छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ७ ॥
आपयिता ह वै कामानां यजमानस्य भवति, य एतत् अक्षरम् एवम् आप्तिगुणवत् उद्गीथम् उपास्ते, तस्य एतद्यथोक्तं फलमित्यर्थः, ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १० । ५ । २ । २०) इति श्रुतेः ॥

आप्तेति वक्तव्ये कथमापयितेत्युक्तं तत्राऽऽह –

यजमानस्येति ।

निपातौ त्ववधारणार्थौ उद्गीथं तदवयवभूतमिति यावत् ।

आप्तिगुणवदोङ्कारोपासनात्कथमुपासिता तद्गुणो भवतीत्याशङ्क्याऽऽह –

तमिति ॥ ७ ॥