान्यात्माऽपि भास्करः || ५६ ||
स एष पुरुषो यत्र तत्प्रयोक्तृक्रियाक्षये ||
क्षेत्रज्ञार्थात्पराङेव पर्यावर्तत आत्मनि || ५७ ||
निरनुग्रहतैवास्य पर्यावर्तनमुच्यते || ५८ ||
हृल्लिङ्गप्रसृतो योंऽश उपभोगार्थमक्षिणि ||
सोऽस्य कर्मक्षयादक्ष्णः पराङावर्तते हृदि || ५९ ||
चाक्षुषे पुरुषे तस्मिन्नावृत्ते कर्मणः क्षयात् ||
देवता देवतामेति लिङ्गैक्यं करणं तथा || ६० ||
अथैवं स्यरूपज्ञो देवताकरणच्युतेः ||
आत्मैवमुक्तानुक्तेषु योज्यं प्राणेष्वशेषतः || ६१ ||
चेतनावदधिष्ठानात्करणादेर्जडात्मनः ||
प्रवृत्तिर्नियता दृष्टा लोकेऽतो न विपर्यते || ६२ ||
अरूपज्ञत्वहेतुः क इत्याशङ्क्योत्तरं वचः ||
लोकप्रसिद्धिमाचष्ट एकीत्यादि मुमूर्षति || ६३ ||
एकी भवति सावित्रः सवित्रांऽशस्तथैव च ||
लिङ्गांशश्चाक्षुषो व्यूढो लिङ्गैक्यं प्रतिपद्यते || ६४ ||
स्वांशिभ्यामेकतापत्तौ देवतालिङ्गभागयोः ||
अथारूपज्ञतामेति यः प्राग्रूपादिवेद्यभूत् || ६५ ||
अथैनं पार्श्वगाः प्राहुर्बन्धवोऽस्य मुमूर्षतः ||
वाक्यमेकी भवतीति निराशास्तस्य जीविते || ६६ ||
करणे देवता यस्मिन्पूर्वं मुञ्चत्यनुग्रहम् ||
तस्यैव प्रथमं वृत्तिनिरोध उपजायते || ६७ ||
कस्मिंश्चित्करणे वृत्तिनिरोधः पूर्वमीक्ष्यते ||
अयौगपद्येनोत्क्रान्तौ तल्लिङ्गं देवतात्मनाम् || ६८ ||
यदाऽऽलोचनमात्रं स्याद्रूपादौ चक्षुरादिभिः ||
प्रविवेक्ता तु रूपादेः सम्यङ्नैव पुमान्भॆवेत् || ६९ ||
तदोत्क्रान्तां विजानीयान्मनसो देवतामितः ||
केवलालोचनाल्लिङ्गात्तथा बुद्धेश्च देवताम् || ७० ||
एवं तद्देवतोक्रान्तावेकीभावेन संगतेः ||
मनुते नो न जानातीत्येवमाहुस्तथा जनाः || ७१ ||
उक्तं विमोक्षणं तावत्करणानां स्वदेशतः ||
असंविज्ञानता चोक्ता हृदये चोपसंहृतिः || ७२ ||
अथोपसंहृताशेषकरणस्याऽऽत्मनो यथा ||
लोकान्तरोपसंक्रान्तिस्तथैतदभिधीयते || ७३ ||
तस्यैतस्य यथोक्तस्य कृत्स्नप्राणोपसंहृतेः ||
नाड्यग्रं हृदयस्याथ प्रकर्षेण प्रकाशते || ७४ ||
सर्वेषु संहृतेष्वेवं करणेषु सवायुषु ||
बुद्धेः प्रद्योततेऽथाग्रं हृदयस्य यियासतः || ७५ ||
स एष कर्मजो बुद्धेः प्रकाशो जायते मृतौ ||
स्वकर्मनिर्मितं लोकं येनाऽऽत्माऽयं प्रपश्यति || ७६ ||
कर्मणैवास्य विज्ञानं तादात्म्यमुपनीयते ||
पश्चादापन्नतद्भावो देहमेतं विमुञ्चति || ७७ ||
भाविलोकात्मिका याऽस्य प्रत्यक्चैतन्यबिम्बिता ||
वासनैवाऽऽत्मनः प्रोक्ता प्रद्योतवचसा स्फ़ुटम् || ७८ ||
मात्रोपादानरूपेण स्वेन भासा पुराऽब्रवीत् ||
स्वेनैव ज्योतिषा स्वप्ने यथा तद्वदिहापि तत् || ७९ ||
प्रद्योतेन यथोक्तेन प्रद्योतितपथा कृत -
कर्मकार्योऽथ हृदयान्निष्क्रामति यथासुखम् || ८० ||
साध्वेवातः प्रयत्नेन कर्म कार्यं विपश्चिता ||
पश्यता प्राणिनामेवं कर्ममूलामिमां गतिम् || ८१ ||
आत्मा स्वकर्मणोपात्तं प्रद्योतेन यथोचितम् ||
लोकं पश्यन्स्वहृदयान्निष्क्रामति यथायथम् || ८२ ||
चक्षुष्टो वाऽथ मूर्ध्नो वा यं यं लोकं प्रपत्स्यते ||
तद्दूरेणैव निष्क्रामन्न कचित्प्रतिहन्यते || ८३ ||
आदित्यलोकसंप्राप्तौ चक्षुष्टोऽयं गिगच्छति ||
ब्रह्मलोकपरिप्राप्तौ मूर्ध्न आत्मा निगच्छति || ८४ ||
कर्मश्रुतानुरोधेन ह्यन्येभ्यो वा यथायथम् ||
हृदयसृतनाडीभिरित आत्मा निगच्छति || ८५ ||
लिङ्गं च सर्वतो गच्छन्न कचित्प्रतिहन्यते ||
अतिसूक्ष्मस्वभावत्वादपि लोहसमुद्रगम् || ८६ ||
उत्क्रामन्तं तमात्मानं यथोक्तेनेह वर्त्मना ||
प्राणोऽनूत्क्रामति ततः प्राणं प्राणास्तथा परे || ८७ ||
नन्वात्मप्राणवागादेरन्योन्यव्यतिमिश्रणात् ||
देशकालाद्यसंभेदात्क्रमेणोत्क्रमणं कथम् || ८८ ||
नैष दोषो यतो नेह क्रमकालो विवक्ष्यते ||
प्रयोजकप्रयोज्यत्वं यतोऽमीषां विवक्षितम् || ८९ ||
इहोच्चिक्रमिषा याऽस्य विज्ञानात्मैकसंश्रया ||
प्राणोत्क्रान्तेः प्रयोक्त्री सा वागाद्युत्क्रमणस्य च || ९० ||
मुख्यप्राणस्य योत्क्रान्तिः प्रयोक्त्री सैव नापरा ||
विज्ञानात्मैकनीडाया भावनायाः प्रधानता || ९१ ||
सा हि देहान्तरप्राप्तावात्मनो मार्गदर्शिनी ||
तया प्रयुक्तः प्राणोऽयं प्राणानादाय चेतरान् || ९२ ||
आत्मनाऽनन्यभूतः सञ्जलपात्रार्कवद्बहिः ||
निष्क्रामति यथाकर्म सविज्ञानो भवत्यथ || ९३ ||
ननूपसंहृताशेषकरणत्वादधीः पुमान् ||
तदाकूतानुगुण्यं स्यात्प्राणादेः कथमुच्यते || ९४ ||
प्रत्यभिज्ञात्मकं ज्ञानं संज्ञानमिति भण्यते ||
पूर्वं यद्धृदयस्याग्रद्योतनेन प्रकाशितम् || ९५ ||
भाविनोऽर्थस्य विज्ञानं प्रत्यभिज्ञानमुच्यते ||
स तथोद्भूतविज्ञान आत्मा देहान्निगच्छति || ९६ ||
हृदयाग्रप्रकाशेन निष्क्रान्तस्यापि देहतः ||
निःसंबोधस्य गमनं कथं देहान्तरं प्रति || ९७ ||
इत्यस्य परिहाराय स इत्यादि परं वचः ||
स एष ज्ञः परो देवः सविज्ञानो भवत्यथ || ९८ ||
संहृताशेषकरणो भावनाकर्महेतुतः ||
सविज्ञानो यथा स्वप्ने तथोत्क्रान्तावपीष्यते || ९९ ||
विशेषज्ञानसंबन्धः कर्मणैवास्य हेतुना ||
न तु स्वातंत्र्यतो लभ्यः स्वातन्त्र्यासंभवादिह || १०० ||
कृतकृत्यो भवेत्सर्वो विशेषज्ञानसंगतिः ||
स्वातन्त्र्येणेह चेल्लभ्या न तु लभ्या तथाऽऽह च || १०१ ||
यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् ||
तं तमेवैति कौन्तेय सदा तद्भावभावितः || १०२ ||
एवमात्मा सविज्ञानो गन्तव्य यत्पुराऽर्जितम् ||
तदात्मभावविज्ञानस्तदेवातो निगच्छति || १०३ ||
यत एवमतः पुम्भिः स्वातन्त्रायार्थं प्रयत्नतः ||
योगादिसाधनाभ्यासः कर्तव्यः पुण्यसंचयः || १०४ ||
सर्वशास्त्रसमारम्भस्तदर्थोऽयं महानिह ||
वाङ्भनःकायसाध्यानामुपायानां प्रबुद्धये || १०५ ||
तथाऽनर्थपरिप्राप्तावुपायानां निषेधनम् ||
एतावानेव शास्त्रार्थः कर्त्रधीनः सुखाप्तये || १०६ ||
मात्रालक्षणमादानं कृत्वा स्वप्नस्य सर्जनम् ||
यथेह न तथा किंचिदुपादानं समीक्ष्यते || १०७ ||
अथैवं देवतात्यक्ते लिङ्गे देहाद्बहिर्गते ||
लोकान्तरगतौ हेतुर्लोकारम्भे च भण्यताम् || १०८ ||
आत्मनः परलोकाय यत्स्याद्गमनकारणम् ||
भुङ्क्ते गत्वा च यत्तत्र देहारम्भे च कारणम् || १०९ ||
लिङ्गानस इतो देहाद्देहमन्यं निगच्छतः ||
संभारः कोऽस्य गत्यर्थो देहारम्भे च कथ्यताम् || ११० ||
इतो जिगमिषुं विद्याकर्मणी ये पुराऽर्जिते ||
तं समन्वारभेते ते या चाभूत्पूर्ववासना || १११ ||
विज्ञानं संशयज्ञानं मिथ्याज्ञानमथापि वा ||
प्रमाणतोऽप्रमाणाद्वा सर्वं विद्येति भण्यते || ११२ ||
संसारकारणध्वंसि यत्तु ज्ञानं परात्मगम् ||
तदत्र न परिग्राह्यं सर्वापत्कारणापनुत् || ११३ ||
संसारकारणं तस्मादात्माज्ञानाविरोधि यत् ||
अप्राप्तपरमार्थार्थं ज्ञानमात्रं जिघृक्षितम् || ११४ ||
वाङ्भनःकायसाध्यं च शास्त्रतो यदि वाऽन्यतः ||
दृष्टादृष्टार्थरूपं यत्तच्च कर्मेति गृह्यते || ११५ ||
अन्वारभेते गच्छन्तं यथोक्ते ज्ञानकर्मणी ||
गच्छन्तं पुरुषं यस्मादन्वेते स्वस्वभावतः ||
गच्छतोऽतोऽनुशब्दोऽत्र पश्चादर्थे प्रयुज्यते || ११६ ||
गमनादिविधौ पुंसः साधनत्वं निगच्छतः || ११७ ||
कर्मणः क्रियमाणस्य संस्कारो यो हृदि श्रितः ||
तत्फ़लस्य च भुक्तस्य पूर्वप्रज्ञेति सोच्यते || ११८ ||
पूर्वोपचितसंस्कारहेतुभ्यः साऽभिजायते || ११९ ||
षण्मासशेषप्रोद्भूता वासना याऽस्य देहिनः ||
मरिष्यतोऽन्यदेहार्थं पूर्वप्रज्ञेति तां विदुः || १२० ||
समर्था सैव ते यस्मादुद्बोद्धुं ज्ञानकर्मणी ||
नरस्यातः प्रधानत्वात्पृथक्तस्या ग्रहः कृतः || १२१ ||
समासेनैव निर्दिष्टे कारणत्वाविशेषतः ||
अन्योन्यकारणत्वाच्च श्रुत्येह ज्ञानकर्मणी || १२२ ||
पूर्वप्रज्ञात उद्भूतिर्विद्यायाः कर्मणो यतः ||
ताभ्यां च भावनोद्भूतिर्निर्देशोऽतो यथोदितः || १२३ ||
कर्मणो भुज्यमानस्य परिशेषो हि भावना ||
मूलं च जायमानस्य प्रधानं तेन भण्यते || १२४ ||
परिच्छेत्र्री विनिर्मात्री विद्या लोकान्तरस्य हि ||
विकर्तृ कर्म वोढ्री च पूर्वप्रज्ञेह पूर्वयोः || १२५ ||
नानाविकल्पसद्भावात्संदेहो गमनं प्रति ||
पक्षीव वृक्षात्किं तावत्परिच्छिन्नो व्रजत्ययम् || १२६ ||
आतिवाहिकदेहेन किंवा देहान्तरं प्रति ||
गतिर्विकाससंकोचौ भिन्नकुम्भस्थदीपवत् ||
मतं वा किं मनोमात्र देहाद्देहान्तरं व्रजेत् || १२७ ||
किंवा सर्वगतानां स्यात्करणानामिहाऽऽत्मनि ||
श्रुतकर्मानुरोधेन वृत्तिहान्युद्भवौ क्वचित् || १२८ ||
इति भूरिविकल्पायां भूमौ सिद्धान्त उच्यते ||
अनन्ताः सर्व एवैते वाङ्मनःप्राणलक्षणाः || १२९ ||
प्राणिकर्मानुरोधेन प्लुष्यादिपरिमाणता ||
इति श्रुत्युक्तितस्तेषां प्रतिप्राणि यथामति ||
यथाकर्म गतिः स्थानं परिच्छेदोऽथ विस्तृतिः || १३० ||
स्वातन्त्र्यं पारतन्त्र्यं वाऽणिमाद्यैश्वर्यमेव वा ||
करणानामिदं सर्वं ज्ञानकर्मादिहेतुकम् || १३१ ||
अस्मदादेर्यथा तद्वद्विद्याकर्मानुरोधतः ||
अनात्मनोऽपि चाऽऽनन्त्यं न स्वतः सिद्धमात्मवत् || १३२ ||
इतीमं पक्षमाश्रित्य श्रुत्या दृष्टान्त उच्यते || १३३ ||
तृणाग्रस्था जलूकेह प्राप्य तस्मात्तृणान्तरम् ||
संहरत्यात्मनाऽऽत्मानं पूर्वस्मात्तत्र सा क्रमात् || १३४ ||
यथैवमेवमात्मेदं शरीरं कर्मणः क्षयात् ||
निहत्याचेष्टमापाद्य स्वात्मलिङ्गोपसंहृतेः || १३५ ||
गमयित्वा तथाऽविद्यां जाड्यं निःसंज्ञतामिदम् ||
अतोऽन्यमाक्रमं देहं प्राप्य भावनयाऽञ्जितः ||
पूर्वदेहस्थमात्मानं संहरत्यात्मनाऽऽत्मनि || १३६ ||
जलूकावद्गतिरियमात्मनः प्रतिपादिता ||
तत्र देहान्तरारम्भ उपादानं किमात्मनः || १३७ ||
उपमृद्योपमृद्यास्य नित्योपात्तं किमिष्यते ||
पुनः पुनरपूर्वं वा देहारम्भाय कल्पते || १३८ ||
इति दृष्टान्तवचसा निर्णयोऽस्योपवर्ण्यते || १३९ ||
पेशस्कारी यथा मात्रामुपादायेह पेशसः ||
विमृद्य रचनां पूर्वां कुरुते रचनान्तरम् || १४० ||
नवान्नवतरं रूपं कल्याणतरमेव च ||
कल्याणादिति दृष्टान्तो यथा तद्वदिहापि च || १४१ ||
आपेक्ष्य नवमादानं तत्कार्यं नवमुच्यते ||
श्रुत्या नवतरं रूपं कल्याणतरमेव च || १४२ ||
नित्योपात्तानि भूतानि करणानि च देहिनः ||
द्वे वाव ब्रह्मणो रूपे इति पूर्वमवादिषम् || १४३ ||
उपमृद्योपमृद्यैषां रचनां प्राक्तनीं पुनः ||
यथाकर्म यथाज्ञानं कुरुते रचनान्तरम् || १४४ ||
पित्रादियोग्यं पित्र्यादि ह्युत्तमाधममध्यमम् || १४५ ||
पित्र्यादिलोकेष्वात्माऽयं यथाकर्म यथाश्रुतम् ||
तनुते देहजातामि भूरिरूपाण्यविद्यया || १४६ ||
न तु चैतन्यवत्साक्षात्संसारोऽस्य स्वतो मतः ||
इत्यर्थप्रतिपत्त्यर्थमाजगामोत्तरं वचः || १४७ ||
यच्चास्य वास्तवं रूपं यच्चाविद्योत्थमात्मनः ||
स वा इत्यादिना तस्य निर्णयः क्रियतेऽधुना || १४८ ||
तन्निर्णयादशेषोऽर्थाऽनिर्णीतः स्यात्कथं न्विति || १४८ ||
संसारी यो यथोक्तेन ग्रन्थेन प्रतिपादितः ||
तद्गृहीत्यै सशब्दोऽयं तत्स्मृत्यर्थं तथाच वै || १४९ ||
अनात्मभूत एतस्मिन्कार्यकारणलक्षणे ||
संसारे प्रथते योऽर्थ आत्मनाऽनन्यमानगः || १५० ||
यत्साक्षिकौ यथोक्तस्य भावाभावौ प्रसिध्यतः ||
संसारवस्तुनः सोऽयमात्मेत्यत्राभिधीयते || १५१ ||
व्यभिचारो न यस्यास्ति सर्वेषु व्यभिचारिषु ||
तदवष्टम्भतः सिद्धेर्व्यभिचारस्य सर्वदा || १५२ ||
प्रत्यक्तयाऽस्य साक्षात्त्वादक्रियाकारकत्वतः ||
अनन्यबोधमानत्वादयमित्युच्यते ततः || १५३ ||
निःशेषानात्मतद्धेतुनिराकरणवर्त्मना ||
आत्मत्वमात्मनः सिध्येन्नान्यशेषमनात्मवत् || १५४ ||
असाधारणसिद्ध्यैव सिद्धिः स्यादात्मवस्तुनः ||
यतोऽत आत्मवस्त्वेव कार्यकारणवज्जगत् || १५५ ||
न हीदमात्मनः स्थानं ततोऽन्यत्रापि वाऽश्नुते ||
आत्मनोऽव्यतिरेकेण यतोऽनात्मा प्रसिध्यति || १५६ ||
आत्मा त्वनात्मप्रत्यक्त्वाद्व्यतिरेकं न सोऽर्हति ||
स्रजीव सर्पदण्डादेः स्रगविद्योत्थवस्तुनः ||
स्रक्तत्त्वव्यतिरेकेण सिद्धिर्नान्यत्र कुत्रचित् || १५७ ||
न चाभावावसाय्येतदभावस्यापि भाववत् ||
प्रत्यङ्मात्रैकयाथात्म्यादश्रुतत्वान्न चार्थतः || १५८ ||
अनूद्य निखिलं विश्वं तत्तत्त्वप्रतिपत्तये ||
आत्मैवेति श्रुतं यस्मान्नातोऽन्यत्किंचिदिष्यते || १५९ ||
प्रत्याख्याय न चाऽऽत्मानमनात्मा व्यतिरिच्यते ||
व्यतिरेकस्वभावत्वान्नापि चाऽऽत्मनि सिध्यति || १६० ||
प्रत्याचष्टे श्रुतिरतः सर्वं नेतीति चाऽऽत्मनि ||
सर्वमात्मेति च तथा व्यतिरेकं निषेधति || १६१ ||
अपूर्वानपरानन्तराबाह्यं ब्रह्मलक्षणम् ||
उक्तात्मवस्तुस्वाभाव्यादात्मा ब्रह्मेत्यतो वचः || १६२ ||
प्रत्यक्त्वं ब्रह्मणस्तत्त्वं ब्रह्मत्वं चाऽऽत्मनस्तथा ||
परोक्षद्वयहानेन ह्यात्मा ब्रह्मेति बोध्यते || १६३ ||
अव्यावृत्ताननुगतो ब्रह्मशब्दार्थ इष्यते ||
नाऽऽत्मनोऽन्यत्र लभ्योऽसौ नाप्यात्मा ब्रह्मणोऽन्यतः || १६४ ||
आत्मनोऽपि परोक्षत्वं ब्रह्मणोऽविद्यया यथा ||
आत्मनः सद्वितीयत्वं ब्रह्मणोऽपि तथा मम || १६५ ||
अतोऽविद्यासमुच्छित्तौ यथावस्त्ववबोधतः ||
आत्मा ब्रह्मैव सन्नेष ब्रह्माप्येति स्वतोऽद्वयम् || १६६ ||
यथोक्तबोधविरहादस्यानर्थपरंपरा ||
विज्ञानाद्यभिसंबन्धो यथा तदधुनोच्यते || १६७ ||
आत्मा ब्रह्मैव सन्नेष धर्मैर्यावद्भिरन्वितः ||
अज्ञानात्संसरत्यत्र वर्ण्यते तत्समासतः || १६८ ||
यतोऽविद्यान्वयेऽशेषसंसारानर्थसंगतिः ||
तद्ध्वस्तावात्मनस्तस्मात्पुरुषार्थः समाप्यते || १६९ ||
अविद्यामात्रहेतूक्त्या ह्यात्मनोऽनर्थसंगतिः ||
इत्यस्य प्रतिपत्त्यर्थं परो ग्रन्थोऽवतार्यते || १७० ||
यद्यविद्यैकहेतुस्यात्संसारित्वं तदाऽऽत्मनः ||
विद्यार्थोऽयं समारम्भो युज्यते नान्यथा सति || १७१ ||
प्राणात्मत्वाभिमानी सन्यतः प्राणः प्रसूयते ||
प्राणप्राणोऽपि सन्मोहात्प्राणनादि प्रपद्यते || १७२ ||
ततो बुद्धिसमुत्पत्तौ विज्ञानोऽस्मीतिभावतः ||
विज्ञानमयतामेति स्रक्सर्पमयतामिव || १७३ ||
मनसो ग्रहणं चात्र बुद्धिवृत्त्युपलक्षणम् ||
असुबुद्धी यतो हेतू सर्वेषामिन्द्रियात्मनाम् || १७४ ||
कर्मेन्द्रियाणां सार्थानां प्राणः कारणमुच्यते ||
स एव बुद्ध्यतिशयः श्रोत्रादेरपि कारणम् || १७५ ||
स्वाभ्यस्तभावनातोऽस्य श्रुतकर्मानुरोधतः ||
प्राणो बुद्धिर्मनश्चक्षुःश्रोत्राद्यज्ञस्य जायते || १७६ ||
प्रायार्थे च मयत् ङ्ञेयो विकारादेर्निषेधनात् ||
अविज्ञातात्मतत्त्वस्य विकारो वाऽस्त्वदोषतः || १७७ ||
सर्पादयो यथा रज्ज्वा विकाराः स्युरबोधतः ||
अज्ञानादात्मनस्तद्वत्तेजोबन्नादिविक्रिया || १७८ ||
न हि वेदान्तसिद्धान्ते ह्यज्ञातात्मातिरेकतः ||
सांख्यानामिव सिद्धान्ते लभ्यते कारणान्तरण् || १७९ ||
प्राणादिमयतां यात्वा तद्वृत्तीनामबोधतः ||
आत्माऽकर्ताऽपि कर्तृत्वमेति तासां समुद्भवे || १८० ||
चक्षुषश्चक्षुरप्येवं यथा चक्षुर्मयस्तथा ||
श्रोत्रादिमयताऽप्यस्य व्याख्येया प्रत्यागात्मनः || १८१ ||
स विज्ञानमनःप्राणचक्षुःश्रोत्रादि मोहजम् ||
मन्वानोऽविद्ययाऽऽत्मैति तन्मयत्वं न तु स्वतः || १८२ ||
समासव्यासतस्तद्वत्पञ्च भूतान्यविद्यया ||
अशब्दादिमयोऽप्यात्मा तन्मयत्वं निगच्छति || १८३ ||
लिङ्गदेहाविमावेवं पञ्चभूतमयावुभौ ||
प्रधानगुणवृत्त्योक्तौ सूक्ष्मस्थूलविभागतः || १८४ ||
उक्तयोरात्मनोरन्तर्यद्रूपं भावनामयम् ||
कामादिमयतोक्त्येह तदिदानीं विभाव्यते || १८५ ||
कामं क्रोधं तथा धर्मं तद्विरुद्धं च मोहतः ||
संभावयन्प्रतीच्यात्म तन्मयत्वं निगच्छति || १८६ ||
प्रवृत्तय इहेक्ष्यन्ते वाङ्भनःकायसाधनाः ||
यावत्यो भावनाः पुंसामपि तावत्य एव तु || १८७ ||
इत्येवमादयोऽनेके कोशाः स्युर्भावनामयाः ||
असंख्येया बहुत्वात्ते संक्षेपोऽतोऽत्र भण्यते || १८८ ||
इदमित्येव यत्साक्षात्किंचित्कर्मोपलक्ष्यते ||
परोक्षं भावनारूपं तेनादोमयतेष्यते || १८९ ||
इदंमयेन लिङ्गेन संबन्धोऽदोमयात्मनः ||
प्रत्यक्ष आत्मनि यथा तथाऽन्यत्रापि लिङ्ग्यते || १९० ||
धूमाग्न्योरिव संबन्धस्तयोर्दृष्ट इहाऽऽत्मनि ||
अकामप्रमुखैर्योगैस्तथा कामादियोगतः || १९१ ||
धर्माधर्ममयो भूत्वा पुमान्सर्वमयो भवेत् ||
धर्माधर्मैकहेतुत्वात्सर्वस्य जगतस्ततः || १९२ ||
अदोमयत्वं लिङ्गं स्याल्लिङ्गेनेदंमयात्मना ||
भावनाकर्मविद्यानामेवमुक्तेन वर्त्मना ||
भूरिभेदान्न शक्यन्ते वक्तुं रूपाण्यशेषतः || १९३ ||
किं कारणं पुमान्यस्माद्यथाकारी भवत्ययम् ||
यथाचारी च लोकेऽस्मिंस्तथारूपो भवत्यसौ || १९४ ||
करणं नियतं चैव ततोऽन्यच्चरणं तथा ||
करणं कर्मशक्तिर्वा चरणं प्रत्ययात्मकम् || १९५ ||
साधुकारी पुमान्यः स्यात्साधुरेव भवत्यसौ ||
पितृगन्धर्वदेवादौ साधुसाधनसंपदा || १९६ ||
पापकारी च पापश्च स्थाण्वादावभिजायते ||
कामक्रोधादिभूयिष्ठः पुमानुग्रेण कर्मणा || १९७ ||
साध्वादि भूयोभ्यासात्स्यात्ताच्छील्यप्रत्ययश्रुतेः ||
फ़लमित्यतिशङ्क्याऽऽह पुण्य इत्यादिकं वचः || १९८ ||
नैवाभ्यासव्यपेक्षाऽस्ति पुण्यपापफ़लाप्तये ||
सकृदप्यनुतिष्ठन्ना प्राप्नोत्येव फ़लं तयोः || १९९ ||
फ़लातिशीतिरभ्यासाज्जायते पुण्यपापयोः ||
तत्फ़लस्य तु या प्राप्तिः सा सकृत्करणादपि || २०० ||
कामक्रोधादिपूर्वैव कर्तृता पुण्यपापयोः ||
पुंसः सर्वमयत्वस्य हेतुः संसारकारणम् || २०१ ||
धर्माधर्मात्मकं कर्म संसारानर्थकारणम् ||
एतद्विषयमेवैतद्वेदशास्त्रमधीयते || २०२ ||
कर्मैव वेदशास्त्रेऽस्मिन्प्रधानं निश्चितं यतः ||
पुंसोऽभ्युदयदुःखाप्तौ कार्यं वर्ज्यं च तत्ततः || २०३ ||
कर्म साध्वेव कर्तव्यमिच्छताऽभ्युदयं चिरम् ||
पापं तु सर्वदा हेयं दुःखेभ्यस्त्रस्यता भृशम् || २०४ ||
संसारानर्थनिष्पत्तौ सर्वेषामविशिष्टता ||
आरम्भकाणां विज्ञानप्रमुखाणामिहाऽऽत्मनः || २०५ ||
यद्यप्येवं तथाऽपीह धर्माधर्मात्मकं बुधाः ||
कर्म प्रधानमिच्छन्ति यतः कर्म प्रयोजकम् || २०६ ||
प्रयोज्यमितरत्सर्वं विज्ञानादि यदीरितम् ||
प्रयोजकं प्रयोज्याच्च प्रधानमिति निश्चितम् || २०७ ||
पुण्य इत्यादिवचसा कर्मप्राधान्यवाञ्छया ||
कर्मोपसंहृतं श्रुत्या यथोक्तेनैव हेतुना || २०८ ||
कर्म प्रधानमित्येवं साक्षाच्छ्रुत्योपसंहृतम् ||
पूर्वपक्षेऽथ सिद्धान्तः खल्वाहुरिति भण्यते || २०९ ||
अथो खल्वत्र पूर्वोक्ते प्राहुरुच्चैर्विपश्चितः ||
न कर्ममय एवायं पुमान्सर्वमयः कुतः || २१० ||
यतः काममयो भूत्वा प्राप सर्वमयात्मताम् ||
प्रयोजकप्रयोज्यत्वे ज्ञानादीनां प्रयोजकम् || २११ ||
कर्मैवावधृतं यद्वत्कर्मान्तानां प्रयोजकः ||
काम एवेति तत्स्पष्टं स यथेति विभाव्यते || २१२ ||
प्रयोजकत्वे कर्मादेः कामप्राधान्यमीरितम् ||
प्रयोजकानां निष्ठात्वे न तु कामो विवक्षितः || २१३ ||
यथावस्त्वपरिज्ञानं कामस्यापि प्रयोजकम् ||
आप्ताशेषसुखापास्तदुःखत्वादात्मवस्तुनः || २१४ ||
नानवाप्तं सुखं किंचिन्नानपास्तं तथाऽसुखम् ||
यो वै भूमेति वचनाद्योऽशनायेति चाऽऽत्मनि || २१५ ||
स्वत एवंविधं वस्तु यतोऽतस्तदबोधतः ||
कामद्वेषादिसंभूतिर्मिथ्याज्ञानत्वकारणात् || २१६ ||
अज्ञातं वस्तु चोद्दिश्य तत्तत्त्वप्रतिपत्तये ||
प्रमाणानां प्रवृत्तिः स्यादन्यथा नोपपद्यते || २१७ ||
प्रयोजकत्वेऽविद्येयं यदि नामेह न श्रुता ||
मितिप्रवृत्तिहेतुत्वात्तथाऽप्यत्राऽऽश्रितैव सा || २१८ ||
सर्वेषमापि मानानां प्रमाणं परमं श्रुतिः ||
सर्वमेयातिवर्त्यात्मयाथात्म्यप्रतिबोधतः || २१९ ||
तस्मादज्ञात आत्मैव कामादेः स्यात्प्रयोजकः ||
यतोऽबोधस्य विध्वस्तौ पुंसः स्यात्कृतकृत्यता || २२० ||
