बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
एतद्वै परमं तपो यद्व्याहितस्तप्यते परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति य एवं वेद ॥ १ ॥
एतद्वै परमं तपः ; किं तत् ? यत् व्याहितः व्याधितः ज्वरादिपरिगृहीतः सन् यत् तप्यते तदेतत् परमं तप इत्येवं चिन्तयेत् , दुःखसामान्यात् । तस्य एवं चिन्तयतो विदुषः कर्मक्षयहेतुः तदेव तपो भवति अनिन्दतः अविषीदतः । स एव च तेन विज्ञानतपसा दग्धकिल्बिषः परमं हैव लोकं जयति, य एवं वेद । तथा मुमूर्षुः आदावेव कल्पयति ; किम् ? एतद्वै परमं तपः, यं प्रेतं मां ग्रामादरण्यं हरन्ति ऋत्विजः अन्त्यकर्मणे, तत् ग्रामादरण्यगमनसामान्यात् परमं मम तत् तपो भविष्यति ; ग्रामादरण्यगमनं परमं तप इति हि प्रसिद्धम् । परमं हैव लोकं जयति, य एवं वेद । तथा एतद्वै परमं तपः यं प्रेतमग्नावभ्यादधति, अग्निप्रवेशसामान्यात् । परमं हैव लोकं जयति य एवं वेद ॥
इति पञ्चमाध्यायस्य एकादशं ब्राह्मणम् ॥
उपास्त्यन्तरमस्यैव कौक्षेयाग्नेर्वपुर्भृतः ।।
अयमग्निरिति श्रुत्या यत्नेनाथ विधीयते ।। १ ।।
वैश्वानरग्निराऽस्याग्नेः सामान्येनाभिधानतः ।।
योऽयमन्तरितीत्युक्त्या तद्विशेषणमुच्यते ।। २ ।।
तस्याग्नेरेष घोषः स्यात्कर्णौ प्रोर्णूय यच्छ्रुतिः ।।
उपास्यार्थस्य साक्षात्त्वं घोषरूपेण वर्ण्यते ।। ३ ।।
अरिष्टदर्शनं चात्र प्रासङ्गिकमथोच्यते ।।
नैनं घोषं शृणोतीति प्रत्यासन्नमृतिर्नरः ।। ४ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्यैकादशं ब्राह्मणम्