छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥
समान उ एव तुल्य एव प्राणः सवित्रा गुणतः, सविता च प्राणेन ; यस्मात् उष्णोऽयं प्राणः उष्णश्चासौ सविता । किञ्च स्वर इति इमं प्राणमाचक्षते कथयन्ति, तथा स्वर इति प्रत्यास्वर इति च अमुं सवितारम् ; यस्मात् प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति, सविता तु अस्तमित्वा पुनरप्यहन्यहनि प्रत्यागच्छति, अतः प्रत्यास्वरः ; अस्मात् गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ । अतः तत्त्वाभेदात् एतं प्राणम् इमम् अमुं च आदित्यम् उद्गीथमुपासीत ॥

गुणतः साम्य साधयति –

यस्मादिति ।

नामतः साम्यं सङ्गिरते –

किञ्चेति ।

सवितृवत्प्राणेऽपि प्रत्यास्वरशब्दप्रवृत्तिमाशङ्क्याऽऽह –

यस्मादिति ।

स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वरशब्दप्रवृत्तिरेवेत्यर्थः ।

सवितर्यपि तर्हि तच्छब्दप्रवृत्तिरेवेत्याशङ्क्याऽऽह –

सविता त्विति ।

आदित्यस्यास्तं गतस्य प्रत्यहमेकत्रैवाऽऽगतिदर्शनात्तस्मिन्प्रत्यास्वरशब्दस्यापि प्रवृत्तिरस्तीत्यर्थः ।

अतः प्राणादित्ययोरुक्तं साम्यं निगमयति –

अस्मादिति ।

अन्योन्यसाम्यकृतं फलमाह –

अत इति ।

प्राणादित्यावेकीकृत्य तद्दृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्यर्थः ॥ २ ॥