वाङ्भनःकायसाध्यायाः प्रवृत्तेः काममूलता ||
यथा तत्प्रतिपत्त्यर्थं स यथेत्युत्तरा श्रुतिः || २२१ ||
सर्वस्य जगतो हेतू पुण्यापुण्ये समीरिते ||
यद्यपीह परो हेतुः काम एव तयोरपि || २२२ ||
अकामस्य क्रिया काचिद्दृश्यते नेह कस्यचित् ||
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् || २२३ ||
निष्फ़लं कर्म सर्वं स्यान्न चेत्कामपुरःसरम् ||
अपराधलघुत्वं च दृष्टं पुंसोऽप्यकामतः || २२४ ||
कामप्रयुक्तो हि नरः संचिनोति शुभाशुभे ||
आत्मैवेदमिति गिरा श्रुत्यैतत्प्रागपीरितम् || २२५ ||
कामो गर्धोऽभिलाषश्च तृष्णेत्येकार्थवाचकाः ||
आसङ्गपूर्वकः कामो नाऽऽसङ्गविरहादसौ || २२६ ||
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ||
सङ्गात्संजायते काम इति सर्वज्ञशास्त्रतः || २२७ ||
पुंसो या विषयादित्सा स काम इति भण्यते ||
तद्गुणस्मरणाभ्यासादिच्छा पुंसोऽभिवर्धते || २२८ ||
कामिताद्विषयान्नान्यस्तदा तस्येह रोचते ||
निराकर्तुं न च ततः शक्यते येन केनचित् || २२९ ||
इत्येवं वर्धमानः सन्क्रतुत्वं प्रतिपद्यते ||
यदनन्तरमेवेहा स कामः क्रतुरुच्यते || २३० ||
क्रतुना यादृशेनायं यत्क्रतुः स्यात्पुमानिह ||
कुरुते तादृशं कर्म वाङ्भनःकायसाधनैः || २३१ ||
यत्कर्म कुरुते चायं शुभं वा यदि वाऽशुभम् ||
संपद्यतेऽथ तत्साक्षादात्मत्वेन पुमानयम् || २३२ ||
अपूर्वमिति चेदं स्याददृष्टमिति चोच्यते ||
पुण्यापुण्यमय इति प्राक्चैतदुपवर्णितम् || २३३ ||
पुमान्काममय एव कर्मादेः स्यात्प्रयोजकः ||
यथा तदुक्तं श्रुत्येह मन्त्रोऽप्यत्र निगद्यते || २३४ ||
तदेवैति पुमानस्य सक्तं यत्र मनो भवेत् ||
आत्मा सक्त इदं लिङ्गं कर्मणा सह तत्सदा || २३५ ||
सूक्ष्मो देहोऽत्र लिङ्गं स्याल्लिङ्गनात्प्रात्यगात्मनः ||
स्वात्मचैतन्यबिम्बेन निःसङ्गः सक्त आत्मना || २३६ ||
उदपात्रार्कगतिवदगतेर्गतिरात्मनः ||
ध्यायतीवेति च तथा निषिद्धैव स्वतो गतिः || २३७ ||
तदेवैतीति यदि वा गन्तव्यमभिधीयते ||
कामप्रधानता चैवं प्रकृतार्थानुरोधिनी || २३८ ||
कामादयो यतो धर्माः स्वान्तस्यैवेह कीर्तिताः ||
तदात्ममानिनोऽतः स्युरात्मनस्ते न तु स्वतः || २३९ ||
लिङ्गासक्तिवशादात्मा सक्त इत्यभिधीयते ||
सक्तः सन्कर्मणा सार्धमेत्यात्मा कर्मणः फ़लम् || २४० ||
मनोभिष्वङ्गवशगः कर्मणैति यतः सह ||
कामस्यातः प्रधानत्वं तत्प्रयुक्तात्मसंसृतेः || २४१ ||
लिङ्गं मनःप्रधानत्वाल्लिङ्गं मन इहोच्यते ||
यदि वा लिङ्ग्यते तेन मनो लिङ्गमिहाऽऽत्मनः || २४२ ||
निश्चयेन तदासक्तं यस्मिन्विषय आत्मना ||
विषयं कर्मणा सार्धं तमेवैतीति संगतिः || २४३ ||
इति कामप्रधानत्वसिद्धान्तस्योपसंहृतिः ||
कर्मणोऽन्तं फ़लं प्राप्य भुक्त्वा निरवशेषतः || २४४ ||
कस्य कर्मण इत्युक्ते यत्किंचेहेति तद्वचः || २४५ ||
फ़लभोगावसानेऽथ किमसौ प्रतिपद्यते ||
तस्माल्लोकादिमं लोकं पुनरैति स कर्मणे || २४६ ||
अस्मै लोकाय देहाय देहयोगश्च कर्मणे ||
इत्येवमपरिश्रान्तो बंभ्रमीति पुनः पुनः || २४७ ||
अनिर्ज्ञातात्मतत्त्वः सन्कामबन्धनबन्धनः ||
घटीयन्त्रवदश्रान्तो बंभ्रमीत्यनिशं नरः || २४८ ||
इतीत्युक्तपरामर्शे न्विति खेदानुकम्पयोः ||
एवमज्ञः कामवशाद्भूयो योनीः प्रपद्यते || २४९ ||
अस्माल्लोकादमुं लोकममुष्मादिममेव च ||
अज्ञः कामाङ्कुशाकृष्टो जायते म्रियतेऽसकृत् || २५० ||
इति कामप्रधानस्य संसारानर्थसंगतिम् ||
उक्त्वा तदुपसंहारमितीतिवचसाऽकरोत् || २५१ ||
एवं कामयमानोऽयं स्वप्नबुद्धांतवन्नरः ||
संसारत्यप्रबुद्धः संपरलोकॆहलोकगः || २५२ ||
अथ तस्यावदत्पूर्वं योषिदालिङ्गने यथा ||
सौषुप्तं स्थानमाप्तस्य रूपं कामादिवर्जितम् || २५३ ||
तद्वा अस्यैतदित्येवं प्राक्श्रुत्या प्रतिपादितम् ||
मोक्षो दार्ष्टान्तिकस्तस्य दृष्टान्तस्येह वर्ण्यते || २५४ ||
अथशब्दोऽत्र हेत्वर्थ उक्तस्य तदपेक्षतः ||
काम्येव हि यतोऽजस्रं संसरत्यविचक्षणः || २५५ ||
तद्भावभाविहेतुत्वादतोऽकामो विमुच्यते ||
नरोऽकामयमानः स्यात्कामहेतोर्निराकृतेः || २५६ ||
स्वत एवाखिलसुखप्राप्ततत्त्वे स्व आत्मनि ||
निरस्ताशेषदुःखे च मोहात्तत्र विपर्ययः || २५७ ||
अप्राप्तं दुःखवन्मोहान्मन्वानः सुखमुत्तमम् ||
सुखं मे स्यादिति सदा नरः कामयतेऽबुधः || २५८ ||
तथा परिहृताशेषदुःखहेतुः स्वतोऽपि सन् ||
मा भूद्दुःखं ममेत्येवं जाड्यात्कामयतेऽनिशम् || २५९ ||
कृत्स्नानन्दस्य चानाप्तिरवाप्तिरसुखस्य च ||
नाऽऽत्मवस्त्वनुरोधेन तदबोधात्तदश्नुते || २६० ||
वस्तुतन्त्रा भवेद्विद्या कर्तृतन्त्रैव च क्रिया ||
अतः कामयमानत्वं कर्तृतन्त्रमबोधतः || २६१ ||
कारकाण्युपमृद्नाति विद्या बीजमिवोषरम् ||
तत्कारणोपमर्दित्वाज्जन्मनैव न कारकम् || २६२ ||
यत एवमतो विद्वान्कामहेतूपमर्दनात् ||
स्यादकामयमानोऽत्र न त्वविद्वान्कथंचन || २६३ ||
कुतोऽकामयमानः स्यादित्येवमभिचोदिते ||
योऽकाम इति वचनं पूर्वप्रत्युक्तिरुच्यते || २६४ ||
कामा यस्य न विद्यन्ते दृष्टानुश्राविका बहिः ||
सोऽकाम इति संभाव्यः कृत्स्नकर्मनिराकृतेः || २६५ ||
क्रियमाणो यथा कामः क्रत्वादीनि प्रसूयते ||
तथा संत्यज्यमानोऽपि नैष्कर्म्येणावतिष्ठते || २६६ ||
अकामोऽपि क इत्येवं पृष्टे निष्काम उच्यते || २६७ ||
प्रयोजकात्मकाः कामा निष्क्रान्ता यस्य बुद्धितः ||
अतिग्रहाः स निष्कामो विद्वद्भिरभिधीयते || २६८ ||
बाह्यानामान्तराणां च कार्यकारणता मिथः ||
प्रत्यगज्ञानहेतुः स्यात्तदुच्छित्तौ न सा ततः || २६९ ||
तदुच्छित्तावतः प्रत्यग्याथात्म्यज्ञानमुच्यते ||
आप्तकामादिवचसा यथावस्त्ववबोधिना || २७० ||
आप्ताः सर्वे स्वतोऽप्यस्य कामा ये बाह्यसाधनाः ||
फ़लतोऽवाप्तकामोऽसौ परानन्दस्वभावतः || २७१ ||
मानुषानन्दमारभ्य ह्युत्तरोत्तरवृद्धितः ||
सहस्रदशमांशोक्त्या परानन्दो निरूपितः || २७२ ||
कामिकामप्रभेदस्य प्रसक्ताविदमुच्यते ||
श्रुत्याऽऽत्मकाम इत्येवमात्मैवामी न ते पृथक् || २७३ ||
आत्मैव सर्वमित्येवं बुद्धावस्याऽऽप्तकामता || २७४ ||
अबाह्याभ्यन्तरः कृत्स्नः प्रज्ञानघनमात्रभाक् ||
इत्येवं यस्य वेदान्तवाक्योत्थं ज्ञानमात्मनि || २७५ ||
ध्वस्ताशेपतमस्कत्वात्सम्यग्ज्ञानप्रसूतितः ||
वद तस्य कुतो हेतोः कामादेः स्यात्समुत्थितिः || २७६ ||
यत्र वा अन्यदित्येवं सत्येवाज्ञान आह हि ||
ज्ञातृज्ञेयादिकं भेदं तमोध्वस्तौ न सोऽस्त्यतः || २७७ ||
यत्र त्वस्येत्यतः प्राह ध्वस्तात्मतमसि श्रुतिः ||
तत्केन कमितीत्यादि साक्षेपं वचनं स्वयम् || २७८ ||
ऐकात्म्यमात्रकूटस्थप्रबोधावसितेः कुतः ||
मातृमानक्रियामेयव्यवहारस्य संभवः || २७९ ||
अविजानन्हि विज्ञेयं कामं कामयते कथम् ||
ज्ञात्वैव विषयल्लोके सर्वः कामयते यतः || २८० ||
इत्येवमात्मकामत्वादाप्तकामोऽत्र यो भवेत् || २८१ ||
आप्तकामतया तद्वन्निष्कामत्वं समुश्नुते ||
निष्कामत्वेन चाकामः स आत्मज्ञो विमुच्यते || २८२ ||
संसारानर्थबीजस्य प्रध्वंसादात्मबोधतः ||
तस्मादात्मनि विज्ञाते कामहेतोरसंभवात् || २८३ ||
कामकर्माद्यसद्भावात्पूर्ण आत्माऽवतिष्ठते ||
न तस्येत्युत्तरोक्त्याऽयं यथोक्तोऽर्थः समर्थ्यते || २८४ ||
अपास्तानर्थहेतुत्वं यदुक्तं प्रत्यगात्मनः ||
योऽकाम इत्यादिगिरा यो वेदाऽऽत्मानमागमात् || २८५ ||
जिघृक्षत्यायसं तप्तं शास्त्राचार्यात्मनिश्चयात् ||
तस्योत्क्रामन्ति न प्राणा आसते नापि तत्र ते || २८६ ||
स्थित्युत्क्रान्त्योर्हि यो हेतुरात्माविद्यादिलक्षणः ||
ध्वस्तत्वात्तस्य सर्वस्य प्रत्यग्याथात्म्यदर्शनात् || २८७ ||
यत एवमतः प्राणाः सम्यग्ज्ञानस्य जन्मनि ||
नोत्क्रामन्ति न तिष्ठन्ति न च नश्यन्त्यहेतुतः || २८८ ||
रज्जुसर्पो यथा लोकेऽज्ञातरज्जुसतत्त्वकः ||
नोत्क्रामति न चाप्यास्ते न च नश्यति रज्जुतः || २८९ ||
स्थित्युत्क्रान्तिविनाशानां रज्जुस्तत्त्वं यतस्ततः ||
रज्जुज्ञानसमुत्पत्तौ रज्ज्वा नान्योऽवशिष्यते || २९० ||
अविद्यातज्जनिर्मुक्तं वस्त्वत्रैवेति भण्यते ||
समित्यैकात्म्यमात्रेण प्राणानां स्थितिरुच्यते || २९१ ||
अवनीयन्त इत्युक्त्या नाशादिभ्योऽन्यतोगतिः ||
प्रत्यङ्भात्रैकनिष्ठत्वान्न भावाभावयोः स्थितिः || २९२ ||
तादात्म्यमेव सर्वत्र कार्यकारणवस्तुनः ||
उत्क्रान्त्यादेश्च कृत्स्नस्य सर्वमात्मेतिशास्त्रतः || २९३ ||
इति वस्तु स्वतो बुद्धमज्ञानं चानुभूतितः || २९४ ||
प्रत्यग्याथात्म्यमात्रत्वात्तन्मोहाद्यप्यशेषतः ||
निवर्तते निवृत्तं चेत्येतदप्यनुभूतितः || २९५ ||
यत एवमतो वस्तु मुक्तमेव विमुच्यते ||
कठवल्लीषु चाप्युक्तं विमुक्तश्च विमुच्यते || २९६ ||
इहापि सपरीवारं श्रुतिन्यायोपपत्तिमत् ||
श्रुतिस्तदेव चाऽऽचष्टे वस्तु ब्रह्मैव सन्निति || २९७ ||
ब्रह्म वा इदमित्येवं सूत्रितं वस्तु यत्पुरा ||
स्पष्टं व्याख्याय तच्छ्रुत्या ह्युपसंह्रियतेऽधुना || २९८ ||
योऽयं संसारभूमिष्ठो व्याख्यातोऽज्ञाततत्त्वकः ||
कार्यकारणरूपोऽयं मोहवृत्तानुरोधतः || २९९ ||
यतो ब्रह्मैव सन्नेष प्रथते मोहतोऽन्यथा ||
ब्रह्मैवैतीह सन्ब्रह्म तस्मान्मोहनिराकृतौ || ३०० ||
नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा ||
निवृत्तिस्तद्वदेवास्य नावगत्यात्मनोऽपरा || ३०१ ||
यस्मादेतत्स्वतो बुद्धं स्वतः शुद्धमतोऽद्वयम् ||
प्रमात्रादेस्तदज्ञाननिवृत्तौ विनिवृत्तितः || ३०२ ||
मुक्तं चातः स्वतस्तत्त्वं मुक्तमित्युपचर्यते ||
तदविद्यादिविध्वंसात्र्रिर्वः शपथयाम्यहम् || ३०३ ||
योऽक्रियाकारकं साक्षादक्रियाकारकात्मकः ||
आत्मानमात्मनैवाऽऽत्मा साक्षाद्वेत्ति सुषुप्तवत् || ३०४ ||
निरस्ताशेषसंभेदं दृष्टिमात्रं निरञ्जनम् ||
वितमस्कं स आत्मज्ञस्ततोऽन्ये मूढचेतसः || ३०५ ||
न तस्य जीवतः कश्चिद्विशेषोऽस्ति मृतस्य वा ||
यतः सर्वविशेषाणामविद्यैवास्ति कारणम् || ३०६ ||
अविचारितसंसिद्धिप्रत्यङ्मोहादिलक्षण -
व्यवधानमात्राभावेन ब्रह्माप्येतीति शब्द्यते || ३०७ ||
इतोऽन्यथा चेन्मोक्षः स्यादारम्भोऽनर्थकः श्रुतेः ||
मुक्तेश्च कर्महेतुत्वादनित्यत्वं प्रसज्यते || ३०८ ||
एष नित्यो महिमेति श्रुतिवाक्यं विहन्यते ||
स्वाभाविकात्स्वभावाच्च नित्यो नान्योऽस्ति कश्चन || ३०९ ||
आत्मस्वभावो मोक्षश्चेद्वियच्छिद्रत्ववत्सदा ||
अग्न्युष्णवच्चाशक्योऽतः कर्मोत्थ इति भाषितुम् || ३१० ||
ज्वलनव्यापृतेरग्नेः प्रकाशौष्ण्यादि चेत्फ़लम् ||
नोपलब्ध्यन्तरायार्थध्वंसाभिव्यक्त्यपेक्षतः || ३११ ||
ज्वलनव्यापृतेर्वह्नेः प्रकाशौष्ण्यादिजन्मनः ||
न त्वग्न्यपेक्षयौष्ण्यादेरभिव्यक्तस्वभावतः || ३१२ ||
नाभिव्यञ्जकसंसाध्या घटादेरिव चाऽऽत्मनः ||
अभिव्यक्तिः स्वतोभास्वद्बोधमात्रैकरूपतः || ३१३ ||
अग्नेरन्यस्य पुंसोऽग्निज्वलनादिनिमित्ततः ||
उष्णप्रकाशयोर्व्यक्तिर्व्यवधानस्य संभवात् || ३१४ ||
अप्यभिव्यक्तिरूपेऽस्मिन्मोक्षे नैवास्ति कार्यता ||
प्रदीपादेरभिव्यङ्ग्यं नैव कार्यं घटादिकम् || ३१५ ||
अभिव्यक्तिश्च नैवास्ति सौष्ण्याद्यात्मकवस्तुनः ||
तदन्तरायासद्भावाद्वास्तवी न तु मोहजा || ३१६ ||
ज्वालानुग्रहतो वह्नेस्तत्प्रकाशादिदर्शनात् ||
भ्रमोऽयमग्निव्यापारादुष्णादेर्जन्मकल्पना || ३१७ ||
न चेदग्नेः प्रकाशादिस्वभावोऽभ्युपगम्यते ||
यत्स्यात्स्वाभाविकं यस्य तदुदाहरणं भवेत् || ३१८ ||
न च स्वाभाविको धर्मः कस्यचिन्नास्ति वस्तुनः ||
स्वयं तु भवतो यस्माद्वस्तुनोऽन्येन संगतिः || ३१९ ||
निगडध्वंसवन्नापि पुंसो मोक्ष इहाऽऽत्मनः ||
निवृत्तिमात्रं बन्धस्य कथंचिदुपपद्यते || ३२० ||
एकमेवाद्वितीयं सद्द्वितीयं तदबोधतः ||
न च बद्धस्ततोऽन्योऽस्ति यस्य नश्यति बन्धनम् || ३२१ ||
प्रतीचो व्यतिरेकेण तथैवाव्यतिरेकतः ||
वस्त्वन्तरस्य सद्भावमभावं च प्रयत्नतः || ३२२ ||
निराकार्षं सुयुक्त्युक्त्या मोक्षोऽतोऽज्ञाननिह्नुतिः ||
सर्पाद्यभाववद्रज्जुमोहमात्रनिवृत्तितः || ३२३ ||
ये तु व्याचक्षते मोक्षे नित्यानन्दैकगोचरा ||
ज्ञानाभिव्यक्तिरित्येवं स्वसिद्धान्तसमाश्रयात् || ३२४ ||
तैरभिव्यक्तिशब्दार्थो वक्तव्यः कीदृगिष्यते ||
प्रसिद्ध एव चेदर्थो विज्ञानालम्बनाप्तिता || ३२५ ||
विज्ञानालम्बनप्राप्तिः किं सतो वाऽथवाऽसतः ||
अभिव्यक्तिः सतश्चेत्स्याद्यस्य मुक्तस्य तत्सुखम् || ३२६ ||
स्वरूपमेव तस्येति विशेषणमनर्थकम् ||
मुक्तौ तद्व्यज्यते ज्ञानं सुखं चेति यदीरितम् || ३२७ ||
स्वात्मभूतं हि यद्यस्य नैव तद्व्यवधीयते ||
आत्मनस्तत्स्वभावत्वात्सर्वदेति विनिश्चयः || ३२८ ||
अमुक्तावथवा मुक्तौ विशेषोऽस्ति न कश्चन ||
प्रत्यगात्मस्वभावत्वात्सुखविज्ञानयोरतः || ३२९ ||
मुक्तौ तद्व्यज्यत इति विशेषवचनं मृषा ||
स्वसिद्धान्तविरोधोऽपि तदभिव्यक्तिवादिनः || ३३० ||
सत्कार्यवादिनो यस्मादभिव्यक्तिः प्रशस्यते ||
व्यज्यते सर्वमेवेदं सत्त्वात्सर्वस्य वस्तुतः || ३३१ ||
आरम्भवादे त्विच्छादेः कार्यत्वादसदात्मता ||
असतश्चाप्यभिव्यक्तिर्न युक्ता खरशृङ्गवत् || ३३२ ||
व्यङ्ग्यव्यञ्जकसंबन्धः प्रदीपघटयोरिव ||
उभयोः सिद्धयोर्योगान्नेष्टा कारणकार्यता || ३३३ ||
सुखविज्ञानयोश्चापि किमभेदोऽथवा भिदा ||
नैक्येऽभिव्यक्तिशब्दार्थः कदाचिदपि लभ्यते || ३३४ ||
अथ भेदस्तयोरिष्टो व्यवधानं प्रसज्यते ||
तद्भेदाभेदतासिद्धौ न च मानमिहास्ति वः || ३३५ ||
भेदग्राहि न नो मानमितोऽन्यत्रापि विद्यते ||
मेयमात्रावसायित्वात्सर्वमानस्य सर्वदा || ३३६ ||
स्वमेयव्यतिरेकेण मेयान्तरसमाश्रयः ||
न व्यावृत्त्यनुवृत्त्यादिव्यापारोऽस्ति मितेः क्चित् || ३३७ ||
अभिव्यक्तिः सुखस्यास्तु कामं ज्ञानेन संगतेः ||
ज्ञानव्यक्तौ तु किं मानं यतोऽभिव्यक्तिवागियम् || ३३८ ||
प्रमाणानां प्रमाणत्वं न स्वरूपप्रमेयता ||
न च मानान्तरादिष्टं तयोस्तुल्यस्वभावतः || ३३९ ||
अभिव्यक्तिर्मताऽथापि कादाचित्की न सर्वदा ||
तदन्तरायसद्भावादव्यक्तिः स्यात्सदा ध्रुवम् || ३४० ||
अन्तरायनिवृत्तौ च व्यपेक्षा वः प्रसज्यते ||
साधनान्तरविषया तज्ज्ञानव्यतिरेकतः || ३४१ ||
उपलब्ध्येकनीडत्वे व्यवधानस्य कल्पना ||
न चोपपद्यते मानात्तयोरेकात्मकत्वतः || ३४२ ||
एवं च सत्यभिव्यक्तिः सर्वदा सुखबोधयोः ||
अभिव्यक्तिर्न चेदेवं नाभिव्यक्तिः सदा तदा || ३४३ ||
इतोऽन्यथा कल्पनायां न प्रमाणं समीक्ष्यते || ३४४ ||
नाप्येकाश्रयिणां लोके धर्माणां क्वचिदीक्ष्यते ||
मानमेयत्वसंबन्धो मिथोयोग्यत्वतस्तथा || ३४५ ||
सुखादिव्यक्तितः पूर्वं यस्य संसारिता मता ||
सोऽन्य एव सदाव्यक्तनित्यज्ञानसुखात्मनः ||
शीतोष्णयोरिव तयोर्वैलक्षण्यात्परस्परम् || ३४६ ||
परात्मभेदक्लृप्तौ च संत्यागो वः प्रसज्यते ||
यतो वैदिकपक्षस्य नातः कल्प्याऽऽत्मनो भिदा || ३४७ ||
आत्मधीमानमात्रत्वात्प्रत्यगात्मैकवस्तुनः ||
प्रमाणासंभवश्च स्यादात्मभेदप्रकल्पने || ३४८ ||
नन्विदानीं यथा तद्वन्मुक्तौ चेदविशेषता ||
नातियत्नो भवेन्नृणां शास्त्रवैयर्थ्यमेव च || ३४९ ||
नाऽऽत्माविद्याहानमात्रकारित्वादागमात्मनः ||
तदर्थं यत्नसाफ़ल्यं शास्त्रारम्भोऽपि चार्थवान् || ३५० ||
मुक्तामुक्तत्वरूपोऽयं न विशेषोऽस्ति वस्तुनि ||
तदविद्यैव निःशेषविशेषाणां प्रसूतिकृत् || ३५१ ||
अशेषानर्थहेतुं तामविद्यां शास्त्रजा मतिः ||
यतो निहन्ति तेन स्यात्साफ़ल्यं यत्नशास्त्रयोः || ३५२ ||
अथाविद्यावतोऽविद्याहान्यहानिकृतो भवेत् ||
विशेष आत्मनः कश्चिदिति चेन्नैवमिष्यते || ३५३ ||
अविद्यामात्रहेतूत्थगोचरत्वसमाश्रयात् ||
रज्जुखण्डाद्यविद्योत्थसर्पादिविनिवृत्तिवत् || ३५४ ||
आत्मनो मोहकर्तृत्वमकर्तृत्वं यदीष्यते ||
विशेष इति नैवं स्याध्यायतीवेति वारणात् || ३५५ ||
अजो न जायते नेति ध्यायतीवेति चाऽऽगमैः ||
निषेधः क्रियतेऽशेषविकारादेरिहाऽऽत्मनः || ३५६ ||
विषयत्वोपपत्तेश्च प्रत्यङ्मोहतदुत्थयोः ||
नाविद्यावान्भवेदात्मा नापि तत्कार्यवांस्ततः || ३५७ ||
ग्राहकग्रहणग्राह्यभावाभावप्रसिद्धता ||
यथाऽऽत्मसाक्षिका तद्वन्न वेद्मीत्यात्मसाक्षिकम् || ३५८ ||
अज्ञातत्वान्यथाज्ञातसिद्धेरात्मैकसाक्षितः ||
अज्ञानमन्यथाज्ञानमतो नास्त्यात्मसाक्षिणः || ३५९ ||
न हि यो यत्र साक्षीह स तत्राज्ञ इतीर्यते ||
असामान्येन तत्सिद्धेः साक्षिसाक्ष्यपदार्थयोः || ३६० ||
तस्मिन्साक्षी च मूढश्चेत्यतीवैतद्विरुध्यते ||
मिथो वाक्यमतो नेदृग्वक्तव्यं मानिना ततः || ३६१ ||
न जाने मुग्ध एवाहं भवदुक्तं मनागपि ||
इति चेद्वीक्षसे तर्हि मूढमज्ञं च कुम्भवत् || ३६२ ||
त्वं त्वज्ञो मूढ एवेति भव कामं यथेच्छसि ||
मूढाज्ञयोस्तु यः साक्षी नासौ मुग्धोऽज्ञ एव वा || ३६३ ||
लोकेऽपि यस्य यः साक्षी सम्यगर्श्येव तस्य सः ||
यथा लोके तथेहापि साक्षी सम्यक्प्रपश्यति || ३६४ ||
महाभूतादिधृत्यन्तं क्षेत्रमेवेति चाब्रवीत् ||
साक्षात्स्वयंभूर्वेदात्मा संसारानर्थशान्तये || ३६५ ||
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ||
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत || ३६६ ||
ज्योतिषामपि तज्ज्योतिः स्वयंज्योतिःश्रुतेस्तथा ||
न तत्र सूर्यो भातीति नान्योऽतोऽस्तीति च श्रुतेः || ३६७ ||
यत एवमतो नास्ति विशेषोऽत्र मनागपि ||
बन्धमोक्षादिरूपोऽयमात्मनीति विनिश्चयः || ३६८ ||
ये त्वतः कल्पयन्तीममन्यथैव महाधियः ||
अर्थवादं च बन्धादिशास्त्रं व्याचक्षते तथा || ३६९ ||
इत्युक्तावसकृत्पूर्वं परिहारोऽपि वर्णितः || ३७० ||
एवं परिहृतेऽप्याहुर्यथेच्छं दूषणं परे ||
विद्वद्भिस्त उपेक्ष्याः स्युर्बालोन्मत्तसमा जनाः || ३७१ ||
ब्रह्माप्येतीत्यतो वाक्य मुपचार समाश्रयात् ||
तदविद्योत्थ देहादि संतत्युच्छेद हेतुतः || ३७२ ||
अविद्याध्वस्तिमापेक्ष्य सम्यग्धीजन्ममात्रतः ||
आत्मा ब्रह्मैव सन्साक्षाद्ब्रह्माप्येतीति भण्यते || ३७३ ||
इत्येतत्सर्ववेदान्तसर्वस्वं ब्राह्मणोदितम् ||
अर्थस्य ब्राह्मणोक्तस्य द्रढिम्नेऽतः परा श्रुतिः || ३७४ ||
यथा काममये तद्वन्मन्त्रं श्लोकमुदाहरत् ||
ब्रह्मास्मीति परिज्ञानात्प्रत्यगज्ञानहानतः || ३७५ ||
यदा सर्वेऽखिलाः कामाः काम्यैश्च विषयैः सह ||
प्रमुच्यन्ते विनश्यन्ति तेषामज्ञानहेतुतः ||
कार्याणां कारणे वृत्तिर्नान्यत्र जगतीक्ष्यते || ३७६ ||
यदा कामाः प्रमुच्यन्त इत्युक्त्यैव कृतार्थता ||
विशेषणं सर्व इति किमर्थमभिधीयते || ३७७ ||
जाग्रत्स्वप्नक्षये कामाः प्रमुच्यन्तेऽखिला नृणाम् ||
संस्कारमात्रशेषास्ते सुषुप्ते यान्ति संक्षयम् ||
यतस्तदवरोधार्थं तस्मात्सर्वविशेषणम् || ३७८ ||
कामहेतौ हि विध्वस्ते न कश्चिदवशिष्यते ||
संस्कारो वाऽथवाऽप्यन्यः, सर्वस्याज्ञानमूलतः || ३७९ ||
हृदि श्रिता इति वचः कामधर्म्यब्रवीन्मनः ||
कामः संकल्प इत्येवं तथाच प्राक्श्रुतीरणम् || ३८० ||
इदं च हेतुवचनं प्रतिज्ञातस्य वस्तुनः ||
हृदि श्रिता यतः कामाः प्रमुच्यन्तेऽखिलास्ततः || ३८१ ||
अविद्याया यतः कार्यमध्यात्मादिविशेषणम् ||
त्रयं वा इदमित्युक्तं वाङ्भनःप्राणभेदवत् || ३८२ ||
अतोऽविद्यासमुच्छित्तौ तद्धेतूनामशेषतः ||
कामानामपि नाशः स्याद्ग्रहातिग्रहरूपिणाम् || ३८३ ||
निःशेषजनिमद्धेतुः काम एवावधारितः ||
श्रिता अतिग्रहाः कामाइन्द्रियाणां प्रवर्तकाः ||
हृदि श्रिता इति वचस्तेषामवरुरुत्सया || ३८४ ||
वेदव्यासोऽपि च मुनिर्जगादेमं यथोदितम् ||
श्रुत्यर्थमुररीकृत्य लोकानुग्रहकाम्यया || ३८५ ||
