अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥
तथा असुराः दयध्वमिति ; क्रूरा यूयं हिंसादिपराः, अतो दयध्वं प्राणिषु दयां कुरुतेति । तदेतत्प्रजापतेरनुशासनम् अद्याप्यनुवर्तत एव । यः पूर्वं प्रजापतिर्देवादीननुशशास सोऽद्यापि अनुशास्त्येव दैव्या स्तनयित्नुलक्षणया वाचा । कथमेषा श्रूयते दैवी वाक् ? कासौ स्तनयित्नुः ? द द द इति, दाम्यत दत्त दयध्वमिति — एषां वाक्यानामुपलक्षणाय त्रिर्दकार उच्चार्यते अनुकृतिः ; न तु स्तनयित्नुशब्दः त्रिरेव, सङ्ख्यानियमस्य लोके अप्रसिद्धत्वात् । यस्मात् अद्यापि प्रजापतिः दाम्यत दत्त दयध्वमित्यनुशास्त्येव, तस्मात्कारणात् एतत्त्रयम् ; किं तत् त्रयमित्युच्यते — दमं दानं दयामिति शिक्षेत् उपादद्यात् प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं मतिं कुर्यात् । तथा च स्मृतिः —
‘त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्’ (भ. गी. १६ । २१) इति । अस्य हि विधेः शेषः पूर्वः । तथापि देवादीनुद्दिश्य किमर्थं दकारत्रयमुच्चारितवान् प्रजापतिः पृथगनुशासनार्थिभ्यः ; ते वा कथं विवेकेन प्रतिपन्नाः प्रजापतेर्मनोगतं समानेनैव दकारवर्णमात्रेणेति पराभिप्रायज्ञा विकल्पयन्ति । अत्रैके आहुः — अदान्तत्वादातृत्वादयालुत्वैः अपराधित्वमात्मनो मन्यमानाः शङ्किता एव प्रजापतावूषुः, किं नो वक्ष्यतीति ; तेषां च दकारश्रवणमात्रादेव आत्माशङ्कावशेन तदर्थप्रतिपत्तिरभूत् ; लोकेऽपि हि प्रसिद्धम् — पुत्राः शिष्याश्चानुशास्याः सन्तो दोषात् निवर्तयितव्या इति ; अतो युक्तं प्रजापतेर्दकारमात्रोच्चारणम् ; दमादित्रये च दकारान्वयात् आत्मनो दोषानुरूप्येण देवादीनां विवेकेन प्रतिपत्तुं चेति ; फलं तु एतत् आत्मदोषज्ञाने सति दोषात् निवर्तयितुं शक्यते अल्पेनाप्युपदेशेन, यथा देवादयो दकारमात्रेणेति । ननु एतत् त्रयाणां देवादीनामनुशासनं देवादिभिरपि एकैकमेव उपादेयम् , अद्यत्वेऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति । अत्रोच्यते — पूर्वैर्देवादिभिर्विशिष्टैरनुष्ठितम् एतत्त्रयम् , तस्मात् मनुष्यैरेव शिक्षितव्यमिति । तत्र दयालुत्वस्याननुष्ठेयत्वं स्यात् , कथम् ? असुरैरप्रशस्तैरनुष्ठितत्वादिति चेत् — न, तुल्यत्वात् त्रयाणाम् ; अतः अन्योऽत्राभिप्रायः — प्रजापतेः पुत्रा देवादयस्त्रयः ; पुत्रेभ्यश्च हितमेव पित्रा उपदेष्टव्यम् ; प्रजापतिश्च हितज्ञः नान्यथा उपदिशति ; तस्मात् पुत्रानुशासनं प्रजापतेः परमम् एतत् हितम् ; अतो मनुष्यैरेव एतत् त्रयं शिक्षितव्यमिति । अथवा न देवाः असुरा वा अन्ये केचन विद्यन्ते मनुष्येभ्यः ; मनुष्याणामेव अदान्ताः ये अन्यैरुत्तमैर्गुणैः सम्पन्नाः ; ते देवाः ; लोभप्रधाना मनुष्याः ; तथा हिंसापराः क्रूरा असुराः ; ते एव मनुष्याः अदान्तत्वादिदोषत्रयमपेक्ष्य देवादिशब्दभाजो भवन्ति, इतरांश्च गुणान् सत्त्वरजस्तमांसि अपेक्ष्य ; अतः मनुष्यैरेव शिक्षितव्यम् एतत्त्रयमिति, तदपेक्षयैव प्रजापतिनोपदिष्टत्वात् ; तथा हि मनुष्या अदान्ता लुब्धाः क्रूराश्च दृश्यन्ते ; तथा च स्मृतिः —
‘कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्’ (भ. गी. १६ । २१) इति ॥