बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
दमादिसाधनत्रयं सर्वोपासनशेषं विहितम् ; दान्तः अलुब्धः दयालुः सन् सर्वोपासनेष्वधिक्रियते । तत्र निरुपाधिकस्य ब्रह्मणो दर्शनम् अतिक्रान्तम् ; अथ अधुना सोपाधिकस्य तस्यैव अभ्युदयफलानि वक्तव्यानीत्येवमर्थोऽयमारम्भः —
एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥ १ ॥
एष प्रजापतिः यद्धृदयं प्रजापतिः अनुशास्तीत्यनन्तरमेवाभिहितम् । कः पुनरसौ अनुशास्ता प्रजापतिरित्युच्यते — एष प्रजापतिः ; कोसौ ? यद्धृदयम् , हृदयमिति हृदयस्था बुद्धिरुच्यते ; यस्मिन् शाकल्यब्राह्मणान्ते नामरूपकर्मणामुपसंहार उक्तो दिग्विभागद्वारेण, तदेतत् सर्वभूतप्रतिष्ठं सर्वभूतात्मभूतं हृदयं प्रजापतिः प्रजानां स्रष्टा ; एतत् ब्रह्म, बृहत्त्वात् सर्वात्मत्वाच्च ब्रह्म ; एतत्सर्वम् ; उक्तं पञ्चमाध्याये हृदयस्य सर्वत्वम् ; तत्सर्वं यस्मात् तस्मादुपास्यं हृदयं ब्रह्म । तत्र हृदयनामाक्षरविषयमेव तावत् उपासनमुच्यते ; तदेतत् हृदयमिति नाम त्र्यक्षरम् , त्रीणि अक्षराणि अस्येति त्र्यक्षरम् ; कानि पुनस्तानि त्रीण्यक्षराण्युच्यन्ते ; हृ इत्येकमक्षरम् ; अभिहरन्ति, हृतेराहृतिकर्मणः हृ इत्येतद्रूपमिति यो वेद, यस्मात् हृदयाय ब्रह्मणे स्वाश्च इन्द्रियाणि अन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्ति, हृदयं च भोक्त्रर्थमभिहरति — अतः हृदयनाम्नः हृ इत्येतदक्षरमिति यो वेद — अस्मै विदुषे अभिहरन्ति स्वाश्च ज्ञातयः अन्ये चासम्बद्धाः, बलिमिति वाक्यशेषः । विज्ञानानुरूप्येण एतत्फलम् । तथा द इत्येतदप्येकमक्षरम् ; एतदपि दानार्थस्य ददातेः द इत्येतद्रूपं हृदयनामाक्षरत्वेन निबद्धम् । अत्रापि — हृदयाय ब्रह्मणे स्वाश्च करणानि अन्ये च विषयाः स्वं स्वं वीर्यं ददति, हृदयं भोक्त्रे ददाति स्वं वीर्यम् , अतो दकार इत्येवं यो वेद, अस्मै ददति स्वाश्च अन्ये च । तथा यमित्येतदप्येकमक्षरम् ; इणो गत्यर्थस्य यमित्येतद्रूपम् अस्मिन्नाम्नि निबद्धमिति यो वेद, स स्वर्गं लोकमेति । एवं नामाक्षरादपि ईदृशं विशिष्टं फलं प्राप्नोति, किमु वक्तव्यं हृदयस्वरूपोपासनात् — इति हृदयस्तुतये नामाक्षरोपन्यासः ॥
इति पञ्चमाध्यायस्य तृतीयं ब्राह्मणम् ॥
ब्रह्मानुपाधि पूर्वत्र व्याख्यातं यत्नतोऽधुना ।।
सोपाधिकस्य तस्यैव ह्युपास्तिर्वक्ष्यते स्फुटा ।। १ ।।
श्रुतः प्रजापतिः पूर्वं कोऽसाविति न गम्यते ।।
सामान्योक्तेर्विशेषार्थमेप इत्यादि भण्यते ।। २ ।।
हृद्निरा मांसपेश्युक्ता तात्स्थ्याद् बुद्धिस्तु लक्ष्यते ।।
हृदि नामादिसंहारं यत्र शाकल्य ऊचिवान् ।। ३ ।।
सर्वभूतसमुत्पत्तेस्तथा सर्वेश्वरत्वतः ।।
प्रजापतिरिति ज्ञेयं हृदयं तेन हेतुना ।। ४ ।।
सर्वज्ञेयस्य तद्ब्याप्तेर्ब्रह्मापि हृदयं भवेत् ।।
यत एवमतो यत्नादुपास्यं हृदयं सदा ।।
हृदयाख्याक्षराणां च श्रुत्योपासनमुच्यते ।। ५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य तृतीयं ब्राह्मणम्