विषया विनिवर्तन्ते निराहारस्य देहिनः ||
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || ३८६ ||
एवं बुद्धेः परं बुद्ध्वा संस्तभ्याऽऽत्मानमात्मना ||
जहि शत्रुं महाबाहो कामरूपं दुरासदम् || ३८७ ||
हेत्वर्थे चाथशब्दोऽयं हेत्वर्थप्रकृतत्वतः ||
यस्मादज्ञानतो मर्त्योऽतोऽमृतोऽज्ञानहानतः || ३८८ ||
प्रत्यग्याथात्म्यविज्ञानं यदत्रेत्यभिधीयते ||
सम्यग्ज्ञानसमुत्पत्तावत्रैव ब्रह्म सोऽश्नुते || ३८९ ||
ब्रह्मज्ञानोदये यस्माज्जन्मबन्धो व्यपेयते ||
मृतिरात्ममति स्तस्य हेतुहेतूपमर्दनात् || ३९० ||
यथोक्तादन्यथैवेमं व्याख्यानाद्यत्नतो बुधाः ||
श्लोकं व्याचक्षतेऽयुक्त्या हुतभुग्वरसंश्रयात् || ३९१ ||
यथैव पूर्वं संसारः काममूलोऽनुवर्णितः ||
श्लोकेन तद्वन्मोक्षोऽपि निष्कामस्योपवर्ण्यते || ३९२ ||
प्राज्ञादात्मन एतस्मात्प्रमुच्यन्तेऽखिला यदा ||
कामास्ते कतम इति तद्विशेषणमुच्यते || ३९३ ||
हृदि येऽस्य श्रिताः कामाः प्रमुच्यन्ते त एव तु ||
आत्माश्रितास्तु ये त्वस्य प्रमुच्यन्ते न ते सदा || ३९४ ||
हृदयं नाम विज्ञानं मांसपेशी च भण्यते ||
रूढ्या वृत्तिर्मांसखण्डे तात्स्थ्याद्विज्ञानवाचकम् || ३९५ ||
कामाः पुनरिहोच्यन्ते य उक्ता वासनात्मकाः ||
माहारजनमित्यादिवाक्येनाऽऽत्मविशुद्धये || ३९६ ||
प्राज्ञस्याभ्यान्तरं रूपं तन्माहारजनादिकम् ||
हृदयाश्रयिणस्ते तु बाह्याः स्युर्बाह्यसंश्रयात् || ३९७ || ||
हृदयाश्रयिकामेभ्य आत्मसंश्रयिणां यतः ||
प्रसूतिरिह कामानामतोऽनेकसमाश्रयात् || ३९८ ||
हृदयाश्रयणं तेषां विशेषणमिहोच्यते ||
आत्माश्रयाणां कामानां विनिवृत्तिः फ़लं हि तत् || ३९९ ||
मनोद्वारोपसंक्रान्ता भावना याऽऽत्मनि स्तिता ||
देहिनो जन्मवीजं सा तदुच्छेदाद्विमुच्यते || ४०० ||
बीजस्थस्याङ्कुरस्येह जन्माऽऽश्रित्य यथैव गाम् ||
आश्रयादेव जन्मैवं कामानां हृदयाश्रयात् || ४०१ ||
हृदयेन च संबन्धाद्दृश्यन्ते येन तेऽखिलाः ||
अतो विशेषकार्येण विशेष्यन्ते हृदैव ते || ४०२ ||
हृदि श्रिता यदा कामाः प्रमुच्यन्तेऽस्य देहिनः ||
अथ मर्त्योऽमृतः प्राज्ञो भवतीत्येष निश्चयः || ४०३ ||
विद्याकर्मसमूहेन येनायं परमात्मनः ||
संसारित्वं परिच्छिद्य प्रापितः स यदाऽखिलः ||
प्रमुच्यतेऽथ तद्धानाच्छुद्धो ब्रह्म समश्नुते || ४०४ ||
आत्मकामोक्तिमानाच्च प्रागप्येतद्विनिश्चितम् ||
आत्मैव कामा अस्येति न भिन्ना हार्दकामवत् || ४०५ ||
तत्र ये त्वात्मनोऽभिन्नास्तेभ्योऽन्यत्वकारणात् ||
प्रमुक्तिरात्मनो नास्ति तैरसंसर्गतः सदा || ४०६ ||
संसर्गः प्रविवेको वा भिन्नयोर्वस्तुनोर्यतः ||
नाभिन्नयोरतो मुक्त आत्मस्थानामभेदतः || ४०७ ||
मिथ्यादर्शनजा ये तु माहारजनपूर्वकाः ||
अन्यत्वेऽवस्थिता बन्धहेतुत्वेन च सर्वदा || ४०८ ||
संसर्गप्रविवेकौ स्तो यतस्तैरात्मनः सदा ||
तानेवोद्दिश्य तेनेदं विशेषणमिहेरितम् || ४०९ ||
हृदयाश्रयिणो येऽस्य न त्वात्मैकसमाश्रयाः ||
कामास्तेऽस्य प्रमुच्यन्त इत्येतत्प्रागपीरितम् ||
तदा तीर्णो भवत्येष शोकान्हृदयसंश्रितान् || ४१० ||
शोकाभिधानास्तत्रापि कामा एवोदिताः पुरा ||
न्यायस्तत्राप्ययं कृत्स्नः संभवत्येव निर्णये || ४११ ||
इति श्रीमन्महाभर्तृप्रपञ्चस्य महीयसः ||
व्याख्यामधीयते धीरा न्यायागमबहिष्कृताम् || ४१२ ||
सर्वात्मभावं विद्यायाः फ़लमुक्त्वा च नः श्रुतिः ||
अथ योऽन्यामिति गिरा प्राहाविद्यां तथा फ़लम् || ४१३ ||
कार्यकारणरूपेण यदेतद्भेददर्शनम् ||
अविद्याया इदं कार्यमन्योऽसाविति भण्यते || ४१४ ||
आ समाप्तेस्तृतीयस्य प्रत्यगज्ञानहेतुकम् ||
ब्रह्म वा इत्युपक्रम्य मोहकार्यं विवक्षितम् || ४१५ ||
अस्यामविद्याधिकृतौ सप्तान्नाविष्कृताविह ||
फ़लात्मकानामन्नानां प्रसङ्ग इदमीरितम् || ४१६ ||
अव्याकृतस्य तत्त्वस्य नामरूपक्रियात्मभिः ||
व्याकृतिर्योदिता पूर्वं तदज्ञानविजृम्भितम् || ४१७ ||
नामरूपादिभेदेन वर्णादिप्रविभागतः ||
कार्यमेतदविद्यायाः श्रुत्या व्याख्यायतेऽखिलम् || ४१८ ||
कणभुग्जैमिनीयैर्य आत्मधर्मा इतीरिताः ||
नाऽऽत्मनोऽनात्मनस्ते तु काम इत्यादिनोदिताः || ४१९ ||
यावत्किंचिज्जगत्यस्मिन्न्रूपं मेयत्वमागतम् ||
सर्वं तन्मन एवेति श्रुत्या साक्षात्स्फ़ुटीकृतम् || ४२० ||
प्रकाशोऽपि च यः कश्चिदभिव्यञ्जक इष्यते ||
अभिव्यङ्ग्याभिसंबन्धः स च वागित्यथावदत् || ४२१ ||
क्रियात्मकं च यत्किंचिन्मानतो जगतीक्ष्यते ||
तत्सर्वं प्राण एवेति संजहार श्रुतिः स्वयम् || ४२२ ||
निश्चितं यच्च संदिग्धं तथाऽविज्ञातमेव च ||
वाङ्भनःप्राणरूपाणि तानि हीति श्रुतिर्जगौ || ४२३ ||
यतोऽविद्यात्मकान्येव रूपाण्येतान्यतो दृशेः ||
नाऽऽत्मनः स्युः समस्तानि कार्यकारणबाह्यतः || ४२४ ||
तथा दिग्भेदभिन्नानां नामरूपक्रियात्मनाम् ||
उक्तं हृदय एवेति नीडं नाऽऽत्मा परो मतः || ४२५ ||
समान उपसंहृत्य जगत्कारणरूपके ||
कारणस्याप्यपह्नुत्यै नेतीत्यात्मानमब्रवीत् || ४२६ ||
कार्यकारणयोरेव निषेधान्नेतिवाक्यतः ||
आत्माश्रयत्वं कामानां निष्प्रमाणकमुच्यते || ४२७ ||
हृदयोत्पाद्यता नापि कामानामिह कीर्त्यते ||
हृदि श्रिता इति ह्युक्तेर्न श्रुता कारणात्मता || ४२८ ||
नेति नेतीति चोक्तोऽर्थो जनकं प्रति यः पुरा ||
किंज्योतिरित्युपक्रम्य स एवार्थः प्रपञ्ज्यते || ४२९ ||
क्रियाकारककर्मभ्यो व्युत्थाप्याऽऽत्मानमेकलम् ||
पुमासनादिलिङ्गेन रवीन्दूदाहृतेस्तथा || ४३० ||
व्यतिरिक्तस्य तस्यैवमुक्ताध्यात्मादिभेदतः ||
स्वयंज्योतिर्विशुद्ध्यर्थं स वा इत्यादिका श्रुतिः || ४३१ ||
स्वतोऽसंदूषितः प्रत्यङ्कामकर्मादिभिर्मलैः ||
अनन्वागतवचनात्तथाऽसङ्गश्रुतेरपि || ४३२ ||
आत्मशुद्धेर्विवक्षेह न त्वशुद्धेः कथंचन || ४३३ ||
विशेषणस्य श्रवणाद्धृदीत्यात्मनि चेन्मतम् ||
सव्येनाक्ष्णा न पश्यामि यथा सामर्थ्यतस्तथा || ४३४ ||
नोक्तोत्तरत्वात्साध्वेतद्भवतेहाभिधीयते ||
प्रतिज्ञातार्थसिद्ध्यर्थहेत्वर्थं तद्विशेषणम् || ४३५ ||
सर्वेषामपि कामानामाश्रयो हृदयं यतः ||
तद्धेत्वतिक्रमादात्मा सर्वशोकातिगस्ततः || ४३६ ||
अनाश्रितविभागार्थमथवाऽस्तु विशेषणम् ||
तेषु यत्नविधेयत्वात्सफ़लं स्याद्विशेषणम् || ४३७ ||
नाऽऽश्रयापेक्षयैतत्स्याद्धृदीतीह विशेषणम् || ४३८ ||
न हि हृद्व्यतिरेकेण कामानामाश्रयान्तरम् ||
श्रुतो स्मृतौ वा न्यायाद्वा दृश्यतेऽपि प्रमान्तरात् || ४३९ ||
प्रवृत्तिः कामशब्दस्य भूयःस्वर्थेषु दृश्यते ||
कर्मादिषु जगत्यस्मिं स्तानपेक्ष्यात उच्यते ||
हृदि श्रिता इति वचो नाऽऽश्रयान्तरवीक्षया || ४४० ||
अतिच्छन्दा इति वचः कामाधारत्व आत्मनः ||
विरुध्यते प्रमाणं सन्न चान्यार्थत्वमिष्यते || ४४१ ||
आत्मनः कामनीडत्वे न च मानान्तरं क्वचित् ||
सर्वकामादिवचनं प्रमाणमिति चेन्मतम् || ४४२ ||
तन्नातिच्छन्दवचसा विरोधान्नास्य मानता || ४४३ ||
वस्तुनोऽप्यन्यतन्त्रत्वात्षोडशिग्रहणादिवत् ||
विकल्पोऽप्यत्र नैवास्ति न हि वस्तु विकल्प्यते || ४४४ ||
सर्वं हि खल्विदं ब्रह्मेत्येवं तत्रापि च श्रुतिः ||
प्रतिज्ञायाऽऽह युक्तिं च तज्जलानिति सादरात् || ४४५ ||
अक्रियाकारकफ़लं यतो ब्रह्माद्वयं ततः ||
त्यक्ताशेषक्रियैस्तस्मात्तदुपास्यं सदाऽऽत्मना || ४४६ ||
इत्येतज्जगतो वृत्तं ब्रह्मैवाकार्यकारणम् ||
अव्यावृत्ताननुगतं प्रत्यङ्मात्रसतत्त्वकम् || ४४७ ||
उक्त्वैवं वस्तुनो वृत्तं तद्याथात्म्याप्रबोधजम् ||
कर्त्रादिकारकापेक्षं क्रियावृत्तमभाषत || ४४८ ||
ब्रह्मात्मानमुपासीत ब्रह्मतत्त्वाविचक्षणः ||
कुर्वीत स क्रतुं कर्ता ह्यकार्यत्वेऽपि वस्तुनः || ४४९ ||
मनोमयादिविषयः क्रतुः पुंसो विधीयते ||
स हि तस्मिन्यतः शक्तो लोकाग्न्यादिविधौ यथा || ४५० ||
अतः कर्त्रादितन्त्रत्वात्सर्वकामादिवस्तुनः ||
अतिच्छन्दोक्तिबाधः स्याद्वस्तुतन्त्रत्वहेतुतः || ४५१ ||
विकल्पोऽत्र न युक्तः स्यादेवमुक्तेन वर्त्मना || ४५२ ||
असत्यकामनुत्त्यर्था कामोक्तिर्याऽपि चाष्टमी ||
सत्यास्त इम इत्यादि स्तुतिर्वा स्याद्विधित्सिते || ४५३ ||
सन्त्यात्मनि न चेत्कामास्तदेवं फ़लवद्वचः ||
अतिच्छन्दा इति शुभं कामशोकनिषेधकृत् || ४५४ ||
निषिध्यन्ते न चेत्कामा यथोक्ताः प्रत्यगात्मनि ||
अथ काममयत्वेऽस्य संसारोऽपि न वार्यते || ४५५ ||
मतं नालं प्ररोहाय ये कामाः प्रत्यगात्मनि ||
किमर्था तर्हि तत्रैषां कल्प्यते भवता स्थितिः || ४५६ ||
न कश्चिदुपयोगोऽत्र कामानां विद्यते स्थितौ ||
अजागलस्तनस्येव प्रमाणाद्बन्धमोक्षयोः || ४५७ ||
प्रमाणबलसद्भावो निष्फ़लोऽपि न वार्यते ||
प्रतीचि कामसंबन्धो न तथेति निषिध्यते || ४५८ ||
कामादीनामनर्थानां प्रतीचि शतशः श्रुतौ ||
निषेधकानि वाक्यानि सन्त्यपि स्मृतिशासने || ४५९ ||
कामक्लृप्तिरतो नेह प्रत्यगात्मनि युज्यते ||
प्रमाणासंभवात्तस्मात्सा न कल्प्या विपश्चिता || ४६० ||
प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि ||
अदृष्टशतभागोऽपि न कल्प्यो निष्प्रमाणकः || ४६१ ||
न चाऽऽत्मकाम इत्यत्र कामाधारत्व आत्मनः ||
मानान्तरप्रसिद्धत्वात्प्रामाण्यं लभ्यते श्रुतेः || ४६२ ||
न चोपास्योऽयमप्यर्थः सर्वकामादिवच्छ्रुतेः ||
ऐकात्म्यवस्तुयाथात्म्यप्रकाशनपरत्वतः || ४६३ ||
कणभुङ्न्यायसिद्धा चेत्कामाद्याश्रयताऽऽत्मनः ||
श्रुतेस्तदनपेक्षत्वान्नापेक्ष्यं कणभुङ्मतम् || ४६४ ||
तन्निषेधश्रुतेश्चापि नापेक्ष्यं तद्विरोधतः ||
सौगताद्युक्तिवत्तस्मान्न कामाश्रयताऽऽत्मनः || ४६५ ||
न च कामाश्रयत्वेऽन्यत्प्रमाणं किंचिदीक्ष्यते ||
मानमेयातिवर्तित्वात्स्वतः सिद्धेश्च वस्तुनः || ४६६ ||
मातृमानप्रमेयार्थांश्चाऽऽगमापायिनः सदा ||
वीक्षते योऽविलुप्ताक्षः स आत्माऽनन्यमानगः || ४६७ ||
यः स्वतो नाऽऽगमापायी तद्विरुद्धेषु सर्वदा ||
तत्रैवाऽऽत्मेति धीरेषा नाऽऽगमापायिवस्तुषु || ४६८ ||
कामिनं दुःखिनं मूढं योऽविलुप्ताक्ष ईक्षते ||
नासौ कामोऽथवा कामी तत्संबन्धोऽथवा स्वयम् || ४६९ ||
एवं दुःखादिषु ज्ञेयमुक्तं प्रत्यक्षसंश्रयाम् ||
इच्छादेश्चित्तधर्मत्वात्कर्मस्थत्वं सुनिश्चितम् || ४७० ||
इच्छादिधर्मवत्साक्षाद्यः सदा वीक्षते मनः ||
तस्येच्छाद्यभिसंबन्धः केन मानेन गम्यते || ४७१ ||
प्रत्यग्वस्तु पराग्बुद्धिगम्यैरिच्छादिभिः कथम् ||
विरुद्धत्वाद्विशेष्यं स्यात्तमसा दिनकृद्यथा || ४७२ ||
एकबुद्ध्यधिगम्यत्वं विशेषणविशेष्ययोः ||
नीलोत्पलादिवदृष्टं न तद्दृष्टं विरुद्धयोः || ४७३ ||
नापि चाऽऽत्मातिरेकेण ग्राहकोऽन्योऽवसीयते ||
ग्राहकस्थश्च कामादिः स कथं ग्राह्यतां व्रजेत् || ४७४ ||
चक्षुर्दृष्टेर्न चक्षुस्थं कृष्णत्वाद्येति दृश्यताम् ||
प्रमातृस्थं न कामादि तद्वदेयात्प्रमेयताम् || ४७५ ||
आत्मत्वावगमाद्वाऽपि जडस्यैवेह वस्तुनः ||
कामकाम्यादि तस्यास्तु दृष्टिमात्रात्मनो न तु || ४७६ ||
अचेतनैकनीडत्वं मयाऽपीह प्रसाध्यते || ४७७ ||
स्वेन भासेति च स्वप्ने सर्वकामादिवर्जितम् ||
स्वेनैव ज्योतिषेत्युक्तं स्वयंज्योतिष्ट्वसिद्धये || ४७८ ||
स्वयंज्योतिष्ट्वसिद्धिश्च श्रुतिन्यायपुरःसरा ||
कामाद्याश्रयतोक्त्याऽर्थात्सा त्वया बाधिता भवेत् || ४७९ ||
तथैवाऽऽत्मनि दृष्टे च सर्वं दृष्टं भवेदिति ||
कामादेरात्मनोऽन्यत्वे तच्चापि स्यात्प्रबाधितम् || ४८० ||
सर्ववेदान्तबाधश्च कामाद्याश्रयता यदि ||
अत्मनोऽभ्युपगम्येत तेषां तत्प्रतिषेधतः || ४८१ ||
ऐकात्म्यस्याऽऽगमार्थत्वाच्छ्रुतेश्चान्यानपेक्षतः ||
यतोऽतस्तार्किकोक्तीस्ता नैवापेक्षामहे वयम् || ४८२ ||
हृद्याश्रितत्वं कामानां नन्वत्रोक्तं विशेषणम् ||
संभवे व्यभिचारे च तच्च स्यात् फ़लवत् सति || ४८३ ||
हृद्यनाश्रितकामानां संभवादिष्टमेव तत् ||
आत्माश्रयातिरेकेण तच्चावो चं पुराऽप्यहम् || ४८४ ||
मूर्तं मर्त्यं स्थितं सच्च पृथिव्यप्तेजसामिदम् ||
न विशेषणमित्यस्मादमूर्तत्वादिकल्पनम् || ४८५ ||
चलनात्मा मरुन्नित्यं दाहकोऽग्निरितीरिते ||
विशेषणश्रवात् कृप्तिः नैतयोस्तद्विरुद्धयोः || ४८६ ||
वास्येऽर्थे वासनाः सर्वाः सजातीये च ता यतः ||
निःसङ्गे भिन्नजातीये ताः कुतः प्रत्यगात्मनि || ४८७ ||
प्रत्यगात्मातिरेकेण प्राज्ञोऽन्यश्चेद्विवक्ष्यते ||
नेति नेतीति तस्योक्तान्निषेधान्नेह संभवः || ४८८ ||
निःशेषकामकर्मादेर्व्युत्थाप्याऽऽत्मानमब्रवीत् ||
तद्वा अस्यैतदित्युक्त्या नातः कामादयोऽत्र ते || ४८९ ||
तद्वा अस्यैतदित्यादेः प्राज्ञस्याऽऽन्तररूपतः ||
वासनाकामकर्मादेः कुतोऽस्याऽऽन्तररूपता || ४९० ||
पीतरक्तादिभी रूपैः कर्मकार्यैः प्रयुज्यते ||
निर्देष्टुं शक्यते तस्मादनिर्देश्योऽपि सन्नसौ || ४९१ ||
भावनैव विजृम्भन्ती स्थूलत्वमुपगच्छति ||
अव्याकृतादिभावेन खवाय्वादित्यसंज्ञितम् || ४९२ ||
मूर्तामूर्तादिभावाच्च क्षीयमाणा हि सैव तु ||
निर्गुणं सन्तमात्मानं रञ्जयित्वाऽवतिष्ठते || ४९३ ||
भावना बहुरूपाऽसौ बहुरूपत्वमात्मनः ||
करोत्यनामरूपस्य मणेरास्तरणं यथा || ४९४ ||
इत्यादि भवतैवोक्तं वासनोक्तिप्रसङ्गतः ||
इहोक्तेस्तद्विरुद्धत्वात्परस्परविरुद्धता || ४९५ ||
कर्मराशिगिराऽऽत्माऽपि यदि तत्र विवक्षितः ||
निषेधात्तस्य नेतीति शून्यतैव प्रसज्यते || ४९६ ||
परमार्थात्मनोऽथान्यः कश्चिदात्मेति भण्यते ||
अस्तु कामं स कामादेराश्रयो न निवार्यते || ४९७ ||
शक्त्यात्मनाऽप्यवस्थानं कारणात्मनि युज्यते ||
तस्य शक्त्यभिसंबन्धान्न त्वकारण आत्मनि || ४९८ ||
न च कारणमात्रत्वं रूपमिष्टं परात्मनः ||
अनिर्मोक्षप्रसक्तित्वाच्छ्रुत्यनारम्भसक्तितः || ४९९ ||
स्थूलादीनां च सर्वेषां प्रतीचि प्रतिषेधतः ||
विशेषणानां संबन्धो नातः स्यात्प्रत्यगात्मनः || ५०० ||
आत्माश्रयत्वं कामानां न युक्त्या नापि शास्त्रतः ||
अपव्याख्यानतस्तेषां कामा आत्माश्रया इति || ५०१ ||
एवं समवनीतेषु प्राणेष्वात्मनि तद्विदः ||
पूर्ववद्देहसंबन्धः किमिवेह न जायते || ५०२ ||
सर्पनिर्मोकवत्कृत्स्नमात्माविद्यैकहेतुजम् ||
यथावस्तुधिया हित्वा निर्ममो निरहंकृतः || ५०३ ||
वर्तमानोऽपि देहादौ लोकदृष्टिव्यपेक्षया ||
नाऽऽत्माऽऽत्मीयत्वबुद्ध्याऽसौ देहादीन्समुदीक्षते || ५०४ ||
षष्ठ्यर्थहेतुविध्वंसाद्यथावस्त्ववबोधतः ||
अव्यावृत्ताननुगतं पूर्णं वस्त्ववतिष्ठते || ५०५ ||
अहिनिर्ल्वयनीवाचा सर्पनिर्मोक उच्यते ||
मृता सत्यहिना न्यस्ता वल्मीकान्तर्बिलाश्रये || ५०६ ||
अहिदेहवियोगोऽत्र मृतशब्देन भण्यते ||
वल्मीकाश्रयणं तस्याः प्रत्यस्तेत्यभिधीयते || ५०७ ||
अहिनिर्मोकविषयो व्यापारस्तावदीरितः ||
निर्ममाहंकृतित्वं तु सर्पदृष्टान्तसंश्रयम् || ५०८ ||
बिले त्यक्तेऽहिना यद्वत्स्वनिर्मोके न पूर्ववत् ||
निर्गच्छन्प्रविशन्सर्पो निर्मोकमनुरुध्यते || ५०९ ||
नाहं ममेति वा बुद्धिस्तत्राहेरुपजायते ||
तत्रैव वर्तमानस्य यथैवं प्रत्यगात्मनः || ५१० ||
संबन्धहेतोरुच्छित्तेरात्मसंबन्धवर्जितम् ||
शेते शरीरं सूक्ष्मं च स्थूलं चैकात्म्यधीह्नुतम् || ५११ ||
अहिनिर्मोकदृष्टान्तदार्ष्टान्तिकमितीरितम् ||
दार्ष्टान्तिकोऽर्थः सर्पस्य दृष्टान्तस्याथ उच्यते || ५१२ ||
अहिनिर्मोकयोरत्र संगतिः पूर्ववन्मिथः ||
निषिध्यते प्रयत्नेन स्थितिर्नात्र विवक्षिता || ५१३ ||
प्रधानवादः प्राप्नोति यदि देहात्मनोः पृथक् ||
विवक्ष्यते स्थितिरिह न्यषेधि बहुशः स च || ५१४ ||
हेत्वर्थे त्वथशब्दोऽयं हेतूक्तेः प्रकृतत्वतः ||
सकारणस्य देहस्य त्यागो हेतुर्विवक्षितः || ५१५ ||
स्रगज्ञानमनादाय नाहियोगः स्रजो यथा ||
प्रतीचो देहसंबन्धो नाऽऽत्माज्ञानादृते तथा || ५१६ ||
प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ||
नेतिनेतिस्वरूपत्वादशरीरो भवेत्ततः || ५१७ ||
स्वतोऽदिग्देशकालादेः प्रत्यक्चिन्मात्रवस्तुनः ||
देशादिमच्छरीरेण न संबन्धस्तमो विना || ५१८ ||
कल्पितेनाभिसंबन्धो न ह्यकल्पितवस्तुनः ||
अज्ञानकालेऽप्यस्तीह किमुताज्ञाननिह्नुतौ || ५१९ ||
अनस्थिकगिरा स्थूलदेहस्येह निवारणम् ||
तथाऽशरीरशब्देन सूक्ष्मो देहो निषिध्यते || ५२० ||
सूक्ष्मदेहनिषेधोक्त्या स्थूलस्यापि निषेधतः ||
तन्निषेधाय यत्नोऽतः काण्वश्रुत्या न भण्यते || ५२१ ||
यद्वाऽशरीरशब्देन तच्छ्रुतौ लिङ्गनिह्नुतिः ||
स्थूलस्यामृत इत्युक्त्या निषिद्धत्वान्न निह्नुतिः || ५२२ ||
साक्षिणः प्राणशब्देन विशेष्यस्याभिधेष्यते ||
ब्रह्मैवेति तु शब्देन तद्विशेषणमुच्यते || ५२३ ||
साक्षिणः सद्वितीयत्वं ब्रह्मणश्च परोक्षताम् ||
तद्धेतुप्रतिषेधेन वाक्यमेतन्निषेधति || ५२४ ||
नामोपक्रममाशान्तं प्राणकारणसंश्रयम् ||
प्राणो ब्रह्मेति वचसा तदात्मनि निषिध्यते || ५२५ ||
ब्रह्मात्मनोश्च संसर्गो मा प्रापत्कृष्णसर्पवत् ||
इत्यर्थं तेज एवेति श्रुतिः संसर्गवारिणी || ५२६ ||
व्यावर्त्यभेदादाभाति भेदो ब्रह्मात्मशब्दयोः ||
वस्तुतस्त्वेक एवाऽऽत्माऽमानित्वादिर्यथा तथा || ५२७ ||
ब्रह्मैव तेज एवेति ह्युभयत्रावधारणम् ||
संसर्गप्रतिषेधार्थं मा भून्नीलोत्पलादिवत् || ५२८ ||
सर्वानर्थैकबीजस्य प्रत्यगज्ञानरूपिणः ||
कार्योऽत्र वचसा बाधः केवलो नान्य इष्यते || ५२९ ||
यस्मादेतत्स्वतो बुद्धमतः शुद्धमसंगतेः ||
मुक्तं चातः स्वतो वस्तु किमन्यत्कार्यमिष्यते || ५३० ||
कृतं चिकीर्षितं सर्वं बुद्धं यच्च बुभुत्सितम् ||
आप्तं बोधात्तथाऽऽप्तव्यं वर्जनीयं च वर्जितम् || ५३१ ||
कामप्रश्नः समाप्तोऽतो निराकाङ्क्षोऽभवन्नृपः ||
सोऽहं सहस्रमित्याह तस्मादेव च कारणात् || ५३२ ||
ननु प्रश्नः समाप्तश्चेन्नादात्सर्वं स किं नृपः ||
सहस्रमेव तु प्रादादेकदेशोक्तिवत्कथम् || ५३३ ||
मतं विद्यारसाकृष्टो विद्यां भूयोऽपि चेन्नृपः ||
शुश्रूषति तदर्थं च सहस्रं मुनये ददौ || ५३४ ||
शुश्रूषालिङ्गमेतत्स्यान्न त्वियं गुरुदक्षिणा || ५३५ ||
सर्वस्वं चेदहं दद्यामिहैव च तदा मुनिः ||
निवृत्तकामं मां मत्वा विद्यां भूयो न वक्ष्यति || ५३६ ||
इत्येतस्माद्भयाद्राजा श्लोकशुश्रूषयेरितः ||
प्रादात्सहस्रमेवास्मै शुश्रूषालिङ्गवित्तये || ५३७ ||
इति चेन्नैतदेवं स्याच्छ्रुतेः प्रामाण्यकारणात् ||
श्रुतौ न युक्ता व्याजोक्तिरप्रमाणनरोक्तिवत् || ५३८ ||
संभवाच्चार्थशेषस्य सर्वसंन्यासरूपिणः ||
प्राग्यथोक्तात्मविज्ञानसाधनस्येह चाश्रवात् || ५३९ ||
यत एवमतोऽयुक्ता पुनरुक्तार्थकल्पना ||
गतौ सत्यामनृज्वीयं नापि विद्यास्तुतिर्मता || ५४० ||
ननु यद्यर्थशेषोऽस्ति कस्माद्ब्रूते न पूर्ववत् ||
विमोक्षायैव मे ब्रूहीत्यदोषोऽयं कुतो यतः || ५४१ ||
विमोक्षायेह नैवालमन्यदात्मावबोधतः ||
मुक्तस्य च मुमुक्षोश्च सर्वत्यागव्यपेक्षतः || ५४२ ||
स्वरूपसाधनत्वाभ्यां त्यागस्यैवान्तरङ्गतः ||
नापूर्ववद्विधेयत्वं न च त्यागाद्विमुक्तता || ५४३ ||
प्रागात्मज्ञानसंभूतेः संन्यासो ज्ञानसाधनम् ||
उत्पन्नात्मधियः पश्चाज्ज्ञानमेव हि तत्तथा || ५४४ ||
उक्तब्रह्मविदो मोक्ष इत्यर्थे ब्राह्मणोदिते ||
श्लोका अपि भवन्त्यत्र ब्राह्मणोक्तविनिश्चितौ || ५४५ ||
अणुस्थूलादिनिः शेषविकल्पातिक्रमादयम् ||
अणुरात्मैकयाथात्म्यज्ञानं पन्थाः पुरातनः || ५४६ ||
अनन्तात्मैकमेयत्वाद्विततश्चातिविस्तृतः ||
अनुत्पन्नागमोत्थत्वात्पुराणश्चेति शब्द्यते || ५४७ ||
तरन्त्यनेन विस्पष्टं संसारानर्थसागरम् ||
यतोऽतो वितरः पन्थाः प्रत्यग्बोधोऽभिधीयते || ५४८ ||
