छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते, तथापि न स तत्त्वभेदस्तयोः । कथम् —

नन्वध्यात्ममधिदैवतमिति स्थानभेदात्प्राणादित्ययोर्भिन्नत्वाद्भिन्नमेव तयोरुपासनमुपादेयमत आह –

यद्यपीति ।

प्राणदित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति –

कथमित्यादिना ।

उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति ।