छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सं सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ ६ ॥
तदेतत् एवंलक्षणं मिथुनम् ओमित्येतस्मिन्नक्षरे संसृज्यते ; एवं सर्वकामाप्तिगुणविशिष्टं मिथुनम् ओङ्कारे संसृष्टं विद्यत इति ओङ्कारस्य सर्वकामाप्तिगुणवत्त्वं सिद्धम् ; वाङ्मयत्वम् ओङ्कारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वम् । मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते — यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतः ग्राम्यधर्मतया संयुज्येयातां तदा आपयतः प्रापयतः अन्योन्यस्य इतरेतरस्य तौ कामम् , तथा स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वम् ओङ्कारस्य सिद्धमित्यभिप्रायः ॥

भवतु वाक्प्राणाख्यमृक्सामात्मकवाक्प्राणरूपम् । ओङ्कारमिथुनयोः संसर्गे किं फलतीत्याह –

एवमिति ।

कया पुनर्विधया मिथुनेन संसृष्टत्वमक्षरस्य सेत्स्यतीत्यत्राऽऽह –

वाङ्मयत्वमिति ।

यत्तु सर्वकामाप्तिगुणविशिष्टं मिथुनमित्युक्तं तदुपपादयति –

मिथुनस्येति ।

प्रसिद्धमिति ।

तादृगर्थो यथोक्ताक्षरस्य सर्वकामापयितृत्वे दृष्टान्तः सन्नुच्यतेऽनन्तरवाक्येनेत्यर्थः ।

दृष्टान्तमेव विवृणोति –

यथेत्यादिना ।

मिथुनद्वयं नास्तीत्युक्तत्वात्कथं मिथुनाविति द्विवचनं तत्राऽऽह –

मिथुनावयवाविति ।

ग्राम्यधर्मतया तथाविधव्यापारतयेति यावत् । वैशब्दोऽवधारणे ।

विवक्षितं दार्ष्टान्तिकमाचष्टे –

तथेति ॥ ६ ॥