मां मुक्त्वाऽसंभवो यस्मादब्रह्मार्थस्यात उच्यते ||
मां स्पृष्टो मामनुप्राप्त एष पन्था यथोदितः || ५४९ ||
शास्त्राचार्योक्तितः पश्चादनुवित्तो मयैव च ||
ज्ञेयाज्ज्ञाता परो नास्ति प्रत्यग्ज्ञाने यतस्ततः || ५५० ||
प्रागप्यवोचं बहुश इममर्थं यथोदितम् ||
श्रुतितो न्यायतः स्पष्टं नाऽऽत्मनोऽन्योऽस्ति वेदिता || ५५१ ||
तेनानेन पथा धीराः प्रत्यग्ध्वान्तच्छिदा सदा ||
ब्रह्मापियन्ति निर्द्वंद्वा आप्तमेव तमोन्हुतेः || ५५२ ||
आत्मैव ब्रह्म चाऽऽत्माऽपि ब्रह्मैव स्याद्यतः स्वतः ||
तद्याथात्म्यापरिज्ञानात्तद्विपर्ययधीरियम् || ५५३ ||
निःशेषमिथ्याविज्ञानहेत्वविद्याविनाशकृत् ||
नान्योऽस्ति ब्रह्मसंबोधाच्छ्रुतिस्तेनेत्यतोऽवदत् || ५५४ ||
स्वर्गोऽयमेव प्रागुक्तः स्वर्गकामवचस्यपि ||
कर्मभिस्तदसिद्धर्हि वेदान्तज्ञानसिद्धितः || ५५५ ||
परमानन्द एवातः स्वर्गशब्देन भण्यते ||
मोक्षप्रकरणान्नित्यः क्रियोत्थोऽतो न गृह्यते || ५५६ ||
इत उक्तात्मसंबोधमोहोच्छित्तेरनन्तरम् ||
स्वत एव यतो मुक्ता मुच्यन्तेऽत्स्तमोन्हुतेः || ५५७ ||
देहपातव्यपेक्षा स्याद्यत्र कारणसंगतिः ||
सर्वकारणविध्वस्तौ नान्यद्बोधादपेक्ष्यते || ५५८ ||
मुक्तौ तमोतिरेकेण नान्तरायोऽन्य इष्यते ||
यतोऽतोऽज्ञानविध्वस्तौ मुक्तः सन्ना विमुच्यते || ५५९ ||
ब्रह्मैव सन्निति तथा प्रागपीदं श्रुतीरितम् ||
देहपातव्यपेक्षाऽतो न स्यादूर्ध्बश्रुतेरिह || ५६० ||
मोक्षमार्गे यथोक्तेऽस्मिन्नविद्योपप्लुताशयाः ||
दर्शनानि विचित्राणि कल्पयन्ति यथारुचि || ५६१ ||
शुक्लं ब्रह्मातिसंशुद्धमिति केचिद्विनिश्चिताः ||
शरदि व्योमवन्नीलमित्याहुरपरे जनः || ५६२ ||
पिङ्गलं तत्परं ब्रह्म वह्निज्वालेव शाश्वतम् ||
वैडूर्यवच्च हरितं केचिदाहुर्विपश्चितः || ५६३ ||
अपरे लोहितं प्राहुर्जपाकुसुमसंनिभम् ||
यथा रूपे तथा ज्ञेया शब्दादिष्वपि कल्पना || ५६४ ||
अविद्यापटसंवीतचेतसामागमादृते ||
कामापहतबुद्धीनामेवमाद्या विकल्पनाः || ५६५ ||
एकमेवैकरूपं सद्वस्त्वज्ञातं निरञ्जनम् ||
जात्यन्धगजदृष्ट्येव कोटिशः कल्प्यते मृषा || ५६६ ||
अस्थूलाशब्दनेतीति सर्वमात्रादिनिन्हुतेः ||
कुतोऽकारणकार्येऽस्मिञ्शुक्लादेः संभवः परे || ५६७ ||
यस्तु वेदोदितोपायक्षपिताशेषकल्मषः ||
ब्रह्मणैवानुवित्तोऽयं तेन पन्था गुरूक्तितः || ५६८ ||
अव्यावृत्ताननुगतब्रह्मरूपातिरेकतः ||
न रूपमात्मनोऽस्त्यन्यच्छ्रुतिन्यायानुभूतितः || ५६९ ||
यतोऽतो ब्रह्मणैवायं पन्था ज्ञातः प्रमाणतः || ५७० ||
ब्रह्मणैवेति च ज्ञेया इत्थंभूतार्थलक्षणा ||
तृतीयेयं न कर्त्रादौ प्रतीचि तदसंभवात् || ५७१ ||
क्रियाकारकभेदोऽयं प्रत्यगज्ञानहेतुजः ||
यतोऽतो न तृतीयेयं कर्त्रादाविह युज्यते || ५७२ ||
ब्रह्मात्मनोरभिन्नत्वं वस्तुतो यद्यपीक्ष्यते ||
अनन्तानर्थसंप्राप्तिस्तथाऽपि तदबोधतः || ५७३ ||
तथाच यदि नाम स्याद्यथोक्तज्ञानपूर्वकम् ||
पराक्सर्वार्थविज्ञानं वस्तुवृत्तानुरोधतः || ५७४ ||
तथाऽप्यब्रह्मवित्तेन न कैवल्यं पथैति तत् ||
तेनैति ब्रह्मवित्तस्मान्नान्यः पन्था इति श्रुतेः || ५७५ ||
ब्रह्मवित्त्वे च को हेतुरित्याशङ्क्याऽऽह नः श्रुतिः ||
पुण्यकृत्तैजसश्चेति भवेद्ब्रह्मविदुत्तमः || ५७६ ||
पुण्यकृज्जायते यस्माच्छुद्धधीरिह मानवः ||
शुद्धसत्त्वोऽथ तद्ब्रह्म साक्षादात्मनि पश्यति || ५७७ ||
तेजःशब्देन संशुद्धं सत्त्वमेवाभिधीयते ||
तस्मिन्भवस्तैजसः स्यात्प्रत्यक्प्रवणधीर्नरः || ५७८ ||
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ||
यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि || ५७९ ||
गार्भैर्होमैर्जातकर्मचूडाम्रौञ्जीनिबन्धनैः ||
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ||
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये || ५८० ||
योगी वा तैजसोऽत्र स्यात्प्रत्यग्दृष्टौ समर्थतः ||
विषयाकृष्टधीर्यस्मान्न क्षमः प्रत्यगीक्षणे || ५८१ ||
सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि ||
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः || ५८२ ||
इत्येवं स्मृतयः सन्ति श्रुतयश्च सहस्रशः ||
कर्मभिः शुद्धसत्त्वस्य सम्यग्ज्ञानस्य जन्मनि || ५८३ ||
यस्मिन्विशुद्ध इत्येवं सत्त्वशुद्धौ ध्रुवा स्मृतिः ||
तमेतमिति च स्पष्टं श्रौतानि च वचांसि नः || ५८४ ||
प्रसिद्धमहिमानौ वा पुण्यकृद्योगिनाविह ||
ब्रह्मवित्स्तूयते ताभ्यां ब्रह्मविद्याप्रवृत्तये || ५८५ ||
इह केचिन्महात्मानः प्रत्यङ्भोहच्छिदा सह ||
पुण्यकृत्तैजसत्वाभ्यां ज्ञानेनाऽऽहुः समुच्चयम् || ५८६ ||
पुण्यकृत्पुण्यकर्मा यो योगी तैजस उच्यते || ५८७ ||
ब्रह्मज्ञानैकनिष्ठः सन्पुण्यकृत्तैजसश्च सन् ||
शास्त्रोपदिष्टमैकात्म्यं शक्तो योगेन वीक्षितुम् || ५८८ ||
परस्परं व्यपाश्रित्य यथोक्तं साधनत्रयम् ||
एकार्थसिद्धयेऽलं स्यान्नान्यथेदं त्रिदण्डवत् || ५८९ ||
समुच्चयोऽयमस्माभिर्यथाऽभाणि तथा यदि ||
व्याख्यायते न दोषः स्यात्तत्र मानस्य संभवात् || ५९० ||
इतोऽन्यथा चेद्व्याख्यानं क्रियते बुद्धिलाघवात् ||
दुर्निवारेह साऽऽप्नोति योक्ता दोषपरंपरा || ५९१ ||
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ||
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः || ५९२ ||
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ||
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज || || ५९३ ||
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ||
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः || ५९४ ||
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ||
शिलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः || ५९५ ||
अर्थस्य मूलं निकृतिः क्षमा च कामस्य रूपं च वयो वपुश्च ||
धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः || ५९६ ||
इत्येवं स्मृतिशास्राणि सर्वत्यागपुरःसरम् ||
ज्ञानजन्माभिदधति तथा श्रुतिवचांसि च || ५९७ ||
ऐकात्म्यदर्शनादुक्ताद्यदन्यद्दर्शनान्तरम् ||
अन्धं तम इति श्रुत्या तदिहापोद्यतेऽखिलम् || ५९८ ||
तमोमोहादिभेदेन तमोऽनेकस्वलक्षणम् ||
यतोऽतोऽन्धं तम इति विशिनष्टि श्रुतिस्तमः || ५९९ ||
अन्धं मूढं तमो यान्ति येऽविद्यां समुपासते ||
विरक्ता अपि संसारान्नैकात्म्यं ये विदुर्नराः || ६०० ||
संभूतिवचसाऽपीयमविद्यैवाभिधीयते ||
अविद्यातो हि संभूतिः सर्वस्य जगतो यतः || ६०१ ||
ततो भूयस्तमो यान्ति ये विद्यायां रता जनाः ||
अणिमादावविद्योत्थे पराक्चित्ततया रताः || ६०२ ||
ग्राह्यग्राहकभेदेन या विद्यामात्रकारणा ||
विद्येति सेह विज्ञेया नैकात्म्यप्रसमीक्षणम् || ६०३ ||
कर्मार्थद्योतिका वेह विद्याऽत्राप्यभीधीयते ||
तस्यामभिरता ये स्युर्वेदान्तार्थानपेक्षिणः || ६०४ ||
विशन्त्यज्ञास्तु ते सन्तस्ततो भूयः परं तमः ||
मिथ्याज्ञानाधिकत्वेन भूयस्त्वं तमसो भवेत् || ६०५ ||
यदि ते तत्तमो यान्तिर को दोष इति चोदिते ||
अनन्दा इति वाक्येन तद्दोषोऽथाभिधीयते || ६०६ ||
अनानन्दाभिधा लोकास्तीव्रदोषसमन्विताः || ६०७ ||
तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसोऽबुधो जनाः ||
अविद्वांसो न सामान्यात्किंतु येऽत्राबुधो जनाः || ६०८ ||
आत्मानं चेद्विजानीयात्सर्वधीवृत्तिसाक्षिणम् ||
अशनायाद्यतिक्रान्तं कथंचित्सत्त्वशुद्धितः || ६०९ ||
कथं तमभिजानीयादित्युक्त इदमुच्यते ||
पुरुषः परमात्माऽयमयस्मीतिवाक्यतः ||
किमिच्छन्कस्य वाऽर्थाय शरीरं संज्वरेत्तदा || ६१० ||
सर्वेच्छानां समाप्तत्वादात्मकामप्रबोधतः ||
आक्षिप्यतेऽत इच्छेह किमिच्छन्नितिवाक्यतः || ६११ ||
प्रत्यागात्मातिरेकेण यस्माच्चान्यन्न पश्यति ||
कस्य कामाय वा चातोऽप्यनात्माऽऽक्षिप्यतेऽखिलः || ६१२ ||
शरीरज्वरमन्वेष संज्वरेद्ब्रह्म सन्कथम् ||
निःसङ्गस्य हि संबन्धो देहेनास्य न कश्चन || ६१३ ||
नातो देहादिदुःखेन दुःखित्वं प्रत्यगात्मनः ||
निःशेषदुःखसंबन्धहेतूच्छित्तेः प्रबोधतः || ६१४ ||
भूयोऽसह्यमहादुःखनीडदेहप्रवेशन-
हेत्वविद्यासमुच्छित्तेर्देहं चानुविशेत्कुतः || ६१५ ||
शास्त्राचार्यप्रसादात्तु क्षपिताशेषपाप्मनः ||
वित्तो बुद्ध्यादिसाक्षीशः प्रतिबुद्धस्तथैकलः || ६१६ ||
अन्नाप्तेजोभिरत्यर्थं देहः संदिह्यते यतः ||
संदेहस्तेन देहोऽयं संदेघश्छान्दसत्वतः || ६१७ ||
आध्यात्मिकाधिभूताधिदैविकार्थातिसंकरात् ||
गुणप्रधानभावेन गहनोऽयं ततो मतः || ६१८ ||
संदेहे गहनेऽत्राऽऽत्मा प्रविष्टो जलसूर्यवत् ||
विविच्य येन विज्ञातः स स्याद्विश्वकृदीश्वरः || ६१९ ||
प्रत्यग्याथात्म्यसंबोधात्सर्वं तेन कृतं भवेत् ||
निःशेषपुरुषार्थाप्तेर्न कार्यं शिष्यते परम् || ६२० ||
स हि सर्वस्य कर्तेति तस्मादेवाभिधीयते ||
कृतकृत्यत्वतो हेतोः र्लोकोऽयं तस्य लोकिनः || ६२१ ||
निःशेषजनिमत्कार्यहेतोर्वा ज्ञाततत्त्विनः ||
विश्वकृत्त्वं भवेदेवं हीतिहेतुपरिग्रहात् || ६२२ ||
तस्य साक्षादयं लोको योऽहं ब्रह्मेतिबोधितः ||
भेदाशङ्कापनुत्त्यर्थं स उ लोक इतीर्यते || ६२३ ||
इहैव कृतकृत्यत्वात्सन्तः स्याम परं यदि ||
ब्रह्म प्रत्यक्तया विद्मः कथंचित्कल्मषक्षयात् || ६२४ ||
न चेदथ परं विद्मः शास्त्राचार्यानुसारतः ||
अवेदिनं तदा बालं विनष्टिर्महती व्रजेत् || ६२५ ||
विनष्टिं महतीं चेयाद्योऽवेद्यात्माऽविचक्षणः || ६२६ ||
विनष्टिर्महती चेह विनाशादिप्रसूतितः ||
आत्माविद्यैव निर्दिष्टा सामानाधिकरण्यतः || ६२७ ||
उक्तार्थस्य प्रकाशार्थमुत्तरार्धेन भण्यते ||
ये तद्विदुरिति श्रुत्या स्पष्टार्थप्रतिपत्तये || ६२८ ||
ब्रह्मैव सन्तो विज्ञानात्प्रागतो ब्रह्मबोधतः ||
भवामो ब्रह्म नानाप्तं दशमो दशमं यथा || ६२९ ||
ब्रह्मास्मीति यदैवैतमात्मानं देवमञ्जसा ||
अनुपश्यति साक्षात्तमीश्वरं भूतभव्ययोः || ६३० ||
ईश्वरप्रत्यगात्माप्तेस्तदा तद्भेदनाशतः ||
ईशितव्यत्वसंक्रान्तेर्न ततो विजुगुप्सते || ६३१ ||
गुप्तिमिच्छति सर्वोऽपि यत ईशाद्भयातुरः ||
अयं तु तदभिन्नत्वान्न ततो गुप्तिमिच्छति || ६३२ ||
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ||
आनन्दं ब्रह्मणो विद्वान्न विभेतीति शास्त्रगीः || ६३३ ||
न वा निन्दति निःशेषद्वैतहेतुविनाशतः ||
ऐकात्म्यदर्शनाद्विद्वान्यत्र त्वस्येतिशास्त्रतः || ६३४ ||
निःशेषविक्रियाहेतुकालातिक्रमहेतुतः ||
जन्मादिविक्रियाषट्कसंगतिस्तस्य नेष्यते || ६३५ ||
अर्वाग्यस्मादयं कालो विकुर्वञ्जनिमज्जगत् ||
संवत्सरः स्वावयवैरहोभिः परिवर्तते ||
ज्योतिषामपि तज्ज्योतिरायुर्देवा उपासते || ६३६ ||
कौटस्थ्यादमृतं ज्योतिर्मृत्युभूम्यतिलङ्घनात् ||
कालस्य जरणादात्मा श्रुतौ कालंजरो मतः || ६३७ ||
भावाभावात्मकस्यास्य कार्यकारणवस्तुनः ||
परमात्मा स्वतः सिद्धेरायुरस्य परार्थतः || ६३८ ||
गन्धर्वाः पितरो देवा रक्षोभिश्च सहासुराः ||
यस्मिन्पञ्चजनाः पञ्च वियदन्ताः प्रतिष्ठिताः || ६३९ ||
पञ्च प्राणादयो वा स्युरन्नन्तास्तच्छ्रुतत्वतः ||
अन्नाभावे विवक्ष्यन्ते काण्वानां ज्योतिषा सह ||
तमेव कारणात्मानं विद्वान्मन्येऽमृतोऽमृतम् || ६४० ||
कार्यकारणयोस्तत्त्वं यस्मादात्मैव निर्द्वयः ||
मन्य आत्मानमेवातः कार्यकारणवज्जगत् || ६४१ ||
प्रध्वस्तभेदहेतुत्वात्कारणादेरसंभवात् ||
अमृतोऽमृतमित्याह स्वयं विद्वानिति श्रुतिः || ६४२ ||
यतः प्राणआदिभावोऽयं प्राणादीनां तमेव ये ||
निचिक्युस्ते विदुः साक्षादग्र्यं ब्रह्म सनातनम् || ६४३ ||
निरपेक्षात्मनैवेह सर्वस्याऽऽत्मवतो यतः ||
प्राणादेरात्मवत्ता स्यात्प्राणस्य प्राणमित्यतः || ६४४ ||
अनात्मा हि स्वतोऽसिध्यन्स्वतःसिद्धमपेक्षते ||
आत्मनस्तु स्वतः सिद्धेर्नापेक्षाऽनात्मसंश्रयात् || ६४५ ||
अन्यतः संगतिः सेयमविचारितसिद्धिका ||
अविद्योत्सङ्गसंस्थैव तत्त्वज्ञानाद्विनश्यति || ६४६ ||
अकार्याकारणात्मैव कार्यकारणवस्तुनः ||
तत्त्वमुक्तं पृथिव्यादेर्नभोन्तस्याक्षरं परम् || ६४७ ||
तस्यास्य दर्शनोपायः कः स्यादित्यभिचोदिते ||
मनसैवेत्यतः प्राह श्रुतिर्ब्रह्मावबोधने || ६४८ ||
अवदध्रे यतश्चैयं मनसैवेति च श्रुतिः ||
मनोतिरेकतोऽपेक्षा नैवातः साधनान्तरे || ६४९ ||
आत्मानात्मपदार्थेषु विज्ञानोत्पत्तिसाधनम् ||
मनः साधारणं दृष्टं सर्वज्ञानैकहेतुतः || || ६५० ||
प्रत्यक्चिदाकृतिस्तत्र सर्वदा धर्मधर्मिणोः ||
हेत्वन्तरानपेक्षत्वादात्मत्वात्संनिधेः सदा || ६५१ ||
आत्माकृतिरतो नित्या तद्धेतोः संभवात्सदा ||
अज्ञानादेश्च चिद्रूपं तद्याथात्म्यान्न वार्यते || ६५२ ||
धर्माधर्माद्यपेक्षत्वादन्यत्वाच्चान्यवस्तुनः ||
शब्दाद्याकारता तस्मात्कादाचित्की धियो भवेत् || ६५३ ||
यद्यपीमौ जगत्यस्मिन्नात्मज्ञानपुरःसरौ ||
शब्दाद्यनात्मविज्ञानभावाभावौ स्वभावतः || ६५४ ||
तथाऽप्यनुभवादेव प्रत्यक्तत्त्वानभिज्ञता ||
अनात्मबोधवत्सिद्धाऽविद्याऽतः प्रत्यगात्मनि || ६५५ ||
उत्पन्नस्यापि चोत्पत्तिः कूपाकाशादिवत्ततः ||
प्रत्यग्याथात्म्यबोधस्य व्युत्पत्तेर्गुरुशास्त्रतः || ६५६ ||
प्रसादादनु शास्त्रादेर्मनसैवेत्यतः श्रुतिः ||
द्रष्टव्यमात्मनस्तत्त्वमित्याहास्मद्धितैषिणी || ६५७ ||
दृश्यं चेन्मनसैवैतद्द्रष्टृत्वादिप्रभेदतः ||
पुनः प्रसक्तं नानात्वं मैवं यस्मान्निषिध्यते || ६५८ ||
नेह प्रमाणतो मेयं यस्मान्नानाऽस्ति किंचन ||
अज्ञातं यदि वा ज्ञातं वस्तु नानात्वभाङ्न हि || ६५९ ||
नानात्वबुद्धये नालममितोऽर्थो यतस्ततः ||
अज्ञातः संशयज्ञातो मिथ्याज्ञातो न भित्तये || ६६० ||
सम्यग्ज्ञातोऽपि नैवार्थो द्वैतबोधकृदिष्यते ||
द्वैतकारणबाधेन सम्यग्ज्ञातत्वसिद्धितः || ६६१ ||
मेयव्याप्तिश्च मानानां नान्यव्यावृत्तिवर्त्मना ||
व्यावर्त्येष्वपि तत्सक्तेर्न चापि लभतेऽवधिम् || ६६२ ||
मेयेनैव समाप्तत्वात्ततोऽन्या व्यापृतिर्न च ||
नातो वत्स्वन्तरव्याप्तिं व्यावृत्तिं वाऽश्नुते प्रमा || ६६३ ||
व्यावृत्तेश्चाप्यवस्तुत्वान्न सद्वस्तूपलम्भनैः ||
प्रमाणैरपि संबन्धः प्रत्यक्षप्रमुखैः कचित् || ६६४ ||
अभावमात्रबोधित्वान्नाभावादपि भेदधीः ||
भावाभावावभावेन प्रत्यक्षेणेव नेक्षते || ६६५ ||
योऽपि प्रत्यक्षतोऽभावं वादी कश्चित्समीक्षते ||
तावन्मात्रावसायित्वाद्द्वैतं नासावपीक्षते || ६६६ ||
प्रत्यक्षस्यानुवृत्तिं च व्यावृत्तिं तद्भिदां च सः ||
प्रत्यक्षेणैव सं पश्येत्कथमित्यभिधीयताम् || ६६७ ||
यतो मानं न हीहास्ति नानात्वप्रतिपत्तये ||
खकार्ष्ण्यवदतस्तत्स्यादविचारितसिद्धिकम् || ६६८ ||
अज्ञातवस्तुहेत्वेव यस्मान्नाना ततोऽवदत् ||
मृत्योः स मृत्युमाप्नोति योऽत्र नानेव पश्यति || ६६९ ||
मृत्युर्हिरण्यगर्भः स्यात्स्वकार्यप्रलयत्वतः ||
तस्यापि मृत्युर्विज्ञेयो यत आविरभूदसौ || ६७० ||
मिथ्यादर्शनदोषित्वान्मिथ्यादर्शनकारणम् ||
मृत्योर्मृत्युमसावेति यो नानेवेह वीक्षते || ६७१ ||
पूर्वं ज्ञानसमुत्पत्तेर्नानैवेति ह्यभून्मतिः ||
ज्ञानोत्पत्तौ तु तद्ब्राधान्नानेवेति प्रयुज्यते || ६७२ ||
वस्तुवृत्तं यतोऽद्वैतं नानात्वं मोहहेतुजम् ||
एकधैवात आत्माऽयं द्रष्टव्यः श्रुतिवर्त्मगैः || ६७३ ||
एकेनैव प्रकारेण भास्वच्चिन्मात्ररूपिणा ||
शास्रैकमानतो ब्रह्म द्रष्टव्यं प्रत्यगात्मना || ६७४ ||
समस्तव्यस्ततादृष्टिरेकधैवेतिवाक्यतः ||
मिथ्येति गम्यते श्रौतान्मृत्योरिति च निन्दनात् || ६७५ ||
एतदप्रमयं ब्रह्म मृत्युहेतोर्निषेधनात् ||
मृत्युर्वै तम इत्युक्तं तच्च बोधान्निराकृतम् || ६७६ ||
एकधैव यतस्तत्त्वं सर्वस्य जगतस्ततः ||
क्रियाकारकसंभेदधीर्मृषेत्यवधार्यताम् || ६७७ ||
यत्र हि द्वैतमित्येवं यत्र त्वस्येति च श्रुतिः ||
नानात्वदृष्टेर्मिथ्यात्वं स्वयमेवावदत्पुरा || ६७८ ||
एकधा चेत्परं ब्रह्म द्रष्टव्यं कथमुच्यते ||
द्रष्ट्रादिभेदसद्भावे द्रष्टव्यत्वप्रसिद्धितः || ६७९ ||
अप्रमेयं कथं वस्तु प्रमान प्रमीयते ||
मीयते चेत्प्रमाणेन नाप्रमेयं तदिष्यते || ६८० ||
नैष दोषः पुरोक्तत्वात्परिहारस्य चाञ्जसा ||
भूयोऽपि परिहारोक्तौ भवेत्पिष्टस्य पेषणम् || ६८१ ||
प्रमात्रादेरुपादानमैकात्म्यप्रतिबन्धकम् ||
यतोऽतस्तत्प्रबोधेऽस्मिन्न प्रमात्राद्यपेक्षते || ६८२ ||
मेयस्य मानसंबन्धे प्रमेय इति गीरियम् ||
प्रमाफ़लं त्वप्रमेयं यतो नातो विरुद्धता || ६८३ ||
अज्ञातवस्तुना योगो मानस्येह यतस्ततः ||
ज्ञातस्य चाप्रमेयत्वान्नापेक्षा मानसंगतौ || ६८४ ||
फ़लात्मनैव तन्मानं न तु मात्रादिरुपतः ||
अभिव्यनक्ति नो ज्ञातं नातोऽस्य स्यात्प्रमेयता || ६८५ ||
तरावेव च्छिदा यद्वद्द्वैधीभावे तु नेष्यते ||
प्रमेयत्वं तथाऽज्ञाते न तु ज्ञाते फ़लात्मता || ६८६ ||
आमगोऽपीममात्मानं तत्तमोध्वस्तिवर्त्मना ||
अवबोधयतीत्येवं भण्यते दृष्टितत्त्वतः || ६८७ ||
स्वतःसिद्धाद्यतः सिद्धिरज्ञातादपि चाऽऽत्मनः || ||
सिद्ध्यसिद्ध्योः प्रमात्रादेस्तत्सिद्धौ किमपेक्षते || ६८८ ||
ज्ञानव्याप्तिर्हि शब्दादौ स्यादेकप्रकृतित्वतः ||
अकार्यकारणे व्याप्तिः कथं स्यात्प्रत्यगात्मनि || ६८९ ||
शब्दप्रवृत्तिहेतूनां प्रत्यगात्मन्यसंभवात् ||
नाभिधानाभिधेयत्वसंगत्याऽतः प्रबोध्यते || ६९० ||
प्रत्यगज्ञानहेतूत्थो यत्रानात्मा प्रसिध्यति ||
ज्ञातृज्ञेयप्रभेदः स्यात्तत्र प्रत्यगनात्मनोः || ६९१ ||
यत्र त्वात्मैव मेयः स्यात्तत्र मेयातिरेकतः ||
कः प्रमाता प्रमाणं वा यमेवेति तथा श्रुतिः || ६९२ ||
मानापेक्ष्येव यो भावः स एवामानतो न सन् ||
मानानपेक्षसिद्धिस्तु कस्मान्मानमपेक्षते || ६९३ ||
मातृमानप्रमेयाणां प्रत्यक्त्वादात्मवस्तुनः ||
नातः प्रमेयता तस्य स्वतश्चावगमात्मनः || ६९४ ||
प्रमातत्फ़लयोर्भित्तेर्नेह चोद्यस्य संभवः ||
क्रिययोर्हि प्रभेदे तत्किं पूर्वमिति चोद्यते || ६९५ ||
अपीतकरणग्रामः पुमान्यद्वत्सुषुप्तगः ||
शब्दान्निद्रामपास्याथ यथावस्त्ववबोध्यते || ६९६ ||
अगृहीत्वैव संबन्धमभिधानाभिधेययोः ||
हित्वा निद्रां प्रबुध्यन्ते यथेहपि तथाऽऽत्मनि || ६९७ ||
शब्दशक्तेरचिन्त्यत्वादात्मत्वाद्बोधरूपिणः ||
तत्साक्ष्यत्वाच्च निदाया विद्मस्तं मोहहानतः || ६९८ ||
धर्माधर्मौ रजो ज्ञेयं रजोवत्तन्मलत्वतः ||
तदकर्तृत्वतो ब्रह्म विरजोऽकारणत्वतः || ६९९ ||
असम्यग्ज्ञानयाथात्म्यो जनिमत्प्रकृतित्वतः ||
आत्मैवाऽऽकाशशब्देन श्रुत्येह प्रतिपाद्यते || ७०० ||
जनिमत्कारणादात्मा योऽस्थूलादिविशेषणः ||
आकाशात्स परो ज्ञेयः तस्यापूर्वादिरूपतः || ७०१ ||
यस्मादेवमतोऽजोऽसावकार्याकारणत्वतः ||
अजत्वादेव निःशेषविकाराणामपाक्रिया || ७०२ ||
अव्यावृत्ताननुगतेर्महानात्मेति भण्यते ||
कौटस्थ्याच्च ध्रुवो ज्ञेयो विकारोच्छित्त्यसंभवात् || ७०३ ||
प्रत्यक्तया श्रुतेर्वाक्यात्तमेवोक्तविशेषणम् ||
अन्वयव्यतिरेकाभ्यां विज्ञायाऽऽत्मानमादितः || ७०४ ||
बुभुत्सोच्छेदिनीं प्रज्ञां सर्वाज्ञाननिरासतः ||
सर्वज्ञेयसमाप्तेश्च कुर्याद्वाक्यार्थबोधतः || ७०५ ||
इह व्याचक्षते केचिदुक्ताद्व्याख्यानतोऽन्यथआ ||
कृतायाः करणं कीदृक्प्रज्ञाया इति चोदिते || ७०६ ||
उच्यते वचसा बुद्धौ वस्तुमात्रं समर्प्यते ||
विज्ञातस्य सतत्त्वस्य तादात्म्यप्रतिपादनम् || ७०७ ||
भावनाज्ञानसंतानैः प्रज्ञाकरणमुच्यते ||
अस्मिन्काले तु सा प्रज्ञा निष्ठां नीता कृता भवेत् || ७०८ ||
