बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
तद्वै तदेतदेव तदास सत्यमेव स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इन्न्वसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म ॥ १ ॥
तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनं विधित्सन्नाह — तत् , तदिति हृदयं ब्रह्म परामृष्टम् ; वै इति स्मरणार्थम् ; तत् यत् हृदयं ब्रह्म स्मर्यत इत्येकः तच्छब्दः ; तदेतदुच्यते प्रकारान्तरेणेति द्वितीयः तच्छब्दः । किं पुनः तत्प्रकारान्तरम् ? एतदेव तदिति एतच्छब्देन सम्बध्यते तृतीयस्तच्छब्दः ; एतदिति वक्ष्यमाणं बुद्धौ सन्निधीकृत्य आह ; आस बभूव ; किं पुनः एतदेव आस ? यदुक्तं हृदयं ब्रह्मेति, तत् इति, तृतीयः तच्छब्दो विनियुक्तः । किं तदिति विशेषतो निर्दिशति ; सत्यमेव, सच्च त्यच्च मूर्तं चामूर्तं च सत्यं ब्रह्म, पञ्चभूतात्मकमित्येतत् । स यः कश्चित् सत्यात्मानम् एतम् , महत् महत्त्वात् , यक्षं पूज्यम् , प्रथमजं प्रथमजातम् , सर्वस्मात्संसारिण एतदेवाग्रे जातं ब्रह्म अतः प्रथमजम् , वेद विजानाति सत्यं ब्रह्मेति ; तस्येदं फलमुच्यते — यथा सत्येन ब्रह्मणा इमे लोका आत्मसात्कृता जिताः, एवं सत्यात्मानं ब्रह्म महद्यक्षं प्रथमजं वेद, स जयति इमान् लोकान् ; किं च जितो वशीकृतः, इन्नु इत्थम् , यथा ब्रह्मणा असौ शत्रुरिति वाक्यशेषः । असच्च असद्भवेत् असौ शत्रुः जितो भवेदित्यर्थः । कस्य एतत्फलमिति पुनर्निगमयति — य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । अतो विद्यानुरूपं फलं युक्तम् , सत्यं ह्येव यस्माद्ब्रह्म ॥
इति पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम् ॥
तस्यैव हृदयाख्यस्य ब्रह्मणोऽन्यदुपासनम् ।।
सत्योपाधिविशिष्टस्य तद्वै तदिति भण्यते ।। १ ।।
तच्छब्देन परामर्शो वैशब्दः स्मरणाय च ।।
प्रकारान्तरनिर्देशे तदासेति च तद्वचः ।। २ ।।
सत्यमेव तदासेति यदुक्तं हृदयात्मना ।।
मूर्तामूर्तात्मकं सत्यं ब्रह्म पूर्वं प्रपञ्चितम् ।। ३ ।।
महत्तत्परिमाणेन यक्षं पूज्यतमत्वतः ।।
अग्रजः प्रथमोद्भूतेस्तदन्यत्कार्यजन्मनः ।। ४ ।।
यः कश्चिदेतं व्याख्यातं वेदोपास्ते दिवानिशम् ।।
लोकाञ्जयति स सर्वाञ्शत्रुश्चास्य जितो भवेत् ।। ५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम्