मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
विद्युद्ब्रह्मेत्याहुर्विदानाद्विद्युद्विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति विद्युद्ध्येव ब्रह्म ॥ १ ॥
तथैव उपासनान्तरं सत्यस्य ब्रह्मणो विशिष्टफलमारभ्यते — विद्युद्ब्रह्मेत्याहुः । विद्युतो ब्रह्मणो निर्वचनमुच्यते — विदानात् अवखण्डनात् तमसो मेघान्धकारं विदार्य हि अवभासते, अतो विद्युत् ; एवंगुणं विद्युत् ब्रह्मेति यो वेद, असौ विद्यति अवखण्डयति विनाशयति पाप्मनः, एनमात्मानं प्रति प्रतिकूलभूताः पाप्मानो ये तान् सर्वान् पाप्मनः अवखण्डयतीत्यर्थः । य एवं वेद विद्युद्ब्रह्मेति तस्यानुरूपं फलम् , विद्युत् हि यस्मात् ब्रह्म ॥
इति पञ्चमाध्यायस्य सप्तमं ब्राह्मणम् ॥
शरीरं व्याहृतिमयं कल्प्यतेऽक्षिरविस्थयोः ।।
तस्यैव सत्यनाम्नोऽथ तदुपासाप्रसिद्धये ।। १ ।।
तस्यैव नामोपनिद्ब्रह्मणो भण्यते द्वयोः ।।
स्थितस्य रथानयोः साक्षाद्यद्ग्रहात्तत्प्रसीदति ।। २ ।।
हन्तेर्वेदं जहातेर्वाऽहरित्येतदिहेष्यते ।।
पाप्मानं हन्ति तेनातो जहाति च न संशयः ।। ३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य सप्तमं ब्राह्मणम्