इत्येतदुररीकृत्य विज्ञायेत्युक्तमादरात् ||
प्रमाणवृत्तमुक्त्वैतन्मनसैवेतिवाक्यतः || ७०९ ||
मात्राद्यप्रविभक्तं सदद्वैतं ब्रह्म शाश्वतम् ||
द्रष्टव्यं तत्कथं साक्षान्मातृमानाद्यसंभवात् || ७१० ||
द्रष्टव्यं मनसैवैतन्नान्या गतिरिहेष्यते ||
कथं तदिति चेदत्र मानव्यापार उच्यते || ७११ ||
तत्त्वमस्यादिवाक्योक्तौ शब्दमात्रावलोकनम् ||
श्रोत्रेण क्रियते तस्य शब्दस्याऽऽलोचितस्य तु || ७१२ ||
स्वरवर्णपदोकत्याऽऽनुपूर्वी या प्रविभागभाक् ||
प्रविभक्तक्रमवती मनसा तस्य कल्प्यते || ७१३ ||
स्वेनार्थेनाभिसंबन्धः सिद्धशब्दस्य यः सदा ||
दृश्यते मनसैवासौ नातोऽन्येनेह केनचित् || ७१४ ||
तत्रार्थप्रत्ययो योऽसौ प्रमातुर्मानसो भवेत् ||
अविशिष्टः स बाह्येन मेयेनार्थेन संगतेः || ७१५ ||
प्रत्ययश्च यथारूपो मानसोऽस्योपजायते ||
प्राज्ञ आत्माऽपि तादात्म्यात्तन्मयत्वं निगच्छति || ७१६ ||
मनोबुद्ध्योरभेदेन व्यवहारश्रुताविह ||
तत्रैवं सति योप्यस्य देवताविषयो भवेत् || ७१७ ||
यथा श्रुतौ मनस्येव प्रत्ययः सोऽवतिष्ठते ||
तन्मयत्वं तथैवैतिक्रमेणैव स मानवः || ७१८ ||
द्वैतैकत्वं श्रुताच्छब्दात्पश्यतीह यदा ह्यसौ ||
हैरण्यगर्भमात्मेति बौद्धं ज्ञानं तदा भवेत् || ७१९ ||
स खलूत्पन्नविज्ञानस्तन्मयः संस्तथा व्रजेत् ||
तस्मिन्नेव स विज्ञान आत्मरूपे स्थितो भवेत् || ७२० ||
बौद्धेऽथ स यदा तत्त्वं परं समनुपश्यति ||
तदा विविच्य रूपाणि क्रमशो यो धियः शुभम् ||
वीक्षते केवलं शुद्धं तत्त्वं ब्रह्म सनातनम् || ७२१ ||
तन्मनोऽथ परे तत्त्वे लब्धलक्ष्यं स्व आत्मनि ||
रूपाणि विलिखत्साक्षान्निर्वाणं संप्रलीयते || ७२२ ||
परं तत्त्वं प्रदृश्यैवं मनस्यद्वैततां गतेः ||
विज्ञानं केवलं शुद्धं स्वात्मन्येवावतिष्ठते || ७२३ ||
दाह्यं दग्ध्वा यथा वह्निर्दाह्यनाशमनु स्वयम् ||
नश्यतीदं मनस्तद्वद्दूतमद्वैतरूपताम् ||
आपाद्य विषयं सम्यकस्वयमेव प्रलीयते || ७२४ ||
मनस्यस्मिन्निलीने तु यत्सुखं स्वात्मसाक्षिकम् ||
योगावस्थां परामेतामाहुर्योगाविदो जनाः || ७२५ ||
भूमौ यथाऽऽहितं लोहं भूमित्वमुपगच्छति ||
मनोऽक्षरे धृतं तद्वदभरत्वं निगच्छति || ७२६ ||
एतच्च दृष्टं लोकेऽपि यैर्भावैः संप्रयुज्यते ||
मनस्तन्मयतामेति तद्भावेनानुरञ्जितम् || ७२७ ||
एवमस्मिन्परे तत्त्वे भाव्यमाने मुमुक्षुणा ||
तद्भावमचिरेणैति स्थैर्यं चात्रैव गच्छति || ७२८ ||
मनोविनाशमन्वेष विज्ञानात्मा विलीयते ||
यथा संकल्पितश्चार्थ उभयोर्ज्ञानयोगयोः || ७२९ ||
एतदेवमभिप्रेत्य तदुक्तं नेह किंचन ||
नानाऽस्तीत्येवमेकत्वमस्मिञ्शास्रेऽभिधीयते || ७३० ||
मुक्तिप्रवेशोपायोऽयं यथोक्तेनेह वर्त्मना ||
उक्तो मनस एकस्मिन्प्रत्ययो मानसो यतः || ७३१ ||
एकत्वधीव्यवस्थाऽपि मानस्येवेति गम्यताम् ||
वृत्तिः सा त्वपरिक्षीणा मनोवृत्तिरियं भवेत् ||
तावद्यावदमी सर्वे विशेषाः स्युः क्षयं गताः || ७३२ ||
स्वात्मन्येवाथ संशुद्धं ज्ञानमद्वैतरूपकम् ||
अवस्थितं भवेत्साक्षादेवं कृत्वेदमुच्यते || ७३३ ||
मनसाऽनुप्रविश्येदं क्रमेणैकात्म्यमुत्तमम् ||
यत्नादप्रमयं तत्त्वं द्रष्टव्यं तद्विपश्चिता || ७३४ ||
कौटस्थ्याद् ध्रुवमक्षय्यं प्रत्यगात्मन्यवस्थितम् || ७३५ ||
विरजः शुद्ध इत्यर्थ आकाशात्परतः स्थितः ||
अजो न जायते यस्मान्महान्सर्वमहत्तरः || ७३६ ||
कमेवंविधमात्मानं ज्ञात्वा कुर्यान्मतिं दृढाम् ||
भावनाज्ञानसंतानसंरूढामविचालिनीम् || ७३७ ||
द्वैताभिधायकाञ्शब्दान्ध्यानकाले न चिन्तयेत् ||
वाचं ते ग्लापयन्त्येतां येयमेकत्ववाचिनी || ७३८ ||
ग्लानौ तस्यास्तदर्थेऽस्य मनोऽस्मिन्नाधिवर्तते || ७३९ ||
तस्मान्न चिन्तयेदेतान्किंतु यैकत्ववाचिनी ||
वाक्पूर्वं चिन्तयित्वा तां तदर्थे धारयेन्मनः || ७४० ||
श्रीमद्भर्तृप्रपञ्चस्य श्लोकव्याख्येयमीरिता || ७४१ ||
मनसैवेत्युपक्रम्य सा त्विदानीं विचार्यते ||
न्याय्याऽन्याय्येति वा यत्नाद्युक्तिभिः प्रविभागशः || ७४२ ||
मनसैवैनुद्रष्टव्यमिति यद्भवतेरितम् ||
सत्यमेतन्मनो मुक्त्वा न तस्यास्त्यन्यतो गतिः || ७४३ ||
तत्त्वस्माभिर्यथाऽभाणि मनसैवेति दर्शनम् ||
मनसा शक्यते द्रष्टुं तत्तथैव प्रमान्वयात् || ७४४ ||
प्रमाणव्यापृतिर्याऽपि भवतेहोपवर्णिता ||
साऽपि कामं भवत्वेव न दोषस्तत्र भण्यते || ७४५ ||
शब्दप्रधानं विज्ञानं प्रमातृव्यापृतौ पुरा ||
जायतेऽनन्तरं शब्दः स्वव्यापारक्रमादथ ||
ज्ञानप्रधानतामेति स्वार्थसंकेतवर्त्मना || ७४६ ||
वर्णस्वरादिक्रमवद्वाक्यरूपानुरञ्जितम् ||
अज्ञानतार्थाधिगतौ तु ज्ञानं मानमितीर्यते || ७४७ ||
शब्दाभिन्नं पुरा ज्ञानं शब्दरूपानुरञ्जितम् || ७४८ ||
स्वप्रमेये प्रमाणं तदिति यद्वदिहोदितम् ||
प्रमेयेऽपि तथैवैतत्पूर्वं मेयप्रधानकम् || ७४९ ||
मेयव्यापारतः पश्चात्प्राप्तज्ञानानुरञ्चनात् ||
गुणत्वं व्रजति ज्ञामे प्रमेयोऽर्थः प्रमातरि || ७५० ||
अमितार्थानुगं ज्ञानं प्रमेयार्थानुरञ्जितम् ||
पूर्वोक्तेन प्रमाणेन संगतेर्मेय उच्यते || ७५१ ||
मेयमानाभिसंबन्धो यथेह प्रतिपादितः ||
एवमेवैष विज्ञेयो मेयमानान्तरेष्वपि || ७५२ ||
मेयमानाभिसंबन्धान्मानमेयार्थसंकरात् ||
नश्यद्विशेषणत्वं तन्मानं याति फ़लात्मनि || ७५३ ||
तावन्मात्रप्रधानत्वात्प्रमाणफ़लमुच्यते ||
इत्येष मानव्यापारो यथावदनुवर्णितः || ७५४ ||
व्यापारः कर्तृतन्त्रः स्यात्तनुवाग्बुद्धिसाधनः ||
पुंसस्तत्र स्वतन्त्रत्वाद्विद्याच्छास्रं प्रवर्तकम् || ७५५ ||
वस्तुतन्त्रं तु सद्यत्र विज्ञानं जायते बलात् ||
तत्रापुरुषतन्त्रत्वान्न कश्चिद्विधिरिष्यते || ७५६ ||
व्यापारः कर्तृतन्त्रो हि तमेतमितिशास्रतः ||
नित्यो ध्यानादिरूपो वा स स्याद् बुद्धिविशुद्धये || ७५७ ||
तमोरजोभ्यां मुक्ता धीर्यदा स्यादुक्तसाधनात् ||
शमादिमान्यथातत्त्वमथाऽऽत्मानं समीक्षते || ७५८ ||
तस्मिन्दृष्टेऽथ सर्वस्य तावन्मात्रैकतत्त्वतः ||
सर्वाज्ञानसमुच्छित्तेः सर्वज्ञानोदयस्तथा || ७५९ ||
निःशेषपुरुषार्थाप्तिः सर्वदःखौघनिह्नुतिः ||
यतोऽत आत्मनि ज्ञाते कृतकृत्यत्वहेतुतः || ७६० ||
वाङ्भनःकायसाध्याया व्यापृतेः स्यादसंभवः ||
फ़लावधित्वात्सर्वेषामुपायानां जगत्यपि || ७६१ ||
प्रमेयमयतां कामं प्रमातैव व्रजत्वयम् ||
तस्यैव परिणामित्वात्प्रमेयेन च संगतेः || ७६२ ||
षड्भावविक्रियाभावादसङ्गाच्चाप्यनात्मना ||
विज्ञानादिमयत्वं स्यान्न स्वतः प्रत्यगात्मनः || ७६३ ||
एवंभूतोऽपि चाज्ञातः कार्यकारणरूपताम् ||
व्रजत्येष यथा रज्जुरज्ञाता सर्परूपताम् || ७६४ ||
मनआदेरशेषस्य प्रत्यगज्ञानहेतुतः ||
हेतुध्वस्तौ भवेद्ध्वस्तिरकार्याकारणेऽक्षरे || ७६५ ||
तत्त्वबोधान्न नाशः स्याद्वतिरेकान्वयौ न च ||
प्रत्यङ्भात्रैकयाथात्म्यादविद्यादेरिहाऽऽत्मनि || ७६६ ||
विनाशः क्रियते यत्र व्यतिरेकोऽथवाऽन्वयः ||
कार्यकारणसंबन्धान्मुक्तिस्तत्र सुदुर्लभा || ७६७ ||
ध्यानादिसंस्कृतं चेतो यदि मुक्तौ प्रणश्यति ||
सभावनं सहेत्वेवं ध्यानं सर्वमपार्थकम् || ७६८ ||
अथ मुक्तौ तदन्वेति कारणेन सहान्वियात् ||
अज्ञाने सति संसारो वद केन निवार्यते || ७६९ ||
लोहादेः कारणं भूमिर्भूमिष्ठं भूमितामितम् ||
विरोधिहेतुसंपर्काल्लोहाद्येति न वायुताम् || ७७० ||
स्वकारणस्थं नित्यं च कार्यं सर्वमिदं मतम् ||
न चैति कारणत्वं तत्तस्मादुक्तमपेशलम् || ७७१ ||
कुलालाद्युत्थ संस्कारविनाशादेव तत्स्वयम् ||
कार्यं कारणतामेति न तु तत्कारणास्थितेः || ७७२ ||
आरभ्यं यत्र कार्यं स्यात्तत्रैव व्यापृतिर्ध्रुवम् ||
तमित्यस्याः श्रुतेर्ज्ञेया भावनाज्ञानकर्मणाम् || ७७३ ||
ब्रह्मैव सन्स्वतो यत्र ब्रह्माप्येति तमोहनुतेः ||
नामीषां व्यापृतिस्तत्र ह्युत्पत्त्यादिविरोधतः || ७७४ ||
प्रत्यगज्ञानविध्वंसिज्ञानाभ्यासोऽपि नेष्यते ||
सकृदात्मप्रसूत्यैव बोधस्याज्ञानहानतः || ७७५ ||
न ह्यावृत्तिव्यपेक्षं सन्मानं जगति किंचन ||
स्वप्रमेये तमो हन्ति स्वसाध्ये साधनं यथा || ७७६ ||
भावनाजं फ़लं यत्स्याद्यच्च स्यात्कर्मणः फ़लम् ||
न तत्स्थास्न्विति मन्तव्यं पण्यस्त्रीगमनं यथा || ७७७ ||
संसार्यस्मीति चेद्ध्वस्ता कोटिकल्पोपबृंहिता ||
स्वल्पीयोभ्यासजा स्थास्न्वी भावनेत्यत्र का प्रमा || ७७८ ||
तस्मान्न साध्विदं सर्वं भावनासंचयार्थिभिः ||
ध्यानादि यदुपन्यस्तं निःशेषानर्थमुक्तये || ७७९ ||
वाक्येनावेदितं कृत्स्नं यदि साक्षात्प्रबोध्यतॆ || वस्तु बुद्धौ वद ध्यायन्व्यापारात्किमपेक्षते || ७८० ||
निःशेषानर्थसंप्राप्तिकैवल्यानाप्तिकृत्तमः ||
तत्तेज्ज्ञानादपध्वस्तं समाप्तं यच्चिकीर्षितम् || ७८१ ||
कृतं चिकीर्षितं सर्वं बुद्धं यच्च बुभुत्सितम् ||
सम्यग्ज्ञानोदयात्सर्वं वर्जितं यज्जिहासितम् || ७८२ ||
तथेप्सितं च संप्राप्तमित्येवं कृतकृत्यता ||
प्रत्यग्याथात्म्यसंमोहध्वंसमात्रात्प्रबोधतः || ७८३ ||
सपर्पितं चेच्छब्देन बुद्धौ वस्तु यथोदितम् ||
प्रज्ञां कुर्वीतेति विधिः किमर्थ इति भण्यताम् || ७८४ ||
न चेत्समर्पितं साक्षाद्वस्तु श्रुत्या यथोदितम् ||
अप्रामाण्यं श्रुतेः प्रापत्स्वार्थस्याप्रतिपादनात् || ७८५ ||
स्वप्रमेये प्रमाणं सत्प्रवृत्तं स्वात्मलाभतः ||
अज्ञानाद्यनिरासेन नास्ति लोके प्रबोधकम् || ७८६ ||
अज्ञानमिथ्यासंशीतिव्यतिरेकेण नापरम् ||
प्रत्यर्थि मेयविषये मानस्येहास्ति किंचन || ७८७ ||
अज्ञानादित्रयं बाध्यं मेययाथात्म्यसंश्रयात् ||
मानं बाधकमेवात्र बाध्येन न हि हन्यते || ७८८ ||
बाध्यस्य बाधनादेव प्रमाणस्य प्रमाणता ||
स्वमेयतत्त्वसंबन्धलब्धरूपस्य सर्वदा || ७८९ ||
नादग्ध्वाऽभ्याहितं दाह्यमग्रेरग्नित्वमिष्यते ||
यथा बाध्यमबाधित्वा नैवं बाधकता मितेः || ७९० ||
न च प्रामाणिकं ज्ञानमुत्पत्त्यादौ नियुज्यते ||
स्वमेयव्यक्तितस्तस्य न कार्यान्तरमिष्यते || ७९१ ||
न च मानान्तरैर्मेये मानस्येष्टा विरोधिता ||
असाधारणमेयत्वान्मानानां चक्षुरादिवत् || ७९२ ||
मानान्तरैर्विरोधश्चेन्मानस्याभ्युपगम्यते ||
तदुच्छित्तौ न हेतुः स्याद्विरोधस्य प्रमाश्रयात् || ७९३ ||
न च सामान्यतो ज्ञानं ल्यबन्तेनाभिधीयते ||
प्रत्यग्वस्तु यतः सिद्धमसामान्यविशेषवत् || ७९४ ||
सामान्येनेक्षमाणस्य विशेषेण च वस्त्विदम् ||
अपवादः पुरा तस्य न पश्यन्तीति वर्णितः || ७९५ ||
अन्ये तु पण्डितंमन्याः संप्रदायानुसारतः ||
विज्ञायेति वचः श्रौतमिदं व्याचक्षतेऽन्यथा || ७९६ ||
तत्त्वमस्यादिवाक्योत्थविज्ञानेन यथोदितम् ||
विज्ञाय वस्त्वसंसर्गि प्रज्ञां कुर्वीत यत्नतः || ७९७ ||
नन्वत्रापि कृतैवासौ ल्यबन्तेनाभिधीयते ||
प्रज्ञाऽतः करणं तस्या भूयः कस्माद्विधीयते || ७९८ ||
मैवं पदार्थसंसर्गरूपस्यैवातथात्मके ||
ऐकात्म्ये वाक्यहेतूत्थबोधस्योद्भूतिकारणात् || ७९९ ||
ब्रह्मासंसर्गि तद्यस्मादसामान्यविशेषवत् ||
संसर्गरूपं वाक्योत्थं ज्ञानं नीलोत्पलादिवत् || ८०० ||
स्वभावतोऽखिलं वाक्यं संसर्गात्मकमेव हि ||
परोक्षवृत्त्या च तथा वस्तु बोधयति स्वतः || ८०१ ||
स्वस्वभावं न चोल्लङ्घ्य स्वभावान्तरसंश्रयात् ||
ब्रह्मासंसर्गि साक्षाच्च शब्दः शक्रोति बोधितुम् || ८०२ ||
अलब्धब्रह्मयाथात्म्यं ज्ञानं वाक्योद्भवं यतः ||
तस्मात्प्रज्ञां प्रकुर्वीत साक्षाद्ब्रह्मैकगोचराम् || ८०३ ||
अपास्ताशेषसंसर्गं यया ब्रह्माधिगम्यते || ८०४ ||
केनेति च व्यपेक्षायां विज्ञानेनेति गम्यते ||
ल्यबन्तोक्तेन सांनिध्यान्न ततोऽन्यदपेक्ष्यते || ८०५ ||
योग्यं संनिहितं चेदं साकाङ्क्षं च समीक्ष्यते ||
विज्ञानं यल्ल्यबन्तोक्तं तदेवात्र तु साधनम् || ८०६ ||
तस्माद्वाक्योत्थविज्ञानसाधनाभ्यासतोऽनिशम् ||
प्रज्ञां कुर्यादसंसर्गिब्रह्मयाथात्म्यबोधिनीम् || ८०७ ||
अपेताशेषसंसर्गं तयैव ब्रह्म गम्यते ||
यतोऽशेषतमोहन्त्री प्रज्ञा सैवात इष्यते || ८०८ ||
साक्षाद्दर्शनसिद्ध्यर्थमन्यत्रापि बिधीयते ||
निदिध्यासनवाक्येन साधनं ध्यानलक्षणम् || ८०९ ||
इत्येवमादिवाक्यानि गम्भीरन्यायवेदिनः ||
केचिद्व्याचक्षते यत्नादत्र प्रतिविधीयते || ८१० ||
मानान्तरापरिज्ञाते प्रमेयार्थे प्रमां स्फ़ुटाम् ||
मेयाज्ञातत्वबाधेन कुर्वन्मानमितीर्यते || ८११ ||
ब्रह्मानधिगतं चेदं वाक्यादन्यैः प्रमान्तरैः ||
तद्यथा बोधयेद्वाक्यं तत्तथैवेति गृह्यताम् || ८१२ ||
प्रमाणादेव यत्प्राप्तं कथं तदतिशङ्क्यते ||
ब्रह्म संसर्गरूपं वा यदि वाऽतोऽन्यथा श्रुतेः || ८१३ ||
प्रमाणतोऽपि संप्राप्तं यदि वस्त्वतिशङ्क्यते ||
तदा शङ्कानिवृत्त्यर्थं मानादन्यत्किमिष्यताम् || ८१४ ||
न चापि स्वप्रमेयेऽस्ति मानानां बोधहेतुतः ||
तारतम्यं यथा कार्ये कारकाणामसंभवात् || ८१५ ||
न च प्रमान्तरैः साक्षादज्ञाते ब्रह्मवस्तुनि ||
अयथावस्त्विति ज्ञानं वक्तुं शक्यं विपश्चिता || ८१६ ||
अपि मानान्तराज्ज्ञाते तद्विरुद्धस्वभावके ||
न चैवं युज्यते वक्तुं द्वयोरपि मितित्वतः || ८१७ ||
प्रमान्तरेण चेज्ज्ञातं ब्रह्मासंसर्गरूपकम् ||
कृतत्वात्तर्हि प्रज्ञाया निष्फ़लोऽयं पुनर्विधिः || ८१८ ||
प्रज्ञायाश्च समाप्तत्वादविद्याया निराकृतेः ||
पुरुषार्थस्य चाऽऽप्तत्वात्किमर्थं विधिशासनम् || ८१९ ||
वाक्यमानोद्भवं ज्ञानमयथावस्त्वितीर्यते ||
यथावस्त्वप्रमोत्थं च चित्रं सर्वज्ञचेष्टित्नम् || ८२० ||
न च मिथ्याधियोऽभ्यासात्सम्यग्ज्ञानसमुद्भवः ||
तथा सत्यप्रयत्नेन मुक्तिः स्यात्सर्वदेहिनाम् || ८२१ ||
संसारमिथ्याविज्ञानमभ्यस्यन्त्येव सर्वदा ||
प्राणिनो न च सम्यग्धीस्तेषां ब्रह्मण्मि जायते || ८२२ ||
सम्यग्ज्ञानप्रसूतेश्च विघातायैव जायते ||
मिथ्याज्ञानाभ्यासहेतुः संस्कारो न तु जन्मने || ८२३ ||
तथाच प्राह भगवान्व्यासः सत्यवतीसुतः ||
पूर्वमर्थान्तरे न्यस्ता कालान्तरगता मतिः || ८२४ ||
तेनान्यं सन्तमप्यर्थं द्वेषान्न प्रतिपद्यते ||
परीक्ष्य यो न गृह्णाति गृह्णाति च विपर्ययात् || ८२५ ||
दृढपूर्वश्रुतत्वाच्च प्रमादाच्चापि लौकिकात् ||
चतुर्भिः कारणैरेतैर्याथातथ्यं न विन्दति || ८२६ ||
नातो मिथ्याधियोऽभ्यासः सम्यग्ज्ञानस्य जन्मने || ८२७ ||
अपि मिथ्याधियोऽभ्यासः सम्यग्ज्ञानस्य जन्मने ||
स्यादेव चेच्छ्रुतेर्मात्वान्न मितेर्व्यञ्जकत्वतः || ८२८ ||
कार्योत्पत्तौ स्वतन्त्रत्वं कारणस्यैव निश्चितम् ||
मानस्य व्यञ्जकत्वात्तु मेयतत्त्वानुरोधिता || ८२९ ||
अपि चाभ्यस्यमानस्य दार्ढ्यं दृष्टं जगत्यपि ||
तदभ्यासवशादेवमत्राप्यध्यवसीयताम् || ८३० ||
भवद्व्याख्यात एवार्थो न चास्य वचसो ध्रुवम् ||
व्याख्येयः सोऽपरेणापि राज्ञामाज्ञां विना क्वचित् || ८३१ ||
भवद्व्याख्यानतोऽस्माभिरुक्ता दोषपरंपरा ||
सा यथा प्रसजेन्नेह व्याख्येयं तत्तथा वचः || ८३२ ||
सर्वमानाविरोधेन वाक्यार्थो गम्यते यथा ||
गुणवृत्त्याऽन्यथा वा तद्व्याख्येयं सुविपश्चिता || ८३३ ||
वाक्यमाहात्म्यसंभूतं शाब्दं विज्ञानमुच्यते ||
मेययाथात्म्यतो जाता प्रज्ञेतीहाभिधीयते || ८३४ ||
शाब्दविज्ञानमानेन प्रज्ञामैकात्म्यलक्षणाम् ||
ब्रह्मास्मीति प्रकुर्वीत बुभुत्सोच्छेदिनीं दृढाम् || ८३५ ||
विज्ञायेति ल्यबन्तेन प्रमाणव्याप्तिरुच्यते ||
मेयस्य तेन माव्याप्तिः प्रज्ञामित्यभिधीयते || ८३६ ||
प्रमाणव्यापृतेर्यस्मान्मेयस्य व्यापृतेस्तथा ||
प्रज्ञाफ़लं जायतेऽथ यदपूर्वादिलक्षणम् || ८३७ ||
प्रमात्रादिविभागेन मानं मेयं समश्नुते ||
मेयेनाऽऽप्तौ तु तद्ध्वास्तिर्मेययाथात्म्यमात्रतः || ८३८ ||
सकारणस्य मात्रादेः प्रत्यग्दृष्ट्यतिरेकतः ||
तत्त्वं नान्यद्यतस्तस्मात्तन्मात्रेणैब तद्धतिः || ८३९ ||
निद्रान्धः सन्यथा स्वप्ने ह्यग्निव्याघ्रादिसंगतेः ||
निद्रास्वप्नप्रहाणेन बोधमात्रार्थभाग्भवेत् || ८४० ||
प्रत्यगज्ञानसंभूतनानात्वोत्थप्रबोधतः ||
प्रध्वंसादात्ममोहस्य तथैकात्म्यं समश्नुते || ८४१ ||
शास्राचार्यमतिर्वाऽत्र विज्ञायेत्यभिधीयते ||
प्रज्ञेत्यादिकया वाचा ह्यात्मप्रत्यय उच्यते || ८४२ ||
शास्राचार्यव्यपेक्षत्बात्परतन्त्रैव तन्मतिः ||
अनन्यापेक्षतो ज्ञेया प्रत्यग्बुद्धेः स्वतन्त्रता || ८४३ ||
आत्मप्रत्यय आत्मैको द्वितीयः पुनरात्मनः ||
अनात्मप्रत्ययः सोऽहमुत्पत्त्यैवास्मि केवलः || ८४४ ||
यदि वोक्तात्मयाथात्म्यबोधेनैवाद्वयात्मिकाम् ||
ब्रह्मप्रज्ञां प्रकुर्वीत विशेषणसमाश्रयात् || ८४५ ||
अव्यावृत्ताननुगतब्रह्मार्थोऽनात्मनोऽन्यतः ||
लभ्यतेऽत्र यतस्तस्मात्तमेवेत्यभिधीयते || ८४६ ||
अव्यावृत्ताननुगतब्रह्मार्थान्नापि चान्यतः ||
प्रत्यक्ता लभ्यते साक्षान्महानात्मेत्यतोऽत्र गीः || ८४७ ||
व्यावर्त्यार्थातिरेकेण नाऽऽत्मब्रह्मपदार्थयोः ||
स्वरूपेऽस्ति भिदा काचिदमानित्वादिवस्तुवत् || ८४८ ||
विरुध्यतेऽक्रियारूपं मानित्वादिक्रियात्मकैः ||
अमानित्वादिकं वस्तु यथेहापि तथेष्यताम् || ८४९ ||
प्रत्यग्वस्त्वद्वयमपि तदबोधोपघाततः ||
स्रगिवाह्यादिरूपेण प्रथते भेदवन्मृषा || ८५० ||
तथैवाऽऽत्माऽपि तद्ब्रह्म तदविद्यैकहेतुतः ||
परोक्षमिव तद्भाति तिमिरोद्भूतचन्द्रवत् || ८५१ ||
सद्वितीयपरोक्षत्वे यतोऽज्ञानैकहेतुके ||
न वस्तु स्पृशतस्तस्मात्प्रमाणोत्थप्रबोधतः || ८५२ ||
यथावस्त्वभिसंबन्धान्निवर्तेते सहेतुके ||
अकारकात्मबोधस्य जन्मनैव तमोह्नुतिः || ८५३ ||
नान्वयव्यतिरेकाभ्यां नाप्यभावेन तद्धतिः ||
आत्मब्रह्मपदार्थैकरूपेणैव हनुतिर्यतः || ८५४ ||
नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा ||
निवृत्तिरप्यविद्याया नावगत्यात्मनोऽपरा || ८५५ ||
पदार्थप्रतिबोधो वा वाक्यार्थज्ञानजन्मने ||
विज्ञायेत्युच्यते श्रुत्या पुंसस्तत्र स्वतन्त्रतः || ८५६ ||
अन्वयव्यतिरेकाभ्यां वाक्यनीडपदार्थयोः ||
पुमानलं विवेकाय न तु वाक्यार्थवित्तये || ८५७ ||
नानुत्पन्ने विधिः पुंसोऽशक्यात्वाद्वस्तुतन्त्रतः ||
उत्पन्नेऽपि कृतार्थत्वान्न स्याद्वाक्यार्थबोधने || ८५८ ||
अन्वयव्यतिरेकाभ्यां लौकिकत्वात्पदार्थयोः ||
शक्तस्तद्विषयं ज्ञानं कर्तुं वाक्यार्थवित्तये || ८५९ ||
आत्मा द्रष्टव्य इत्यादावयमेव विधीयते ||
पदार्थविषयः पुंसो व्यापारो योऽनुमात्मकः || ८६० ||
वाक्यार्थप्रतिबोधस्य पदार्थाज्ञानमेव तु ||
अन्तरायो यतस्तस्मात्पदार्थज्ञानचोदना || ८६१ ||
ज्ञात्वाऽऽत्मानं तमेवेति तन्मोहोत्थादनात्मनः || ८६२ ||
अनात्मार्थप्रधानोऽयं यावदात्मा समीक्ष्यते ||
ब्रह्मास्मीति न तावद्धीर्जायते सान्तरायतः || ८६३ ||
अनात्मनो यदाऽऽत्मानं प्रत्यगज्ञानकल्पितात् ||
विविनक्त्यनुमानेन तदा वाक्यार्थधीर्भवेत् || ८६४ ||
आत्मन्येव यदाऽऽत्मानं व्युत्थाप्यानात्मनो नरः ||
विजानाति तदा सर्वमात्मैवेति प्रपश्यति || ८६५ ||
अथवा पुरुषार्थत्वात्प्रज्ञायाः करणं नृणाम् ||
स्वतः प्राप्तमनूद्येह तमेवेति नियम्यते || ८६६ ||
प्रज्ञां कुर्वीत यदिह तत्तमेव यथोदितम् ||
तां प्रकुर्वीत विज्ञाय स्वात्मानं न त्वनात्मनः || ८६७ ||
तत्त्वमात्मैव सर्वस्य कार्यकारणवस्तुनः ||
यस्मादात्मनमेवातः प्रज्ञां विज्ञाय कुर्विति || ८६८ ||
तदन्यविषयज्ञाने न किंचिद्वेत्ति तत्त्वतः ||
न च कृत्स्नतमोहानिः सर्वज्ञानोदयो न च || ८६९ ||
प्रत्यगात्मनि तु ज्ञाते श्रुत्युक्तेनैव वर्त्मना ||
नानुत्पन्नं क्वचिज्ज्ञानं नेहाध्वस्तं तमोऽप्यतः || ८७० ||
विज्ञायेह तमेवातः प्रज्ञा कुर्वीत सद्द्वीजः ||
अज्ञानादि तथा कृत्स्नमात्मनोऽन्यत्र वेदने ||
