भवतु वाक्प्राणाख्यमृक्सामात्मकवाक्प्राणरूपम् । ओङ्कारमिथुनयोः संसर्गे किं फलतीत्याह –
एवमिति ।
कया पुनर्विधया मिथुनेन संसृष्टत्वमक्षरस्य सेत्स्यतीत्यत्राऽऽह –
वाङ्मयत्वमिति ।
यत्तु सर्वकामाप्तिगुणविशिष्टं मिथुनमित्युक्तं तदुपपादयति –
मिथुनस्येति ।
प्रसिद्धमिति ।
तादृगर्थो यथोक्ताक्षरस्य सर्वकामापयितृत्वे दृष्टान्तः सन्नुच्यतेऽनन्तरवाक्येनेत्यर्थः ।
दृष्टान्तमेव विवृणोति –
यथेत्यादिना ।
मिथुनद्वयं नास्तीत्युक्तत्वात्कथं मिथुनाविति द्विवचनं तत्राऽऽह –
मिथुनावयवाविति ।
ग्राम्यधर्मतया तथाविधव्यापारतयेति यावत् । वैशब्दोऽवधारणे ।
विवक्षितं दार्ष्टान्तिकमाचष्टे –
तथेति ॥ ६ ॥