बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥ १ ॥
अयमग्निर्वैश्वानरः, पूर्ववदुपासनान्तरम् ; अयम् अग्निः वैश्वानरः ; कोऽयमग्निरित्याह — योऽयमन्तः पुरुषे । किं शरीरारम्भकः ? नेत्युच्यते — येन अग्निना वैश्वानराख्येन इदमन्नं पच्यते । किं तदन्नम् ? यदिदम् अद्यते भुज्यते अन्नं प्रजाभिः, जाठरोऽग्निरित्यर्थः । तस्य साक्षादुपलक्षणार्थमिदमाह — तस्याग्नेः अन्नं पचतः जाठरस्य एष घोषो भवति ; कोऽसौ ? यं घोषम् , एतदिति क्रियाविशेषणम् , कर्णावपिधाय अङ्गुलीभ्यामपिधानं कृत्वा शृणोति । तं प्रजापतिमुपासीत वैश्वानरमग्निम् । अत्रापि ताद्भाव्यं फलम् । तत्र प्रासङ्गिकमिदमरिष्टलक्षणमुच्यते — सोऽत्र शरीरे भोक्ता यदा उत्क्रमिष्यन्भवति, नैनं घोषं शृणोति ॥
इति पञ्चमाध्यायस्य नवमं ब्राह्मणम् ॥
वद्युद्देहस्य तस्यैव ब्रह्मणोऽन्यदुपासनम् ।।
अशेषपाप्मविध्वस्त्यै श्रूत्याऽथ प्रतिपाद्यते ।। १ ।।
विद्युद्ब्रह्मेति युक्तं तद्विद्युद्धि स्याद्विदानतः ।।
द्यतेरेतद्यतो रूपमवखण्डनकर्मणः ।। २ ।।
तमोऽन्धकारमखिलमवखण्डयति क्षणात् ।।
विद्युद्यथा तथाऽस्मत्तः पाप्मानं तदुपासितुः ।। ३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य नवमं ब्राह्मणम्