सर्वमात्मानमेवेति श्रुतेरपि वचस्तथा || ८७१ ||
निष्कर्मिका वा प्रज्ञेह विहितेत्यथ भण्यते ||
कर्म तस्यास्तमेवेति विज्ञायेत्यनुवादतः || ८७२ ||
प्रज्ञा वा परमात्मेह प्रज्ञानमितिवाक्यतः ||
विज्ञायेह तमात्मानं प्रज्ञां कुर्वीत सद्द्विजः || ८७३ ||
इमं देहस्थमात्मानं विज्ञायोक्तेन वर्त्मना ||
परां प्रज्ञां प्रकुर्वीतेत्येष शास्रस्य संग्रहः || ८७४ ||
तत्रैवं संभवत्यर्थे सर्वमानाविरोधिनि ||
वाक्यार्थः कल्प्यते कस्माद्विरुद्धो यः प्रमान्तरैः || ८७५ ||
असंतोषादतोऽन्येऽत्र भूरिदोषप्रदर्शिनः ||
व्याख्यानादन्यथा चक्रुर्व्याख्यां वेदार्थनिश्चिताः || ८७६ ||
विदान्तवाक्यजं ज्ञानं यथावस्त्वेव मोहनुत् ||
प्रामाण्याद्वेदवचसस्तज्जं मिथ्या भवेत्कथम् || ८७७ ||
वाक्यश्रवणकाले तत्सर्वाज्ञानतमोपनुत् ||
जायते यद्यपि ज्ञानं कृत्स्नैकात्म्यसमाश्रयम् || ८७८ ||
जन्मानन्तरमेवैतदनादितमसाऽखिलम् ||
तथाऽपि बाध्यते ज्ञानमविद्याकार्यदर्शनात् || ८७९ ||
अविद्याहेतुरागादीन्सम्यग्ज्ञानादनन्तरम् ||
यतो वीक्षामहे तस्माज्ज्ञानस्याज्ञानबाधनम् || ८८० ||
नैसर्ग्यागन्तुकी चेति ह्यविद्या द्विविधा स्मृता ||
आगन्तुकी स्याद्विषये नैसर्गिक्यात्मनीष्यते || ८८१ ||
तत्राऽऽगन्तु यदज्ञानं तत्सकृज्ज्ञानजन्मना ||
अपैति नासि शबरो राजाऽसीत्युक्तितो यथा || ८८२ ||
नैसर्गिकी तु याऽविद्या सा सकृज्ज्ञानजन्मना ||
ध्वस्ताऽपि पुनरेवैति तज्जरागादिदर्शनात् || ८८३ ||
यस्मादेवंस्वभावैषाऽविद्या नैसर्गिकी ततः ||
विज्ञायापि परं तत्त्वं कुर्यात्प्रज्ञं पुनः पुनः || ८८४ ||
तावत्प्रज्ञां प्रकुर्वीत यावद्ध्वस्ता निरन्वया ||
आत्माविद्या यथोक्तात्मविद्याभ्यासेन यत्नतः || || ८८५ ||
श्लोकांश्च गौडपादादेर्यथोक्तार्थस्य साक्षिणः ||
अधीयतेऽत्र यत्नेन संप्रदायविदः स्वयम् || ८८६ ||
तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ||
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् || ८८७ ||
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ||
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा || ८८८ ||
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ||
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं यदा || ८८९ ||
तावदेव निरोद्धव्यं हृदि यावत्क्षयं गतम् ||
इदं ज्ञानं च ध्यानं च शेषोन्यो ग्रन्थविस्तरः || ८९० ||
इति व्याचक्षते केचिद्विज्ञायेति वचः स्फ़ुटम् ||
महामीमांसका धीरा अत्र प्रतिविधीयते || ८९१ ||
यदाऽसाधारणाऽविद्या प्रत्यगात्मैकगोचरा ||
अज्ञानाद्यात्मिका सिद्धा द्वैविध्यं स्यात्तदा कुतः || ८९२ ||
अज्ञात एव सर्वत्र मानानां मेय उच्यते ||
आत्मैव ज्ञेय एष्टव्यो ध्रुवमैकात्म्यवादिना || ८९३ ||
अज्ञातोऽर्थोऽन्यतो यस्मान्नैवैकात्म्यात्प्रसिध्यति || ८९४ ||
न चानधिगतत्वस्य प्रसिद्धिः स्यात्प्रमाणतः ||
अतिशीतेरसद्भावान्न च बाधोऽस्य माश्रयात् || ८९५ ||
न चाप्यनात्मना सिद्धिरज्ञातस्येह वस्तुनः ||
तस्याप्यविद्यारूपत्वाज्जडोऽनात्मेति हीष्यते || ८९६ ||
अतो मात्राद्यभावेऽपि योऽज्ञातत्वस्य सिद्धये ||
अलमर्थः स एवात्र मेयोऽज्ञात इहेष्यते || ८९७ ||
बोधमात्रातिरेकेण नान्योऽर्थोऽज्ञानसिद्धिकृत् ||
अज्ञानादित्रयं तस्मात्स्वतोबोधैकसंश्रयम् || ८९८ ||
संभाव्यते जगत्यस्मिन्बोधमात्रपुरःसरम् || ८९९ ||
अज्ञायमानो मात्रादिर्न यस्मादनुभूयते ||
अज्ञातचितिवत्तस्मादज्ञातोऽनुभवः स्मृतः || ९०० ||
आज्ञतायां यथा शुक्तौ रजताद्यर्थनिश्चितिः ||
अनात्मनिश्चितिस्तद्वदज्ञातेऽनुभवात्मनि || ९०१ ||
ज्ञानात्पृथगसंसिद्धे रजतादेरमेयता ||
शुक्तेरिव त्वविज्ञातज्ञातत्वस्य ततोऽन्यतः || ९०२ ||
यतो न लभते मेयं शुक्तौ रजतधीरतः ||
न रूप्यधीः प्रमाणं स्यात्प्रमेयासंभवादिह || ९०३ ||
यथा न रजते मानं शुक्ताविपि तथैव सा ||
तदप्रबोधताबाधात्तस्याश्चाशुक्तिकात्मनः || ९०४ ||
यथैवं सर्वमानानि प्रत्यङ्मानातिरेकतः ||
अनात्ममेयभाञ्ज्येव विज्ञेयानीति निश्चितिः || ९०५ ||
प्रत्यक्संवित्त्वविज्ञाता तथैवेहानुभूयते ||
अपि प्राङ्भानसंव्याप्तेर्यावद्य्वुत्पाद्यते न ना || ९०६ ||
वास्तव्येव तु संसिद्धिरनुभूतेर्यतस्ततः ||
नाज्ञातत्वस्य बाधः स्याच्छुक्तिकाबाधसिद्धिवत् || ९०७ ||
मानेनानभिसंबन्धान्नेयं षष्ठेन्द्रियार्थवत् ||
अनुभूतेः सुषुप्त्यादेर्न चाप्यनुभवत्वतः ||
निरपेक्षा प्रमाणाप्तौ मानाप्तकरबिल्ववत् || ९०८ ||
प्रमाणव्यापृतेः पूर्वमेवं मेयोऽत्र लभ्यते || ९०९ ||
नैवं वेदान्तसिद्धान्तादन्यसिद्धान्तशासने ||
मेयसिद्धिर्यतस्तस्मान्न मानं तत्र विद्यते || ९१० ||
इह त्वज्ञात आत्मैव मिथ्याज्ञातस्तथैव च ||
तस्य प्रमाणसंबन्धात्सर्वाज्ञानप्रहाणतः || ९११ ||
तत्त्वमस्यादिवाक्येभ्यः सर्वज्ञानप्रसूतितः ||
सर्वाज्ञानापनुत्तेश्च ज्ञेयकार्यसमाप्तितः || ९१२ ||
प्राप्यस्य सर्वस्यावाप्तेस्तथा हेयस्य हानतः ||
सम्यग्धियः सकृत्सूतेः किं कार्यमवशिष्यते || ९१३ ||
अविद्या पूर्ववच्चेत्स्यात्सम्यग्ज्ञातेऽपि वस्तुनि ||
भूयोऽपि सा मृतेरूर्ध्वं नेष्यतीत्यत्र का प्रमा || ९१४ ||
अविद्याविद्ययोर्यस्माद्वाध्यबाधकसंगतिम् ||
मुक्त्वाऽन्यो नास्ति संबन्धो दाह्यदाहकयोरिव || ९१५ ||
बाध्याऽविद्या कथं विद्यां बाधिकां बाध्यते वद ||
दाहकस्य न दाहोऽस्ति वह्नेर्दाह्येन वस्तुना || ९१६ ||
विद्यमानाऽप्यविद्येयं विद्यां चेन्नावधीत्पुरा ||
ध्वस्ता वाधिष्यतेऽविद्या विद्यामित्यत्र का प्रमा || ९१७ ||
अविद्यया चेद्विध्वस्ता विद्येयं कार्त्स्न्यतस्तदा ||
मुषितात्मपरिज्ञानः प्रज्ञां कुर्यात्कथं जडः || ९१८ ||
किंच हेतुमतो जन्म सर्वत्र स्यात्पुनः पुनः ||
सर्वहेतोस्त्वविद्याया ध्वस्तायाः स्यात्कुतो भवः || ९१९ ||
ब्रह्मणश्चेद्भवस्तस्या अनिर्मोक्षः प्रसज्यते ||
स्थास्रुत्वाद्ब्रह्मणो नित्यं किरणानां रवेरिव || ९२० ||
अनादेर्नाप्यनुच्छित्तिः सर्वत्रोच्छित्तिदर्शनात् ||
अनाद्यज्ञातमेयेषु ह्यज्ञानस्य प्रहाणतः || ९२१ ||
अनाद्यज्ञानवन्मेयमूरीकृत्येह सर्वतः ||
उच्छिन्दन्ति प्रमाणानि ह्यज्ञातत्वं प्रमेयगम् || ९२२ ||
न च कारणसंसर्गो नाशोऽज्ञानस्य भण्यते ||
उरगादेः स्रजीवास्य ब्रह्मणोऽकारणत्वतः || ९२३ ||
अज्ञातज्ञापनं मुक्त्वा न चेहास्त्यपरो विधिः ||
तावतैव कृतार्थत्वान्न कार्यमवशिष्यते || ९२४ ||
आत्मैव कारणं यस्य सर्वज्ञानस्य कार्यतः ||
आत्मान्वितेः स्वतः सिद्धेर्न कार्या तस्य चाऽऽत्मधीः || || ९२५ ||
अंशांशिसंगतेरात्माऽप्यहंबुद्ध्याऽनुभूयते ||
तस्यापि नित्यसंबन्धान्न विधेयाऽऽत्मधीरियम् || ९२६ ||
आत्मानात्मपरिज्ञाने यस्य साधारणं मतम् ||
करणं बुद्धिरेवेह न तं प्रत्यपि चोदना || ९२७ ||
बुद्ध्यादेर्विषयान्तस्य प्रतीचोऽन्यस्य वस्तुनः ||
आत्मात्मीयत्वतस्तस्माच्चित्स्वभावमिदं जगत् || ९२८ ||
चित्स्वभावं सदा तत्स्यादन्यहेत्वनपेक्षणात् ||
धर्माधर्माद्यपेक्षत्वादनात्माकारतां प्रति || ९२९ ||
वियत्संपूर्णतां नर्ते घटो नानाविधैर्युतिम् ||
द्रव्यैर्यायाद्वियोगं वा संविदर्ते तथा धियः || ९३० ||
शब्दाद्याकारतां यान्ति संशयाद्यात्मतां तथा ||
प्रत्यक्चित्पूर्णतां मुक्त्वा शून्यतां न च ताः सदा || ९३१ ||
यतोऽतो नाऽऽत्मधीः कार्या नापि तत्संततिस्तथा ||
स्वभावादेव तत्सिद्धेः सर्वप्राणभृतामपि || ९३२ ||
सर्वेषामपि भिन्नानां तथाऽभेदत्वहेतुतः ||
न कार्यैवाऽऽत्मधीः पुंभिः कृतत्वादेव हेतुतः || ९३३ ||
आत्माधाराणि यस्यापि ज्ञानादीनीह वादिनः ||
तस्यापि नाऽऽत्मधीः कार्या नित्यप्राप्तत्वकारणात् || ९३४ ||
देहस्य सर्वदैवास्य जीवतश्चित्स्वभावतः ||
स्वभाववादिनोऽपीयं कार्या नैवाऽऽत्मधीस्तथा || ९३५ ||
नियमे परिसंख्यायां सर्वानात्मासमीक्षणात् ||
वैयर्थ्यं कर्मकाण्डस्य निर्मूलत्वात्प्रसज्यते || ९३६ ||
न चापि नित्यप्राप्तत्वात्तयोरस्तीह संभवः ||
अप्राप्तांशॊ यतो नित्यं विधिः सर्वोऽपि चेष्यते || ९३७ ||
‍कर्तव्यमात्मविज्ञानमित्यत्रैव निराकृतः ||
विधिः सर्वप्रकारोऽपि न त्वबुद्धार्थबोधनं || ९३८ ||
कर्तव्यता न साध्यस्य विज्ञातत्वाद्विधीयते ||
दुःखत्वाच्च न यागस्य ह्युपायोऽतोऽत्र बोध्यते || ९३९ ||
प्रवृत्तिरप्रवृत्तिर्वा मेयवस्त्वनुरोधिनी ||
प्रमाऽत्र बोधिकैवातो न प्रवृत्तिः प्रमाणतः || ९४० ||
कर्त्रादिहेतूच्छित्तेश्च प्रवृत्तेर्नास्ति संभवः ||
सम्यग्ज्ञानसमुत्पत्तौ मेयस्याकारकत्वतः || ९४१ ||
अज्ञानध्वंसि विज्ञानं न च कारकरूपताम् ||
गृहीत्वेह तमो हन्ति द्वैधीभावेऽसिवत्कचित् || ९४२ ||
प्रत्यग्बोधोऽप्रमः सिद्ध आगमापायिमातृवत् ||
प्रत्यङ्भात्रफ़लत्वेन साक्षित्वेन च सर्वदा || ९४३ ||
अनात्मवस्तुना नाऽऽत्माऽकारकत्वाद्विना तमः ||
संबन्धं लभते साक्षात्तथाऽनात्माऽपि चाऽऽत्मना || ९४४ ||
बुद्ध्यादिर्जडरूपत्वात्स्वमहिम्ना न सिध्यति ||
बोधात्मवत्स्वतःसिद्धप्रत्यक्सिद्ध्यैव सिध्यति || ९४५ ||
स्वार्थं प्रत्येव सर्वेऽपि परार्थोऽर्थः प्रसिध्यति ||
यथा स्वप्नविनिर्माणं सिध्येत्स्वप्नदृशं प्रति || ९४६ ||
पृथक्त्वे वाऽपृथक्त्वे वा नैव तस्य मृषात्मता ||
पृथक्त्वे स्वमहिम्नैव तस्य सिद्धेः परात्मवत् || ९४७ ||
आत्मत्वादपृथक्त्वे च मानं नाशे च नेक्ष्यते ||
परमार्थमनाविश्य न मिथ्येति प्रसिध्यति || ९४८ ||
क्लृप्तसर्पाद्यभावोऽयं न स्रक्तत्त्वात्पृथङ्मितः ||
व्यतिरेकेण तत्सिद्धेर्नापि चाऽऽत्मानमन्वियात् || ९४९ ||
स्वार्थस्य प्रत्यगात्मत्वात्प्रत्यग्याथात्म्यतोऽपि च ||
खण्डमुण्डादिवन्मत्तो नानात्मा लभते भिदाम् || ९५० ||
सर्वमात्मेत्यतो वाक्यात्प्रत्यङ्भात्रैकरूपताम् ||
तदबोधप्रहाणेन प्रतीमो जगदात्मनः || ९५१ ||
तत्त्वप्रबोधनं मुक्त्वा कार्यकारणवस्तुनः ||
अपूर्वाद्यर्थवचसा नान्वयाद्यवबोध्यते || ९५२ ||
बोधोऽप्यकारको यस्माद्धन्त्यज्ञानमिहाऽऽत्मनि ||
न चाऽऽवृत्तिव्यपेक्षः सन्व्यञ्जकत्वात्तमोपनुत् || ९५३ ||
एवं स्वात्मनि विज्ञाते निष्क्रियेऽकारकेऽफ़ले ||
प्रवृत्तौ वा निवृत्तौ वा को हेतुरिति भण्यताम् || ९५४ ||
प्रत्यङ्भात्रैकतां मुक्त्वा तदविद्यामृते न हि ||
विद्वाप्रूपान्तरं पश्येद्यत्र हीति तथा श्रुतिः || ९५५ ||
यत्रहिद्वैतमिवभवति तदितर इतरं पश्यति
यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कंपश्येत्
नातोऽविद्यासमुच्छित्तौ ब्रह्मयाथात्म्यबोधतः ||
प्रतीचि भूयोऽतिद्यायाः संभवोऽस्ति प्रमाणतः || ९५६ ||
रागादिदर्शनं यच्च ज्ञानिनोऽपीह चोद्यते ||
बाधितस्यैव तत्सूतेस्तदप्युक्ते न दूषणम् || ९५७ ||
बाध्यबाधकयोर्यस्मात्संबन्धः सकृदेव तु ||
संबन्धोत्तरकाले तु तत्स्मृत्योरेव संगतिः || ९५८ ||
न च स्मृतेः प्रमाणत्वं क्वचित्सिद्धान्त इष्यते ||
प्रमाणलक्षणाभावान्न च बोधोऽप्रमाणतः || ९५९ ||
मात्रादिकारणध्वस्तेः पराङ्मानप्रबाधतः ||
प्रत्यक्षादिविरोधोऽपि नातश्चोद्यः कथंचन || ९६० ||
उदर्के च शमादीनि साधनानि प्रवक्ष्यति ||
उक्तप्रज्ञाप्रसिद्ध्यर्थं येषु स्वातन्त्र्यमिष्यते || ९६१ ||
नाभिध्यायेदतः शब्दाननात्मार्थवबोधिनः ||
बहूनित्यनुवादः स्यात्तद्बहुत्वस्य सिद्धितः || ९६२ ||
वाचो विग्लापनमिति श्रुत्या निन्दाऽभीधीयते ||
भूरिशब्दानुचिन्तायास्तन्निषेधप्रसिद्धये || ९६३ ||
प्रभूतशब्दाभिध्यानं नालं मोक्षार्थसिद्धये ||
न चेदेवं फ़लं तत्स्याद्वाक्तालुगलशोषणम् || ९६४ ||
उक्तव्याख्यानतोऽन्यस्य व्याख्यानस्य यथोदित -
न्यायेन दूषितत्वात्तद्दूषणार्थं न यत्यते || ९६५ ||
ओमित्येवं सदा ध्यायेदन्या वाचो विमुञ्चथ ||
तेऽनुवित्त्वेति च तथा त्रयीत्यागे वचः स्फ़ुटम् || ९६६ ||
ईत्वर्थ इतिशब्दोऽयं बहुशब्दजिहासया ||
मन्त्राम्नायसमाप्त्यर्थं यदि वेतिसमीरणम् || ९६७ ||
सहेतुकावभिहितौ बन्धमोक्षौ प्रयत्नतः ||
मन्त्रोक्त्या ब्राह्मणोक्त्या च पुंसां श्रेयोभिवाञ्छिनाम् || ९६८ ||
नानुध्यायाद्ब्रहूञ्शब्दानिति कस्मादिहोच्यते ||
अल्पीयसां वा न त्यागः कस्मादित्यभिधीयताम् || ९६९ ||
शब्दस्याल्पीयसोऽत्यागे तत्र तावदिहोच्यते ||
हेतुस्रय्यास्तु संत्यागे तमेतमिति वक्ष्यते || ९७० ||
यदि वा भिन्नवाक्यत्वात्कर्मविज्ञानकाण्डयोः ||
वेदान्तैः कर्मकाण्डस्य परस्परविरोधतः || ९७१ ||
हेतुतां प्रतिपद्यन्ते कर्माण्यपि विमुक्तये ||
बुद्धेः संस्कारकत्वेन यथा तदभिधीयते || ९७२ ||
पूर्वो भागः समस्तोऽपि वेदान्तार्थावबुद्धये ||
यथा भवति वेदस्य तथाऽथ प्रतिपाद्यते || ९७३ ||
वेदान्तार्थं यथायातमनूद्य श्रुतिरादरात् ||
स वा इत्यादिनोक्तार्थं प्रवक्तुमुपचक्रमे || ९७४ ||
परामर्शः सशब्देन पूर्वोक्तस्य प्रसिद्धितः ||
वैशब्दः स्मृतये तस्य मृतिजन्मादिधर्मिणः || ९७५ ||
ध्रुवान्तमन्त्राम्नायोक्त एष इत्यभिधीयते ||
महानज इति वचस्तद्विशेषणासिद्धये || ९७६ ||
अन्वयव्यतिरेकार्था योऽयमित्यादिका श्रुतिः ||
विशेषणविशेष्यार्थं सर्वस्येति तथा वचः || ९७७ ||
यदत्र किंचिद्वक्तव्यं तस्य प्रागेव चोक्तितः ||
सामानाधिकरण्यादेर्नेह तत्पुनरुच्यते || ९७८ ||
भूयान्स साधुना नेति ज्ञानस्य फ़लमुच्यते ||
एष सर्वेश्वरोकत्या च यथोक्तस्यैव संस्तुतिः || ९७९ ||
एतदुक्तं भवत्यत्र योऽयमित्यादिनोदितः ||
विविक्तः कामकर्मादेः स्वयंज्योतिश्च शब्दितः || ९८० ||
स एष ईश्वरः साक्षादिति श्रुत्या प्रदर्शितः ||
विशेषणविशेष्यत्वमीशितव्येश्योरिह || ९८१ ||
यमपेक्ष्येश्वरत्वं स्यात्तत्तावत्प्रतिषेधति ||
विशेषणविरोधित्वान्महत्खं कुम्भगं यथा || ९८२ ||
ईशितव्यापनुत्तौ च तदपेक्षैकसंश्रयात् ||
ईशित्वमपि निःशेषं प्रतीचो विनिवर्तते || ९८३ ||
घटाकाशो महाकाश इत्युक्ते कुम्भखह्नुतौ ||
आकाशमात्रताशेषो यथैवेह तथाऽऽत्मनि || ९८४ ||
विरुद्धयोरसंसर्गो यथैवमविरुद्धयोः ||
तदबोधसमुच्छित्ताववाक्यार्थोऽवशिष्यते || ९८५ ||
ऐदंपर्यमिदं तावत्पदार्थोऽथाधुनोच्यते ||
स वा इतिवचोर्थस्य व्याख्यातत्वान्न यत्यते ||
तद्ब्याख्यानाय भूयोऽपि तस्य चेहानुवादतः || ९८६ ||
आकाशवचसा चोक्तः परोऽज्ञातो जगद्गुरुः ||
जगज्जनिस्थितिध्वंसहेतुरात्मविशेषणम् || ९८७ ||
क्षेत्रक्षेत्रज्ञयोरेष स्वभावः प्राक्समीरितः ||
अप्रबुद्धात्मतत्त्वः सन्कारणात्मतया स्थितः || ९८८ ||
सर्वमस्य वशे यस्माद्वशी सर्वस्य तेन सः ||
उदासीनस्य तस्य स्याद्वशित्वमिति चेन्यतम् || ९८९ ||
वशित्वशक्तिसंबन्धान्मैवं यस्मात्पुनर्वचः ||
सर्वस्येशान एवेति सर्वस्येष्टे सदैव सः || ९९० ||
कुमारनृपवत्तत्स्यादीशानत्वं परात्मनः ||
इति चेन्नैतदेवं स्याद्यतोऽधिपतिरुच्यते || ९९१ ||
अधिष्ठायाऽऽत्मकार्यत्वादुत्पत्तिस्थितिहानिषु ||
त्रिविधेनाऽऽधिपत्येन स जगत्पाति सर्वदा || ९९२ ||
धर्माधर्मसमायोगो लोकवच्छासनात्प्रभोः ||
प्राप्नोति चेन्न तत्प्राप्तिः स नेति वचसः श्रुतेः || ९९३ ||
स्वकर्तृफ़लदायित्वं स्वभावः कर्मणां मतः ||
कर्तृस्वामित्वविरहान्नेशस्य फ़लसंगतिः || ९९४ ||
कौटस्थ्यान्नास्य कर्तृत्वमकार्याकारणत्वतः ||
कार्यकारणभेदेन तदविद्यैव संस्थिता || ९९५ ||
अस्थूलं नेति नेतीति न जायत इति श्रुतिः ||
अपूर्वानपरेत्याद्या तथाच सति युज्यते || ९९६ ||
स्वस्वामित्वादिसंबन्धस्तथा नास्याद्वितीयतः ||
यत्र हि द्वैतमित्येवं तथाच श्रुतिशासनम् || ९९७ ||
जन्यादयो विकारा ये संबन्धाश्चापि ये मताः ||
अविद्योपप्लुतस्यैव ते सर्वे स्युर्न तु स्वतः || ९९८ ||
यत एवमतो नेशो भूयान्स्यात्साधुकर्मणा ||
कनीयान्नापि पापेन तदकर्तृत्वहेतुतः || ९९९ ||
क्षेत्रज्ञस्य सतो यद्वत्पण्यपापाभिसंगतिः ||
कर्तृत्वाद्यभिमानित्वान्नेशस्य तदसंभवात् || १००० ||
निर्हेतुत्वात्प्रतीचोऽस्य तमस्वित्वस्य सर्वदा ||
हानिवृद्धी न तस्यातो धर्मोधर्मैरसंगतेः || १००१ ||
न कार्यकारणं वाऽस्य यत्कर्तृत्वादिकारणम् ||
स्वतोऽसङ्गस्वभावत्वान्निरंशैकत्वतस्तथा || १००२ ||
स्वत एवंस्वभावोऽपि तदविद्यासमाश्रयात् ||
एष सर्वेश्वरो देव ईशितव्यव्यपेक्षया || १००३ ||
एष सर्वेश्वर इति पुनरुक्तं किमुच्यते ||
वक्ष्यमाणबुभुत्साया विषयत्वप्रसिद्धये || १००४ ||
अज्ञात एष एवाऽऽत्मा तावन्मात्रसतत्त्वतः ||
ईशादेर्विषयान्तस्य कल्पितत्वमतो भवेत् || १००५ ||
साध्वाद्यनभिसंबन्धे यदि वा हेतुरुच्यते ||
एष इत्यादिवचसा सर्वेशस्याऽऽत्मनः स्फ़ुटः || १००६ ||
धर्माधर्मादितन्त्रोऽर्थस्तत्फ़लेनेह लिप्यते ||
विज्ञानात्मा न तु तथा सर्वेशत्वात्परो भवेत् || १००७ ||
सर्वस्य कर्मणोऽप्येष कारकस्य च तत्कृतः ||
स्वतन्त्र ईश्वरो यस्मान्नातो धर्मादितन्त्रता || १००८ ||
भूतानि जनिमन्त्येष यतः पालयतीश्वरः ||
भूतपालस्ततो देवः कार्याणां कारणत्वतः || १००९ ||
कारणेन हि पाल्यन्ते कार्याणीह यतस्ततः ||
तत्कार्यत्वाच्च भूतानां भूतपालत्वमात्मनः || १०१० ||
भूताधिपतिशब्देन ब्रह्मा वाऽत्राभिधीयते ||
इन्द्रोकेश्वरश्चात्र वरुणाद्यात्मना तथा || १०११ ||
लोकपालोऽपि चाप्येष तथाकार्यस्य दर्शनात् ||
प्रशासिताऽपि चाप्येष तदेतदभिधीयते || १०१२ ||
लोकानां रचना यैषा क्षित्यादीनां व्यवस्थिता ||
सिद्धाऽसंकीर्यमाणेह साऽप्यस्यैवानुशासनात् || १०१३ ||
वर्णाश्रमादिहेतूनां व्यवस्थानामसंकरः ||
नैव सिध्येद्विना हेतुं सेतुरेष इतीक्ष्यताम् || १०१४ ||
यथोदकप्रवाहस्य सेतुर्विधरणस्तथा ||
सर्वलोकव्यवस्थानां सेतुः स परमेश्वरः || १०१५ ||
किमर्थं सेतुरित्येवमाकाङ्क्षायां परं वचः ||
असंभेदाय लोकानामेषामित्यभिधीयते || १०१६ ||
असंभिन्नव्यवस्थाः स्युः कथं नाम यथोदिताः ||
तस्मै तस्मै फ़लायालं सेतुरीशो भवेत्ततः || १०१७ ||
एवं तावत्समासेन षष्ठाध्यायोक्तमादरात् ||
श्रुत्याऽनूद्याखिलं वस्तु तस्याथ प्रतिपत्तये || १०१८ ||
उपायतां यथा सर्वो वेदोऽयं प्रतिपद्यते ||
तमेतमिति वाक्येन तदेतदभिधीयते || १०१९ ||
एतं विविदिषन्त्युक्तं वेदानुवचनादिभिः ||
उपायैरीश्वरं साक्षादपेताशेषकल्पनम् || १०२० ||
स्वातन्त्र्येणेशविषया बुभुत्साऽप्यतिदुर्लभा ||
गम्यते तदुपायानां विधानाद्यत्नतः श्रुतौ || १०२१ ||
विनियोगप्रयत्नाच्च कर्मविज्ञानकाण्डयोः ||
गम्यते भिन्नवाक्यत्वं नैकत्र विनियोगगीः || १०२२ ||
यद्वभुत्साऽपि दुष्प्रापा वद तत्तत्त्वबोधनम् ||
ततोऽपि दुर्लभतरमुपायाल्लभ्यते कुतः || १०२३ ||
बुभुत्सामात्र एवामी वेदानुवचनादयः ||
विनियुक्ता यतस्तस्मान्नैते तज्ज्ञानसिद्धये || १०२४ ||
अत एव श्रुति र्यत्नाच्छमादीनेव वक्ष्यति ||
उपायानात्मयाथात्म्यविज्ञानाय यमात्मकान् || १०२५ ||
बुभुत्सासाधनेष्वेषु वेदानुवचनादिषु ||
अधिकारोऽविशेषेण ह्याश्रमाणां यथायुति || १०२६ ||
यथायोगं यथाश्रद्धं तद्बुभुत्साप्रसिद्धये ||
सर्वाश्रमैरमी कार्या वेदानुवचनादयः || १०२७ ||
वेदानुवचनोक्त्याऽत्र वेदाध्ययनमन्वहम् ||
श्रुत्येह भण्यतेऽस्मभ्यं नित्यस्वाध्यायलक्षणम् || १०२८ ||
ब्राह्मणग्रहणं चात्र द्विजानामुपलक्षणम् ||
अविशिष्टाधिकारित्वात्तेषामात्मावबोधने || १०२९ ||
विविदिषन्तीतिगिरा संबन्धः प्रतिसाधनम् |
साकांक्षत्वादिहज्ञेयो निराकांक्षत्वसिद्धये || १०३० ||
वेदानुवचनोक्त्यावा कर्मकांड परिग्रहः |
व्याख्यानायाथ तस्यैव यज्ञेनेत्यादि रुच्यते || १०३१ ||
प्रकाश्यमान मात्मानं वेदानुवचनेन तु |
