बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
उपाधीनामनेकत्वादनेकविशेषणत्वाच्च तस्यैव प्रकृतस्य ब्रह्मणो मनउपाधिविशिष्टस्योपासनं विधित्सन्नाह —
मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च ॥ १ ॥
मनोमयः मनःप्रायः, मनसि उपलभ्यमानत्वात् ; मनसा चोपलभत इति मनोमयोऽयं पुरुषः ; भाःसत्यः, भा एव सत्यं सद्भावः स्वरूपं यस्य सोऽयं भाःसत्यः, भास्वर इत्येतत् ; मनसः सर्वार्थावभासकत्वात् मनोमयत्वाच्च अस्य भास्वरत्वम् ; तस्मिन् अन्तर्हृदये हृदयस्यान्तः तस्मिन्नित्येतत् ; यथा व्रीहिर्वा यवो वा परिमाणतः, एवंपरिमाणः तस्मिन्नन्तर्हृदये योगिभिर्दृश्यत इत्यर्थः । स एषः सर्वस्येशानः सर्वस्य स्वभेदजातस्य ईशानः स्वामी ; स्वामित्वेऽपि सति कश्चिदमात्यादितन्त्रः, अयं तु न तथा ; किं तर्हि अधिपतिः अधिष्ठाय पालयिता ; सर्वमिदं प्रशास्ति, यदिदं किञ्च यत्किञ्चित्सर्वं जगत् , तत्सर्वं प्रशास्ति । एवं मनोमयस्योपासनात् तथारूपापत्तिरेव फलम् । ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १० । ५ । २ । २०) इति ब्राह्मणम् ॥
इति पञ्चमाध्यायस्य षष्ठं ब्राह्मणम् ॥
संस्थानवदथेदानीमध्यात्मे चाधिदैवते ।।
रूपं प्रकल्प्य सत्यस्य भण्यते तदुपासनम् ।। १ ।।
अक्ष्यादित्याख्यनीडस्थौ स्थानमात्रप्रभेदतः ।।
भिन्नाविव समीक्ष्येते देवतैकैव सा सती ।। २ ।।
उपकार्योपकारित्वसंबन्धेनेतरेतरम् ।।
प्रतिष्ठितौ तावध्यात्मे चक्षुष्यादित्य एव च ।। ३ ।।
प्रतिष्ठितौ तावन्योन्यं कथमित्युच्यते यथा ।।
अक्ष्णि रश्मिभिरादित्यः प्राणैस्तस्मिंश्च चाक्षुषः ।। ४ ।।
अरिष्टदर्शनं चात्र प्रासङ्गिकमथोच्यते ।।
ज्ञातारिष्टः कथं नाम कुर्यादात्महितं पुमान् ।। ५ ।।
उत्क्रमिष्यन्यदा भोक्ता भवतीहाऽऽयुषः क्षये ।।
चन्द्रमण्डलवच्छुद्धं वीक्षते रविमण्डलम् ।। ६ ।।
रश्मयो न समायान्ति विज्ञानपुरुषं प्रति ।।
भोगेन प्रक्षयाद्भोक्तुस्यद्वशीकारिकर्मणः ।। ७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य षष्ठं ब्राह्मणम्