इति व्याचक्षते येतु तेषां वेदान्तमात्रकम् |
प्राप्तं वेदानुवचनं तदन्यस्याप्रकाशनात् || १०३२ ||
विरहय्य नवेदान्तान् वेदेन्येन कथंचन |
ग्रन्धेनाऽऽविष्कृतिः साक्षात् आत्मनोस्योपपद्यते || १०३३ ||
तंत्वौपनिषदमिति नियामार्थे सतीष्यते |
श्रौतंवाक्यमिदं न्याय्य नतु सर्वोक्तिभासने || १०३४ ||
ननु सर्वस्य वेदस्य त्वत्पक्षेऽपि नसिद्ध्यति |
ग्रहणं यज्ञदानादि वाचकस्यैव संश्रयात् || १०३५ ||
मैवं विविदिषा मात्र हेतो रेव परिग्रहात् |
वेदानुवचनस्येह नतु तत्वाव बोधिनः || १०३६ ||
त्रय्यन्तस्यग्रहोत्र स्यात् साक्षाज्ञानेतुतद्ग्रहः || १०३७ ||
अप्यभ्यूपगमे नायं दोषोऽस्मान् प्रतिढौकते |
कृत्स्नेवेदग्रहादाद्यव्याख्याने दोष एव न || १०३८ ||
प्रकाश्यमाने मानेन बुभुत्याऽपि नयुज्यते |
साक्षात्त्वाद्वस्तुनो माप्तेः बुभूत्सा प्रात् प्रमायुतेः || १०३९ ||
वेदानुवचनोक्त्याऽत्र नित्यंकर्मोपदिश्यते |
यज्ञदानादिभिस्तन्य साहचर्येणहेतुना || १०४० ||
सिद्धि र्विविधिषायाः स्यात् वेदानु वचनादिभिः |
कथमित्युच्यते तेषां बुद्धि संशुद्धि हेतुतः || १०४१ ||
इदं मेऽङ्गमनेनेति पुंसंस्कारश्रुतेस्तथा ||
यज्ञो दानं तपश्चेति स्मृतेरपि वचः स्फ़ुटम् || १०४२ ||
यस्मिन्विशुद्ध इति च सत्त्वशुद्धौ ध्रुवा स्मृतिः ||
इत्येवमादिवाक्यानि श्रौतान्युक्तार्थसिद्धये || १०४३ ||
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ||
यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि || १०४४ ||
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ||
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् || १०४५ ||
चत्वारिंशत्तथाऽष्टौ च संस्कारा इति च स्मृतिः ||
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्घये || १०४६ ||
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ||
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || १०४७ ||
गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः ||
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते || १०४८ ||
स्वाध्यायेन व्रतैर्हौमैस्त्रैविद्येनेज्यया सुतैः ||
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः || १०४९ ||
इत्येवं शतशः सन्ति यथोक्तार्थप्रसिद्धये ||
स्मृतिवाक्यानि पुंबुद्धिशुद्धिशंसीनि कर्मभिः || १०५० ||
संसारानर्थहेतुत्वज्ञानायैव च कर्मणाम् ||
काम्यानामिह निर्देशस्तज्जिहासाप्रसिद्धये || १०५१ ||
यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम् ||
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः || १०५२ ||
देशे काले च पात्रे च दानं श्रद्धादिपूर्वकम् ||
शुद्धिकृत्स्याद्धियः पुंसो बहिर्वेद्यपि शास्रतः || १०५३ ||
नियमाद्दूंद्वसंपातसहनं तप उच्यते ||
तस्यापि बुद्धिसंशुद्धिहेतुत्वं शास्त्रतो मतम् || १०५४ ||
विजिज्ञासस्व तद्ब्रह्म तपसैवेति च श्रुतिः ||
तपसा कल्मषं हन्तीत्यपि च स्मृतिशासनम् || १०५५ ||
यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ||
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् || १०५६ ||
अनाशकं चानशनं कामानशनलक्षणम् ||
रागद्वेषवियुक्तैस्तु विषयानिति चाऽऽह हि || १०५७ ||
कामानशनबोधार्थं वेदव्यासोऽपि यत्नतः ||
मृत्य्वन्तं वा सनियमं तदप्यत्यन्तशुद्धिकृत् || १०५८ ||
प्रत्यग्विविदिषामात्रहेतुत्वान्न मृतेर्भयम् ||
अनेकजन्मसंसिद्धस्ततो यातीति च स्मृतेः || १०५९ ||
भावितैः करणैश्चायं बहुसंसारयोनिषु ||
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे || १०६० ||
पृथूदकादितीर्थेषु तथाच मरणं स्मृतौ ||
श्रूयते मुक्तये साक्षान्न भयं स्यादतो मृतेः || १०६१ ||
साक्षात्तु वस्तुविज्ञाने श्रुत्या यत्र नियुज्यते ||
विद्वापरिहरेत्तत्र मृतिहेतुं प्रयत्नतः || १०६२ ||
चतुर्णामाश्रमाणां वा वेदानुवचनादिना ||
श्रुत्येह ग्रहणं ज्ञेयं तद्बुभुत्साप्रसिद्धये || १०६३ ||
ब्रह्मचर्यान्तवाक्येन ब्रह्मचारिपरिग्रहः ||
तपसा तापसस्यैव यज्ञेन गृहिणस्तथा || १०६४ ||
श्रद्धानाशकवाल्यं तु सर्वार्थमिति गम्यते ||
एतमेव विदित्वेति पारिव्राज्यं च वक्ष्यति || १०६५ ||
सर्वेऽपि क्रमशस्त्वेते सेव्यमाना यथाविधि ||
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् || १०६६ ||
चतुर्भिराश्रमैरेभिर्यथाशास्त्रमनुष्ठितैः ||
अत्यन्तं क्षेममाप्नोतीत्यापस्तम्बोऽप्यभाषत || १०६७ ||
यं तं विविदिषन्त्युच्चैर्यथोक्तैः साधनैः परम् ||
एतमेव विदित्वाऽथ मुनिः स्यात्प्राग्यथोदितः || १०६८ ||
पाण्डित्यबाल्ययोर्निष्ठां मुनित्वं प्रागवादिषम् ||
सर्वकर्ममुचां यस्मान्न तत्साधारणं ततः || १०६९ ||
योगस्य च समस्तस्य प्रत्यग्विज्ञानजन्मने ||
उपयोगो यतस्तस्मान्नाऽऽत्मज्ञानोदयात्परः || १०७० ||
शमादीन्येव विद्यायाः साधनानि यतस्ततः ||
कुतोऽसंन्यासिनस्तत्स्यान्मुनित्वं निष्प्रमाणकम् || १०७१ ||
मननात्मकमेवास्य कर्म नान्यद्यतस्ततः ||
मुनित्वं न्यासिनो युक्तं मौनाच्चाप्यस्य सर्वदा || १०७२ ||
प्रत्यग्याथात्म्यविज्ञाननिष्ठता मुनिता यतः ||
तज्ज्ञानजन्मनो नोर्ध्वं मुनिता तत्फ़लत्वतः || १०७३ ||
एतमेवेत्यवधृतेरस्यैवैकस्य वस्तुनः ||
तदज्ञानैकहेतुत्वात्सर्वस्यानात्मवस्तुनः || १०७४ ||
सामर्थ्याच्च ततोऽस्यैव प्रत्यग्याथात्म्यवेदिनः ||
मुनित्वं प्रत्यगज्ञानहेतुकर्मापवर्जनात् || १०७५ ||
किंचैतमेवमात्मानं सर्वानर्थैककारणम् ||
मोहमात्रव्यवहितमाप्तुमिच्छन्त आदरात् || १०७६ ||
आत्मयाथात्म्यविज्ञानसर्वाविद्योपमर्दिना ||
सम्यग्ज्ञनप्रदीपेन प्रत्यक्प्रवणबुद्घयः || १०७७ ||
विरक्ताः सर्वसंसारादाग्रजाद् बुद्धिशुद्धितः ||
उत्पन्ननिखिलानर्थतित्यक्षा दोषदर्शनात् || १०७८ ||
वाङ्भनःकायकर्मभ्योऽतः प्रव्रजनशीलिनः || १०७९ ||
एतमेवेत्यवधृतेर्न लोकत्रकयामिनाम् ||
पारिव्राज्येऽधिकारोऽस्तीत्ययमर्थोऽवगम्यते || १०८० ||
असाधारणसाध्यानि पुत्रादीनि यथा तथा ||
पुत्रादिकामत्यागोऽपि स्यादसाधारणोऽर्थवान् || १०८१ ||
परस्परविरोधाच्च पराक्प्रत्यक्फ़लात्मनाम् ||
पुत्रादिसाधनानां च तत्त्यागस्य च वर्त्मनः || १०८२ ||
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् ||
एकः पन्था हि मोक्षस्येत्यपि व्यासोऽपि चावदत् || १०८३ ||
प्रव्राजिनोऽत्र गृह्यन्ते प्रसिद्धेर्यदि वा परे ||
त्रिदण्डिनः समाख्यायास्तेष्वेवातिप्रसिद्धितः || १०८४ ||
पराञ्चि खानीत्यादीनि श्रौतानि च वचांसि नः ||
तानि वा इति निन्दित्वा न्यासो ब्रह्मेति शासनात् || १०८५ ||
उपायो न्यास एवातः प्रत्यग्ज्ञानस्य जन्मने ||
प्रत्यग्ज्ञानविरुद्धत्वान्मनोवाक्कायकर्मणाम् || १०८६ ||
शब्दादिप्रकृतीन्येव कार्याणि करणानि च ||
प्रत्यग्ज्ञानाय नैवालमतस्तानि विरोधतः || १०८७ ||
आत्मलोकपरीप्सायां तस्मात्साधनमुत्तमम् ||
त्याग एव हि विज्ञेयं मनोवाक्कायकर्मणाम् || १०८८ ||
प्रतिसाध्यं सुतादीनि यथा लोकत्रयार्थिनाम् ||
नियतानि तथैवेह प्रत्यग्लोकाप्तिमिच्छताम् || १०८९ ||
सर्वकर्मपरित्यागः साधनं परमं मतम् ||
असंभवे हि कर्माणि विधीयन्तेऽस्य सर्वतः || १०९० ||
रागाद्याकृष्टचेतस्त्वान्न चेच्छक्रोत्यशेषतः ||
कर्माणि मानवस्त्यक्तुं स करोतु यथाविधि || १०९१ ||
कर्माणि कर्मसंत्यागसामर्थ्यार्थं दिवानिशम् ||
न कर्मणामनारम्भात्तथाच स्मृतिशासनम् || १०९२ || ||
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ||
योगारूढस्य तस्यैव शमः कारणमुच्यते || १०९३ ||
कोऽभिप्रायोऽखिलं कर्म त्यजतां साधनैः सह ||
आत्मलोकार्थिनां पुंसामिति पृष्टेऽर्थ उच्यते || १०९४ ||
एतद्ध स्मेति वचसा पारिव्राज्येऽभिधीयते ||
अर्थवादस्वरूपेण हेतुः श्रुत्या प्रयत्नतः || १०९५ ||
तदेतत्कारणं स्पष्टं पारिव्राज्येऽभीधीयते ||
ऐतिह्यार्थं च ह स्मेति वैशब्दः स्मरणाय च || १०९६ ||
पूर्वेऽतिक्रान्तकालीना विद्वांसो ज्ञाततत्त्वकाः ||
तिसृणामेषणानां स्यात्प्रजामित्युपलक्षणम् || १०९७ ||
न कामयन्ते नेच्छन्ति पुत्रोत्पत्त्यादिलक्षणाः ||
एषणाः सकला एताः कस्मादित्यभिधीयते || १०९८ ||
एषणास्त्यजतां तेषामभिप्रायमिमं शृणु ||
एषणात्रितयस्यापि किमित्याक्षेप उच्यते || १०९९ ||
प्रजया किं करिष्यामः कनीयःफ़लया वयम् ||
स्वतःसिद्धैकलो ह्यात्मा येषां लोको ध्रुवोऽक्षयः || ११०० ||
आत्मात्वादेव चावाप्तः सर्वसाधनानिःस्पृहः ||
वस्तूत्पत्त्यादिमद्यस्मात्साधनानि व्यपेक्षते || ११०१ ||
यच्चोत्पत्त्यादिमद्वस्तु तत्तुच्छं स्वप्नवस्तुवत् ||
आत्मज्ञाने तु निःशेषफ़लान्तर्भावकारणात् || ११०२ ||
नाऽऽत्मलाभात्परो लाभः कृत्स्नेऽपि जगतीक्ष्यते ||
सर्वप्राप्यार्थसंप्राप्तेः सर्वहेयनिराकृतेः || ११०३ ||
इति चेतसि संधाय ह्याक्षिपन्ति प्रजादिकम् ||
नृलोकादिफ़लं सर्वमेषणात्रयमादरात् || ११०४ ||
उत्पाद्यमाप्यं संस्कार्यं विकार्यं चैषणाफ़लम् ||
तस्मिन्नेवंविधे कः स्यात्संतोषो विदुषामपि || ११०५ ||
आत्मब्रह्मानुलोम्येन ह्येषणात्याग इष्यते ||
साधनं ब्रह्मविद्येव ब्रह्मज्ञानस्य जन्मने || ११०६ ||
आप्ताशेषपुमर्थस्य प्रत्यग्याथात्म्यबोधिनः ||
दग्धात्मतमसः पुंसो नैषणाऽपेक्षितेष्यते || ११०७ ||
सर्वभूतात्मभूतस्य सर्वैकात्म्यं प्रपश्यतः ||
आप्ताशेषपुमर्थस्य त्यक्ताशेषासुखस्य च || ११०८ ||
प्राप्तस्य परमं स्वास्थ्यं वद किं स्यात्प्रजादिभिः ||
इति निश्चित्य निःसङ्गाः प्रव्रजन्त्येव सर्वतः || ११०९ ||
धावतोऽविदुषो दृष्ट्वा मृगतृष्णोदकार्थिनः ||
तत्तोयतत्त्ववित्कश्चिन्न हि धावति मूढवत् || १११० ||
यथैवं श्रुतितोऽशेषवाङ्भनःकायसाधन-
प्रवृत्तिविषयप्रत्यग्याथात्म्यज्ञानिनामिह || ११११ ||
अविद्यापटसंवीतधिषणान्कामिनो नरान् ||
पुत्रोत्पत्त्यादिसाध्येषु प्रवृत्तान्वीक्ष्य यत्नतः ||
अस्माकं न प्रवृत्तिः स्यात्कृतार्थत्वाच्च कारणात् || १११२ ||
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ||
तस्मात्सर्वप्रवृत्तीनां हानिः स्यादात्मबोधतः || १११३ ||
सदोत्पत्तेरनुत्पाद्योऽनाप्यश्चापि तथाऽऽत्मानः || १११४ ||
असंस्कार्योऽक्रियाङ्गत्वान्निर्गुणत्वात्तथाऽऽत्मनः ||
कौटस्थ्यादविकार्योऽयं वद स्यात्कर्थणा हि किम् || १११५ ||
नोत्पत्त्यादि स्वतो यस्य स्वत एवास्ति यस्य तत् ||
न तस्य कर्मापेक्षाऽस्ति कर्मापेक्षा ततोऽन्यतः || १११६ ||
उत्पत्त्यादौ समर्थं यद्धेतुमात्रमपेक्षते ||
फ़लवत्कर्म तत्रैव ततोऽन्यत्राफ़लं भवेत् || १११७ ||
उक्तहेतुबलात्तस्माद्विदित्वाऽऽत्मानमात्मना ||
प्रव्रजेयुः समस्ताभ्य एषणाभ्यो द्रुतं बुधाः || १११८ ||
पुत्रोत्पत्तिं समुद्दिश्य ह्येषणा दारसंग्रहः ||
पुत्रैषणेति सेहोक्ता यदि वाऽतोऽन्यथैषणा || १११९ ||
मनुष्यलोकसंप्राप्तिं समुद्दिश्यास्य यैषणा ||
पुत्रोत्पत्त्येह तत्प्राप्तौ साऽत्र पुत्रैषणोच्यते || ११२० ||
दैवं च मानुषं वित्तं कर्मणे यत्प्रयोजकम् ||
देवतादिपरिज्ञानं दैवं पश्वादि मानुषम् || ११२१ ||
संसारकारणध्वंसि यत्तु ज्ञानं विमुक्तिदम् ||
वित्तश्रुत्या न तद्ग्राह्यं तस्य कर्मविरोधतः || ११२२ ||
यस्य साधनभावः स्यात्प्रवृत्तौ सर्वकर्मणाम् ||
गर्तादेरिव वित्तत्वं तस्य ज्ञानस्य कर्मसु || ११२३ ||
कर्महेतुविरुद्धं तु न वित्तं ज्ञानमिष्यते || ११२४ ||
कर्मप्रकरणाकाङ्क्षि ज्ञानं कर्मगुणो भवेत् ||
यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते || ११२५ ||
स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः ||
न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् || ११२६ ||
एतद्बलेन संन्यास एषणाभ्योऽवसीयते ||
देवलोकफ़लं ज्ञानमेषणैवेति गम्यते || ११२७ ||
लोकैषणाग्रहेणैव वित्तान्तर्भावसिद्धितः ||
फ़लोद्देशेन या चेष्टा सैव लोकैषणा यतः || ११२८ ||
यत्तु चोदितमित्येव क्रियते कर्म निष्फ़लम् ||
वित्तैषणेति तां ब्रूमो जामित्वविनिवृत्सया || ११२९ ||
लोकोद्देशेन या चेष्टा वाङ्भनःकायसाधना ||
लोकैपणेति तामाहुरेषणार्थविदो जनाः || ११३० ||
क्रियाकारकरूपाभ्य एषणाभ्यः प्रबोधतः ||
प्रातिलोम्येन यत्स्थानं व्युत्थानमिति तद्विदुः || ११३१ ||
इत्येवमादि व्याख्येयं व्याख्यातं पूर्वमेव तु ||
कहोलब्राह्मणे नातस्तद्व्याख्यानाय यत्यते || ११३२ ||
प्रव्रजेयुरतो लोकमीप्सन्तो ब्राह्मणा बुधाः ||
प्रव्रजन्तीति च विधिरर्थवादेन संगतेः || ११३३ ||
नार्थवादान्तरापेक्षा ह्यर्थवादस्य युज्यते ||
विधिनैवैकवाक्यत्वमर्थवादस्य युज्यते || ११३४ ||
अर्थवादेन लिङ्गेन तस्माद्विधिरयं स्फ़ुटः ||
विधिशेषत्वमुज्झित्वा नार्थवादो यतोऽन्यतः || ११३५ ||
समानकर्तृकत्वोक्तेर्विभागोक्तेः फ़लस्य च ||
प्रव्रजन्तीत्येष विधिरर्थवादेन चान्वयात् || ११३६ ||
विज्ञानेन विदित्वेति श्रूयतेऽस्यैककर्तृता ||
विविनक्ति फ़लं चापि येषामित्येवमादिना || ११३७ ||
प्रव्रजन्तीति नाप्येतत्सकृत्छ्रुतमिहेष्यते ||
प्राप्तवल्लोकनुत्यर्थमर्थवादव्यपेक्षि च ||
प्रधानवदतो नेदं लोकस्तुतिपरं भवेत् || ११३८ ||
नाप्यनुष्ठेयरूपेण पारिव्राज्येन संस्तुतिः ||
आत्मलोकस्य युक्ता स्यान्नापि तज्ज्ञानसंस्तुतिः || ११३९ ||
अथानुष्ठेयमपि संस्तुत्यर्थं भवतेष्यते ||
अनुष्ठेयस्य दर्शादेः स्तुत्यर्थत्वं प्रसज्यते || ११४० ||
कर्तव्यता न च ज्ञाता पारिव्राज्यस्य कुत्रचित् ||
स्तुत्यर्थत्वं यतोऽस्येह भवता परिकल्प्यते || ११४१ ||
अन्यत्रापि विधौ कल्प्य इहैवासौ समर्थ्यताम् || ११४२ ||
भूमिष्ठे मधुनि प्राप्ते को विद्वान्पर्वतं व्रजेत् ||
लब्धेऽपि प्रव्रजन्तीति विधावन्यत्र किं श्रमः || ११४३ ||
काणकुण्ठादिविषये यत्तु कैश्चित्प्रकल्प्यते ||
पारिव्राज्यं न तद्युक्तमननुष्ठेयरूपतः || ११४४ ||
कर्तव्यत्वेन न ज्ञातं वृक्षाद्यारोहणं यथा ||
संन्यासोऽपि तथैवायं नैव कार्यतया मतः ||
प्रव्रजन्तीत्यतो नास्य स्तुतिगन्धोऽपि विद्यते || ११४५ ||
ननु चाऽऽत्मप्रबोधेन विधिगोचरलङ्गघिनः ||
कृतकृत्यस्य मुक्तस्य विधिरेष कथं भवेत् || ११४६ ||
परिहारोऽस्य चोद्यस्य कहोलब्राह्मणेऽखिलः ||
यतोऽभाणि मया पूर्वं नेहातः पुनरूच्यते || ११४७ ||
ब्रह्मचर्यं समाप्येतिप्रत्यक्षश्रुतिमूलतः ||
चतुर्णामाश्रमाणां स्यान्नोपेक्षाऽतोऽनुमानतः || ११४८ ||
न च वेदैकमूलत्वविरहात्स्यात्प्रमाणता ||
आचारस्य स्मृतेर्वाऽपि बौद्धाद्याचारवद्ध्रुवम् || ११४९ ||
धर्मस्य वेदमूलत्वादवेदस्य न धर्मता ||
इत्येवं न्यायवद्वाक्यमाहुर्वेदप्रमाणकाः || ११५० ||
वेदशास्रानपेक्षत्वं स्मृतिशास्रस्य चेन्मतम् ||
निर्ग्रन्थिशास्रतुल्यत्वं स्मृतीनां वः प्रसज्यते || ११५१ ||
नापि स्मृतिव्यपेक्षाऽस्ति श्रुतेः स्वातन्त्र्यकारणात् ||
स्मृत्यर्थस्यानुवादोऽयं पारतन्त्र्येऽसति श्रुतेः || ११५२ ||
स्वतन्त्रयोर्मिथोऽपेक्षा नापि स्यात्परतन्त्रयोः ||
पारतन्त्र्यान्न चापेक्षा स्वतन्त्रस्य स्वतः कचित् || ११५३ ||
स्मृत्यर्थं न श्रुतिस्तस्मादनुवक्तीह कुत्रचित् ||
स्मृतिस्त्वनुवदत्येव श्रुत्यर्थं परतन्त्रतः || ११५४ ||
आत्मा चेदिष्यते लोकः कर्माण्येव न किं नराः ||
तत्प्राप्त्यर्थं प्रयत्नेन कुर्वन्तीह दिवानिशम् || ११५५ ||
पारिव्राज्येन किं कार्यमिति चेदुच्यते शृणु ||
अस्यात्यन्तमसंबन्धादात्मलोकस्य कर्मभिः || ११५६ ||
नोत्पत्त्याद्यभिसंबन्ध आत्मनोऽस्योपपद्यते ||
यतोऽतः कर्मणां कार्यं नेह संभाव्यतेऽण्वपि || ११५७ ||
तदसंभावनायाश्च को हेतुरिति भण्यते ||
स एष नेति नेत्यात्मा यस्मात्प्रागपि वर्णितः || ११५८ ||
प्रध्वस्तैकात्म्यसंमोहो नेति नेत्यात्मविद्यया ||
अगृह्याद्यात्मतां यातः स्वमहिम्नि व्यवस्थितः || ११५९ ||
कर्मणां चाऽऽत्मविद्यायां चरितार्थत्वकारणात् ||
विद्ययाऽपि न चेत्कार्यं कर्मभिः स्यात्कथं नु तत् || ११६० ||
एवं चतुर्भिरध्यायैर्यथाव्याख्यातवर्त्मना ||
मुमुक्षुः प्रापितः स्वास्थ्यं परमैकात्म्यलक्षणम् || ११६१ ||
यस्मादेवमयं तस्माद्विदिते परमात्मनि ||
ज्ञेयकार्यसमाप्तत्वान्न किंचिदवशिष्यते || ११६२ ||
सर्वकर्मफ़लानां च तथाऽन्तर्भावसंभवात् ||
आप्ते कर्मफ़ले नात आरम्भः कर्मणामिह || ११६३ ||
तथाच भगावान्व्यास इममर्थमुवाच ह ||
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ११६४ ||
नातो विज्ञाततत्त्वस्य कर्महेतुप्रबाधनात् ||
वाङ्भनःकायसाध्यानामारम्भः सर्वकर्मणाम् || ११६५ ||
यस्त्वेषणानिवृत्तः स्यान्नेति नेत्यात्मविद्यया || ११६६ ||
नेतीत्यात्मैव संवृत्तो यतोऽतस्तं विपश्चितम् ||
उभे न व्याप्नुतोऽज्ञोत्थे नेति नेत्यात्मनि स्थितम् || ११६७ ||
के ते उभे न तरत इत्युक्तार्थविवक्षया ||
अत इत्यादिकं तस्मादाजगामोत्तरं वचः || ११६८ ||
अतो निमित्तादत्यर्थमहं पापमकारिषम् ||
भोक्तव्यं तन्मयेदानीं मरणात्समनन्तरम् || ११६९ ||
असह्यानन्तदुःखौघमहाभयमुपस्थितम् ||
इत्येष घोरसंकल्पो हिक्किकावशवर्तिनः ||
सर्वसामर्थ्यहीनस्य जायते तापकारणम् || ११७० ||
क्षयिष्णु पुण्यं चैतस्माद्धेतोरकरवं पुरा ||
इत्येते विचिकित्से द्वे सर्वस्य भवतो मृतौ || ११७१ ||
एते न तरतोऽज्ञोत्थे तद्धेत्वज्ञानघस्मरम् ||
अशनायाद्यतिक्रान्तं ब्रह्मास्मीत्यात्मवेदिनम् ||
कथं ते व्याप्नुतोऽविद्याहेतूत्थे ब्रह्मवेदितम् || ११७२ ||
तापाय पुण्यमप्याहुः परिणामादिसंगतेः ||
क्षयातिशययोगित्वात्तथा व्यासोऽप्यभाषत ||
तस्य स्थानवरिष्ठस्य सर्वे निरयसंज्ञिताः || ११७३ ||
न व्याप्नुतस्ते तं कस्मात्कर्मणी साध्वसाधुनी ||
इतिहेतूपदेशार्थमुभे इति परं वचः || ११७४ ||
उभे एते तरत्येष विद्वांस्तद्धेतुबाधनात् ||
उभे न तरतोऽतस्तमुभे न तपतश्च तम् || ११७५ ||
कृतं फ़लप्रदानेन प्रत्यवायेन चाकृतम् ||
न तापयति कर्मैतन्नेति नेत्यात्मदर्शिनम् || ११७६ ||
पुण्यं वा यदि वा पापं न कर्मेहास्ति तादृशम् ||
लोकोऽस्य मीयते येन ब्रह्मविद्याप्रकाशितः || ११७७ ||
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ||
इति मन्त्रोऽपि चाऽऽनन्त्यमैकात्म्यस्यावदत्स्वयम् || ११७८ ||
सर्वकर्मातिगं ब्रह्म प्रत्यङ्भात्रसतत्त्वकम् ||
मन्त्रेणाप्यात्मनो रूपं तदेतदिति वर्ण्यते || ११७९ ||
एष योऽभिहितः पूर्वं तं साक्षाद्दृष्टवानृषिः ||
तत्रैव निष्ठां यातः सन्मन्त्रमेतमुदीरयेत् || ११८० ||
आ ब्रह्मणोऽस्य ये सिद्धा अविद्याकर्महेतुतः ||
सर्वेऽपि महिमानोऽमी क्षणप्रध्वंसिनो मताः || ११८१ ||
एष एवैकलो नित्यो बाह्यसाधननिस्पृहः ||
महिमा ब्राह्मणस्योक्तो नेतीत्याद्युक्तिभिः पुरा || ११८२ ||
अस्यैकस्य स्वतः सिद्धेर्न वृद्धिः पुण्यकर्मभिः ||
न च पापैः कनीयस्ता तस्यासाध्यत्वहेतुतः || ११८३ ||
वृद्धिहानी यतो दृष्टे कर्मसाध्यस्य वस्तुनः ||
कर्मानपेक्षसंसिद्धेः कथं ते भवतो वद || ११८४ ||
स ब्राह्मण इति गिरा यः श्रुत्या प्रतिपादितः ||
ग्रहणं ब्राह्मणस्येति तस्यैवेहाऽऽत्मवस्तुनः || ११८५ ||
महिमा विद्यामानोऽपि तदविद्यासमुद्भव-
देहजात्यादिमानस्य वृद्धिहान्यादिसंगतेः || ११८६ ||
अविद्यमानवज्ज्ञेयो महिमाप्रतिबोधतः ||
ब्राह्मणग्रहणेनातः कृतकृत्या इहोच्यते || ११८७ ||
महिमैवंविधो यस्माद्ब्राह्मणस्यात आदरात् ||
पदवित्स्यान्महिम्नोऽस्य महत्तज्ज्ञानतः फ़लम् || ११८८ ||
तत्त्ववित्स्यान्महिम्नोऽस्येत्येष मन्त्रो विधित्सितः ||
फ़लवादोऽर्थवादः स्यादस्यैव तु विधेः परः || ११८९ ||
महिम्नोऽस्यैव वा साक्षाद्वाक्यार्थप्रतिबुद्धये ||
अन्वयव्यतिरेकाभ्यां स्यात्पदार्थविचक्षणः || ११९० ||
यतः पदार्थसंबोधान्नेति नेत्यादिलक्षणम् ||
महिमानं श्रुतेर्वेत्ति फ़लं चेत्स्यात्ततोऽपि किम् || ११९१ ||
तं विदित्वेत्यतः प्राह फ़लं वाक्यार्थबोधतः ||
यस्मादेवंफ़लं ज्ञानमेवंविद्यत्नतस्ततः || ११९२ ||
शमादिसाधनो भूत्वा महम्निः पदविद्भवेत् ||
इति मन्त्रोक्त एवार्थो ब्राह्मणेनापि वर्ण्यते || ११९३ ||
धर्माधर्मासमायोगो यस्मात्प्रत्यग्धियः फ़लम् ||
एवंविदादरात्तस्मात्प्रत्यक्प्रवणधीर्नरः || ११९४ ||
उत्पन्नात्मबुभुत्सुः सन्वेदानुवचनादिभिः ||
विरक्त आग्रजाल्लोकान्मोक्षादर्वाक्षु भूमिषु || ११९५ ||
संशुद्धधिषणोऽत्यर्थं वैदिकैरेव साधनैः ||
पराङ्भुखीकृतः शुद्ध्या तैस्तैः संसारिकैः फ़लैः || ११९६ ||
दुःखात्मकत्वात्सर्वेषां शिखिविन्यस्तहस्तवत् || ११९७ ||
इत्येवं ध्वस्तनिःशेषकल्मषः पूर्वसाधनैः ||
उत्पन्नात्मबुभुत्सुः संस्त्यक्तसर्वपरिग्रहः || ११९८ ||
रजस्तमोजरागादिदोषानाक्षिप्तशेमुषिः ||
मुमुक्ष्ववस्थां संप्राप्त एवं पूर्वोक्तसाधनैः || ११९९ ||
मन्त्रब्राह्मणरूपिण्याऽथेदानीं विनियुज्यते ||
श्रुत्याऽशेषतमोघातिप्रत्यग्ज्ञानस्य जन्मने || १२०० ||
एवं पूर्वोक्तमन्त्रार्थज्ञानतत्फ़लवित्सुधीः ||
शमादिसाधनो विद्यादन्वयव्यतिरेकतः ||
व्युत्थाप्यानात्मनः पश्येत्प्रविश्याऽऽत्मानमात्मना || १२०१ ||
वाक्यादेव ततोऽसङ्गः सर्वमात्मोति वीक्षते ||
इत्येतद्ब्राह्मणेनेह प्रयत्नेन विधीयते || १२०२ ||
दान्तो भूत्वा ततः शान्तस्ततश्चोपरतो भवेत् ||
अर्थक्रमो बलीयान्स्याद्यतः पाठक्रमादिह || १२०३ ||
क्रियानिवृत्तिविषये प्रयोगो जगतीक्ष्यते ||
अभिधानस्य शान्तादेः प्रत्यक्षेणेह सर्वतः || १२०४ ||
बहिष्करणचेष्टाया निवृत्तौ दान्त उच्यते ||
दान्तोऽश्वो गौर्गजो वाऽपि प्रयोगस्तत्र वीक्ष्यते || १२०५ ||
अन्तःकरणचेष्टाया निवृत्तौ शान्त उच्यते ||
शान्तो भिक्षुस्तपस्वीति तत्प्रयोगसमीक्षणात् || १२०६ ||
नन्वप्राप्तौ विधिर्युक्तः प्राप्तास्त्वेते दमादयः ||
कुतस्तत्प्राप्तिरिति चेद्यथा प्राप्तिस्तथोच्यते || १२०७ ||
प्रतिषिद्धं तथा काम्यं चापलं नित्यमेव च ||
इयदेव जगत्यस्मिन्पुंसां कर्म समीक्ष्यते || १२०८ ||
निषिद्धस्य निषिद्धत्वात्कार्मकाण्डेऽपि कर्मणः ||
कुतो वेदान्तविद्यायां तस्य प्राप्तिर्मनागपि || १२०९ ||
मुक्तेरर्वाक्षु काम्येषु मुमुक्षुत्वाद्विरक्ततः ||
काम्यकर्मापि नैवेह मुमुक्षोः संभवत्यतः || १२१० ||
रजस्तमोतिवर्तित्वात्सत्त्वसंशुद्धिहेतुतः ||
चापलान्यपि कर्माणि नातः सन्त्यस्य कानिचित् || १२११ ||
न पाणिपादचपल इत्युक्तेर्वा निषेधतः ||
नातः संभाव्यते कर्म मुमुक्षोश्चापलं क्वचित् || १२१२ ||
नित्यस्याकरणाद्यः स्यादनर्थः करणादपि ||
नित्यस्यावाप्यतेऽसौ चेद्वद किं नित्यकर्मणा || १२१३ ||
एवं नित्यानि कर्माणि कुर्वतः शुद्धचेतसः ||
तित्यक्षा जायते पुंसो नित्येष्वपि च कर्मसु || १२१४ ||
संसारमोक्षणायाऽऽशु नित्यं कर्म न चेदलम् ||
कोऽर्थस्तेनेह पुंसः स्यादकृतेन कृतेन वा || १२१५ ||
इति संजातपरमवैराग्यो नित्यकर्मणः ||
स्वतस्त्यागं करोत्येव प्राप्तास्तेन शमादयः || १२१६ ||
यमान्सेवेत सततं न नित्यं नियमान्बुधः ||
यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन् || १२१७ ||
सत्यमेवं शमादीनां प्राप्तत्वान्नेष्यते विधिः ||
प्राप्तानामेव तेषां तु साधनत्वं विधीयते ||
प्रत्यग्याथात्म्यविज्ञानजन्मने श्रुतिवाक्यतः || १२१८ ||
यथोक्तविषये तेषां साधनत्वं न मानतः ||
यतः प्राप्तमतः श्रुत्या साधनत्वं विधीयते || १२१९ ||
निवृत्तिमात्रं प्राप्तं वा भवेदुक्तेन वर्त्मना ||
कर्तव्यता निवृत्तेस्तु न प्राप्तेति विधीयते || १२२० ||
ननु दान्तशमोक्त्यैव सर्वस्यैवेह कर्मणः ||
वारितत्वादुपरतश्रुत्याऽन्यत्किं विधीयते || १२२१ ||
बहिरन्तःक्रियातोऽन्या न क्रिया विद्यते यतः ||
नोत्सर्गविधिना यस्मान्नापवादस्य बाधनम् || १२२२ ||
भूताहिंसाविधिर्यस्मान्नाग्नीषोमीयमारभित् ||
ऊर्ध्वं प्राणा उत्क्रामन्ति यूनः स्थविर आयति || १२२३ ||
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यतॆ ||
इत्यौत्सर्गिकमाचारं यथा ब्रह्मा प्रबाधतॆ || १२२४ ||
आगच्छति गुरौ तूष्णीमासीनस्तद्वदत्र च ||
औत्सर्गिकत्यागविधिं नित्यकर्मविधिर्बलात् ||
तस्य जीवनमात्रैकहेतुत्वाद्बाधते ध्रुवम् || १२२५ ||
नित्यकर्मविधेर्यस्माच्छमादिविधिना हतिः ||
न संप्राप्तेत्यतो यत्नात्प्रारब्धोपरतश्रुतिः || १२२६ ||
इह चोपरतश्रुत्या तिष्ठत्यादिवदुच्यते ||
कर्माकर्मैव पुंसोऽस्य ह्यनुष्ठेयतयाऽऽमृतेः || १२२७ ||
अनुष्ठेयतया श्रुत्या निवृत्तिः सर्वकर्मणाम् ||
यस्माद्विधीयते तस्मात्तत्त्यागी पतितो भवेत् || १२२८ ||
इत्यत्र चोदयित्वैके परिहारं प्रचक्षते ||
नित्यानां कर्मणां कस्मात्परित्यागो विधीयते || १२२९ ||
काम्यादिकर्मवत्तेषां मनोव्याक्षेषहेतुतः ||
त्यागोऽतश्चोद्यते श्रुत्या नित्यानामपि कर्मणाम् || १२३० ||
भूत्वा समाहित इति समाधानं विधास्यते ||
चोद्यस्यासंभवाऽस्यात्र श्रुत्यैव विहितत्वतः || १२३१ ||
साधनत्वेन शान्त्यादेः सम्यग्ज्ञानस्य जन्मने ||
नातश्चोद्यावकाशोऽत्र शमादेर्विहितत्वतः || १२३२ ||
साध्यसाधनसंबन्धविधाने सत्यसंभवः ||
स्वर्गादाविव यागादेर्विधानादेव कारणात् || १२३३ ||
दोषान्तरप्रसङ्गार्थं परिहारः कृतस्ततः ||
चोद्यपूर्वक एतस्मिन्नन्यचोद्यस्य संभवात् || १२३४ ||
यदि व्याक्षेपकारित्वान्नित्यं कर्म निषिध्यते ||
बहु भिक्षाटनाद्यस्ति तत्कस्मान्न निषिध्यते || १२३५ ||
वेदान्तश्रवणाद्यस्ति बहु व्याक्षेपकारि च ||
तन्नित्यकर्मवत्सस्माच्छ्रुत्येह न निषिध्यते || १२३६ ||
नैष दोषः प्रधानार्थसमाप्तेरेव कारणात् ||
भिक्षाटनाद्यनुष्ठानं तादर्थ्यान्न निषिध्यते || १२३७ ||
प्रत्यग्याथात्म्यविज्ञानसमाप्त्याऽपेक्षितत्वतः ||
वेदान्तश्रवणादीनां न त्यागोऽतोऽत्र भण्यते || १२३८ ||
समाप्तिं न समायाति प्रधानं यदसंभवे ||
निषिद्धमपि तत्कार्यं तत्समाप्तिप्रयुक्तितः || १२३९ ||
प्रधानचोदनैवास्य चोदनातोऽवगम्यते ||
भिक्षाटनादिना नर्ते प्रधानं हि समाप्यते || १२४० ||
शेषभक्षं न कुर्वन्ति प्रधानार्थानुरोधतः ||
साक्षाद्विहितमप्येवं तादर्थ्यात्कर्म नो मतम् || १२४१ ||
याः काश्चिज्जीवता शत्यास्त्यक्तुं तित्यक्षता क्रियाः ||
ताः सर्वाः संपरित्यज्य निमेषाजौ व्यवस्थितः || १२४२ ||
उक्तविध्यर्थविषयाद्याः क्रिया विषयान्तरे ||
निषिध्यन्तेऽत्र ताः सर्वा व्याधातायैव ता यतः || १२४३ ||
द्वंद्वप्रवाहसंपातसहिष्णुरभिधीयते ||
तितिक्षुवचनेनात्र दुरुक्तादेस्तथैव च || १२४४ ||
स्वातन्त्र्यं येषु कर्तुः स्यात्करणाकरणं प्रति ||
तान्येव तु निषिद्धानि कर्माणीह शमादिभिः || १२४५ ||
अस्वातन्त्र्यं तु येषु स्यात्कर्तुः कर्मसु सर्वदा ||
समाहितोक्त्याऽथेदानीं तन्निरोधो विधीयते || १२४६ ||
पिण्डीकृत्येन्द्रियग्रामं बुद्धावारोप्य निश्चलम् ||
विषयांस्तत्स्मृतींस्त्यक्त्वा तिष्ठेच्चिदनुरोधतः || १२४७ ||
एषोऽभ्युपायः सर्वत्र वेदान्तेषु विधीयते ||
तत्त्वमस्यादिवाक्यार्थज्ञानोत्पत्त्यर्थमादरात् || १२४८ ||
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ||
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् || १२४९ ||
मुक्तेर्हि बिभ्यातो देवा मोहेनापिदधुर्नरान् ||
ततस्ते कर्मसूद्युक्ताः प्रावर्तन्त दिवानिशम् || १२५० ||
यतः कर्म तमोहेतुस्तस्मादेव मुमुक्षुभिः ||
ज्ञानेन भित्त्वा संमोहं सर्वानर्थैकसंश्रम् || १२५१ ||
संन्यस्य सर्वकर्माणि प्रत्यक्प्रवणधीर्नरः ||
प्रत्यग्याथात्म्यविज्ञानमात्रमेव समाश्रयेत् || १२५२ ||
तत एवैकलाद्यस्मात्संसाराद्विप्रमुच्यते ||
इत्येतदाह विस्पष्टं भाल्लविब्राह्मणं वचः || १२५३ ||
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ||
बुद्धिश्च न विचेष्टेन तामाहुः परमां गतिम् || १२५४ ||
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ||
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ || १२५५ ||
यच्छेद्वाङ्भनसी प्राज्ञास्तद्यच्छेज्ज्ञान आत्मनि ||
ज्ञानमात्मनि महति तद्यच्छेच्छान्त आत्मनि || १२५६ ||
उत्तिष्ठत जाग्रत प्राप्य वराग्निबोधत ||
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ||
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः || १२५७ ||
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ||
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः || १२५८ ||
प्रतिशाखं तथाऽन्यानि ज्ञानोपायप्रसिद्धये ||
तन्मूलानि तथाऽन्यानि स्मृतिवाक्यानि कोटिशः || १२५९ ||
सन्त्येवाऽऽत्मपरिज्ञानसाधनानां प्रसिद्धये ||
अनग्निरनिकेतः स्यादशर्माऽशरणो मुनिः || १२६० ||
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ||
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज || १२६१ ||
यतो यतो निवर्तते ततस्ततो विमुच्यते ||
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि || १२६२ ||
कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ||
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् || १२६३ ||
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ||
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः || १२६४ ||
निवर्तयित्वा रसनं रसेभ्यो घ्राणं च गन्धाच्छ्रवणं च शब्दात् ||
स्पर्शात्तनुं रूपगुणाच्च चक्षुस्ततः परं पश्यति स्वं स्वभावम् || १२६५ ||
एवं मनुवसिष्ठादिधर्मेष्वपि सहस्रशः ||
स्पष्टानि सन्ति वाक्यानि यथोक्तार्थप्रसिद्धये || १२६६ ||
साध्यस्य कर्मणस्त्यागात्सामर्थ्यादेव सिद्धतः ||
तत्साधनस् संत्यागे श्रद्धावित्तगिराऽत्र किम् || १२६७ ||
मैवं दृष्टार्थविषये यत्कर्मास्यावशेषितम् ||
तत्साधनेष्वममताविधानार्थं वचो यतः || १२६८ ||
श्रद्धैव वित्तमस्येति नान्यदस्य यतस्ततः ||
श्रद्धावित्तोऽयमित्युक्तः संन्यासी सर्वकर्मणाम् || १२६९ ||
भूत्वेत्यस्याभिसंबन्धः सर्वैः शान्तादिभिः पदैः ||
विधिनाऽस्यापि चाऽऽक्षेपाद्विधितन्त्रत्वमिष्यते || १२७० ||
पाण्डित्यादि पुरोक्तं यत्तस्येयमुपसंहृतिः ||
प्राक्तदात्मानमेवावेदिति यच्च समीरितम् ||
सेतिकर्तव्यताकोऽथ विधिस्तस्यायमुच्यते || १२७१ ||
अन्वयव्यतिरेकाभ्यां यथोक्तैः साधनैर्युतः || १२७२ ||
आत्मन्येव तमात्मानं निष्कृष्यानात्मराशितः ||
पश्येदित्यभिसंबन्धः पश्यतीत्यथवा भवेत् || १२७३ ||
विध्यर्थस्य पुरा प्राप्तेः काण्वानामनुवादतः ||
द्रष्टव्याद्युक्तितस्तस्मात्पश्यतीत्यभिधीयते || १२७४ ||
आत्माऽनात्मप्रधानत्वाद्ब्रह्मरूपेण नेक्ष्यते || १२७५ ||
विशेषणत्वं स्वार्थोऽपि सत्कार्ये कारणे गतः ||
स्वात्माविद्यासमुत्थेऽस्मिन्नात्माविद्यासमाश्रयात् || १२७६ ||
देहेन्द्रियमनोधीभ्यो ह्यन्वयव्यतिरेकतः ||
मुञ्जेषीकावदुत्कृष्य पश्येदात्मानमात्मनि || १२७७ ||
आत्मन्येव यदाऽऽत्मानं विभज्यानात्मनोऽखिलात् ||
प्रपश्यति तदाऽनात्मा न पृथग्व्यवशिष्यते || १२७८ ||
स एष नेति नेत्यात्मेत्यथैतस्मात्पुरोदितात् ||
वाक्यात्सर्वमसंसर्गमात्मानं परिपश्यति || १२७९ ||
अविद्यातज्जकार्याणां प्रत्यग्दर्शनबाधतः ||
अव्यावृत्ताननुगतं ब्रह्मात्मनं प्रपश्यति || १२८० ||
नानुत्पन्नमतो ज्ञानं नाप्यज्ञानमबाधितम् ||
कृत्स्नज्ञेयसमाप्तत्वान्न किंचिदवशिष्यते || १२८१ ||
इयं सा ब्रह्मविद्योक्ता मधुकाण्डे पुरोदिता ||
या तस्या जन्मनः काले फ़लं श्रुत्याऽधुनोच्यते || १२८२ ||
अकर्तृत्वात्मविज्ञानाद्ध्वस्तात्माज्ञानहेतुतः ||
नैनं ब्रह्मविदं पाप्मा तरत्यज्ञं यथा तथा || १२८३ ||
पाप्मशब्देन धर्मोऽपि देहोपादानहेतुतः ||
मुमुक्षोस्तदनिष्टत्वादिह निःशेष उच्यते || १२८४ ||
दुःखाभावः सदेहस्य नैवास्तीति श्रुतेर्मतम् ||
तस्माद्देहोऽप्यनर्थः स्याद्देहो नाशाच्च सर्वदा || १२८५ ||
न तपत्यथ तं कस्मात्तापकोऽप्यात्मवेदिनम् ||
पाप्मेति हेतुरधुना तत्र श्रुत्याऽभिधीयते || १२८६ ||
अकर्तृत्वात्मयाथात्म्यसम्यग्ज्ञानाग्निना यतः ||
सर्वं पापं तपत्येष भस्मसात्कुरुतेऽग्निवत् || १२८७ ||
स्वयमेवेश्वरः प्राह प्रपन्नाय किरीटिने ||
पुराणः शाश्वतोऽचिन्त्यः सर्वभूतानुकम्पया || १२८८ ||
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ||
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा || १२८९ ||
संबन्धे सति पाप्माऽयं स्वफ़लेनानुतापयेत् ||
अकर्तृत्वान्न संबन्धो विदुषोऽस्तीह पाप्मभिः || १२९० ||
तदेतदुच्यते श्रुत्या नैनं पाप्मेति यत्नतः ||
नैनं ब्रह्मविदं पाप्मा तरति व्याप्नुते स्वतः || १२९१ ||
तदकर्तृत्वतो हेतोर्ब्रह्मवित्तु सकारणम् ||
सर्वं तरति पाप्मानं सर्पादीन्त्रशना यथा || १२९२ ||
आत्मयाथात्म्यवित्सोऽयं विपापो विरजः स्वतः ||
निष्कर्मा स्याद्विपापोऽयं विरजस्कोऽप्यकामतः || १२९३ ||
सर्वसंशयहेत्येश्च प्रत्यङ्मोहस्य नाशतः ||
स्यादेषोऽविचिकित्सोऽतः सर्वसंशयवर्जितः || १२९४ ||
एवमात्मापरिज्ञानाद्ध्वस्ताविद्यो भवेद्यदा ||
अनापन्नादिमध्यान्तं ब्राह्मण्यं लभते तदा || १२९५ ||
इमामवस्थामापन्नो मुख्यो ब्राह्मण उच्यते ||
भाविवृत्त्या स गौणस्तु प्रागतो ब्राह्मणो भवेत् || १२९६ ||
जातौ ब्राह्मणशब्दोऽयं मा प्रापदिति तं श्रुतिः ||
व्याचष्टेऽतः प्रयत्नेन ब्रह्मलोकगिरा स्वयम् || १२९७ ||
अव्यावृत्ताननुगतं ब्रह्मेत्यत्राभिधीयते ||
लोकोऽपि दृष्टिमात्रत्वात्प्रत्यङ्भात्रं निरुच्यते || १२९८ ||
अन्योन्यार्थसमाप्तित्वात्कर्मधारय एव तु ||
समासोऽत्र परिग्राह्यो निषादस्थपतिर्यथा || १२९९ ||
श्रुतमेकविभक्तित्वं विभक्त्यन्तरकल्पनात् ||
लघीयोऽतीव यत्तस्मात्कर्मधारय एव सः || १३०० ||
ब्रह्मलोकमिमं साक्षाद्धे सम्राड् ब्रह्मविद्यया ||
प्रापितोऽस्यभवं पूर्वं यत्प्रतिज्ञातवानहम् || १३०१ ||
इत्येवं याज्ञवल्क्यस्तं नृपमुक्तेन वर्त्मना ||
साक्षादनुशशासैनमित्युक्तिः स्याच्छ्रुतेरियम् || १३०२ ||
अनुशिष्टोऽथ नृपतिर्विद्यानिष्क्रयहेतुतः ||
सोऽहमित्यादिकं वाक्यं गुरुमाह त्वरान्वितः || १३०३ ||
ब्रह्मविद्या समाप्तेयं ससंन्यासाऽद्वयात्मिका ||
सेतिकर्तव्यताकेयं साङ्गा निःश्रेयसे नृणाम् || १३०४ ||
निःशेषपुरुषार्थोऽयं समाप्तो ब्रह्मबोधतः ||
सर्वानर्थनिरासार्थमेतावानेव चाऽऽदृतैः || १३०५ ||
कर्तव्यो यत्नमास्थाय कृते यस्मिन्कृतार्थता ||
नान्यतः कृतकृत्यः स्यादुक्तज्ञानातिरेकतः || १३०६ ||
व्याख्यातो योऽयमत्राऽऽत्मा स विज्ञानानुरोधतः ||
फ़लाय स्यादविज्ञात इत्येतदधुनोच्यते || १३०७ ||
पञ्चमान्त उपन्यस्तं रातेर्दातुः परायणम् ||
तद्विदस्तिष्ठमानस्येत्यस्य चेहोपसंहृतिः || १३०८ ||
आत्मान्तेनास्य वाक्येन स्वतस्तत्त्वमिहोच्यते ||
अन्नादवसुदानाभ्यामविद्योत्थं तु भण्यते || १३०९ ||
निःशेषान्नादनादात्मा प्राणान्तोऽन्नाद उच्यते ||
आत्माऽयं कारणं यस्मात्कार्यमित्यखिलं ततः || १३१० ||
कारणेऽनुपयुक्तं यत्कार्यं तन्नेह विद्यते ||
कार्येऽप्यनुपयुक्तं यन्न तत्कारणमुच्यते || १३११ ||
अन्योन्यार्थव्यपेक्षित्वात्कार्यकारणवस्तुनोः ||
नान्योन्यार्थातिरेकेण सिध्येते कार्यकारणे || १३१२ ||
वसूपकरणं प्रोक्तं तद्ददातीश्वरत्वतः ||
यतस्ततोऽज आत्माऽयं वसुदान इहोच्यते || १३१३ ||
अन्नादवसुदानाभ्यां गुणाभ्यां यः समीक्षते ||
ईश्वरं स यथादृष्टि फ़लमाप्नोति मानवः || १३१४ ||
इत्येवमयथावस्तुदर्शिनः फ़लमीरितम् ||
यथावस्तुदृशोऽप्येवं यथा रज्ज्वादिदर्शिनः || १३१५ ||
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ||
इति चाऽऽहेश्वरो वाक्यमुक्तार्थप्रतिपत्तये || १३१६ ||
यथातत्त्वं तु योऽज्ञातं वस्तु साक्षात्प्रपद्यते ||
यथावस्त्वेव तस्यापि फ़लं स्यादिति भण्यते || १३१७ ||
काण्डद्वयस्य वा योऽर्थः स संक्षिप्याभिधीयते ||
स वा इत्यादिवाक्येन सारार्थस्य जिघृक्षया || १३१८ ||
अविद्यावान्पुरा योक्तो मृत्युजन्मादिसंसृतिः ||
स वा इति गिरा सोऽत्र स्मार्यते ब्रह्मसंगतौ || १३१९ ||
स वा एष पुरोक्तेन यो वाक्येन प्रकाशितः ||
प्रध्वस्ताज्ञानतज्जः सन्परां निर्वृतिमगतः || १३२० ||
महानित्यभिधानेन सत्यज्ञानादिलक्षणम् ||
ब्रह्मैव प्रोच्यते साक्षात्प्रत्यगात्मविशेषणम् || १३२१ ||
ब्रह्मैवाऽऽत्मा स्वतोऽबोधादब्रह्मैव प्रकाशते ||
जरादिधर्मवांस्तस्माद्ब्रह्मणैव विशेष्यते || १३२२ ||
प्रमान्तरानधिगता ब्रह्मता प्रत्यगात्मनः ||
प्रत्यक्त्वं ब्रह्मणस्तद्वद्वचसैव प्रबोध्यते || १३२३ ||
अहं ब्रह्मेतिवाक्योत्थविज्ञानात्प्रत्यगात्मनः ||
ध्वस्तेऽज्ञाने सकार्येऽथ यद्रूपं तदिहोच्यते || १३२४ ||
रज्जुः सर्पादिनेवाऽऽत्मा विनाऽविद्यां न जायते ||
कार्यात्मना यतस्तस्मादात्माऽज इति भण्यते || १३२५ ||
सर्वभावविकाराणां जन्म मूलं यतस्ततः ||
सर्वेषां प्रतिषेधः स्यान्निषेधादात्मजन्मनः || १३२६ ||
तथाऽपि ताञ्श्रुतिर्यत्नाज्जरादीन्प्रतिषेधति ||
स्वाभाविकत्वाशङ्कायाः प्रतिषेधस्य सिद्धये || १३२७ ||
कालात्मना ह्यवच्छेदान्नायं कालंजरत्वतः ||
देहादिवज्जरामेति तस्मादात्माऽजरः स्मृतः || १३२८ ||
सर्वस्य परिणामस्य हानोपादानमात्रतः ||
जराजन्मनिषेधेन सर्वोऽतोऽत्र निषिध्यते || १३२९ ||
परिणामोऽस्य येनान्त्यः श्रुत्येह प्रतिषिध्यते || १३३० ||
देहस्थितेरवसितिर्मृतिशब्देन भण्यते ||
तन्निषेधोऽमरोकत्याऽत्र नित्यस्याऽऽत्मन उच्यते || १३३१ ||
नाजस्यापरिणामस्य मरणं जगतीक्ष्यते ||
अजोऽजरश्च तेनोक्तोऽमरश्चैष ततः स्मृतः || १३३२ ||
परिणामात्मको मृत्युरमरोक्त्या निवारितः ||
अमृतोक्त्याऽथ नाशोऽस्य वार्यते यो निरन्वयः || १३३३ ||
अविनाशीत्यपि तथा विनाशद्वयमात्मनः ||
श्रुत्या निषिध्यते साक्षात्प्रत्यक्तौटस्थ्यसिद्धये || १३३४ ||
कामकर्मतमोभावादमरोऽमृत एव च ||
तत एवाभयः प्रत्यङ्भयं हि तदबोधतः ||
कारणस्य निषेधोऽतो भयकार्यनिषेधतः || १३३५ ||
कुतोऽभयत्वसंसिद्धिः प्रतीच इति शङ्किते ||
ब्रह्मेत्याहाऽऽत्मनस्तत्त्वं ब्रह्म त्वभयमेव हि || १३३६ ||
अहं ब्रह्मेत्यतः साक्षाद्यथोक्तेनैव वर्त्मना ||
भयहेतोर्निरासेन स ब्रह्माभमश्नुते || १३३७ ||
सर्वोपनिषदामेष संक्षिप्तोऽर्थ इहोदितः ||
उत्पत्त्यादिविकल्पोऽयमस्यैव प्रतिपत्तये || १३३८ ||
एकप्रभृतिसंख्येयं रेखासंकेतवर्त्मना ||
प्रतिपत्तिरसंख्येयवस्तुनः स्याद्यथा तथा || १३३९ ||
सर्वप्रमाणविषयलङ् घिनोऽकार्यकारण-
वस्तुनः प्रतिपत्तिः स्याज्जन्मादिध्वंसवर्त्मना || १३४० ||
संख्येयत्वं न रेखायाः संख्यात्वं वाऽञ्जसेष्यते ||
तदध्यारोपगत्यैव तथाऽपि प्रतिपत्तये || १३४१ ||
यथैवमवगच्छन्ति प्रध्वस्ताशेषकल्पनम् ||
आत्मानं स्थितिजन्मादिकल्पनोपायमात्रताः || १३४२ ||
पत्रकज्जलरेखाभिर्यथा वाऽध्यासवर्त्मना ||
वर्णाञ्जानन्त्यकारादीन्पत्रादिभ्यो विलक्षणान् || १३४३ ||
तथोत्पत्त्यादिकाध्यासवर्त्मना तद्विलक्षणम् ||
जन्मादिहेतुध्वंसेन नेतीति ब्रह्म गम्यते || १३४४ ||
इति काण्डद्वयोक्तोऽर्थः संहृत्य सफ़लोऽखिलः ||
इह प्रदर्शितो वाक्ये तत्समाप्तिविवक्षा || १३४५ ||