अथाऽऽध्यात्मिकमाधिदैविकं चोद्गीथोपासनं प्रस्तुत्य तदेव समस्यैकीकृत्योक्तं तथा च वक्तव्याभावात् किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽध्यात्मिकमेवोद्गीथोपासनमनुसृत्याऽह –
अथेति ।
कोऽसौ व्यानो यद्दृष्ट्योद्गीथोपासनमुपदिदिक्षितमत आह –
वक्ष्यमाणलक्षणमिति ।
पक्षान्तरं व्यावर्तयति –
प्राणस्यैवेति ।
वक्ष्यमाणलक्षणमित्युक्तं व्यक्तीकरोति –
अधुनेति ।
तन्निरूपणार्थमादौ प्राणापानौ निरूपयति –
यद्वा इत्यादिना ।
ताभ्यामेव मुखनासिकाभ्यामित्येतत् ।
स्यातामेवं प्राणापानौ व्यानस्य तु किमायातामिति शङ्कित्वा तत्स्वरूपं दर्शयति –
तत इत्यादिना ।
सन्धिमेव स्फुटयति –
तयोरिति ।
प्राणापानयोर्वृत्त्योरभावावस्थायां मध्ये च वायोर्वृत्तिविशेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः ।
सन्धिस्कन्धमर्मदेशवृत्तिर्व्यान इति साङ्ख्या योगाश्चाऽऽहुस्तान्प्रत्याह –
यः साङ्ख्यादीति ।
साङ्ख्यानां योगानां च शास्त्रे प्रसिद्धो यो वायोर्वृत्तिविशेषः स्कन्धादिदेशगो नासौ व्यानःश्रुत्या विशेषनिरूपणादिति योजना ।
व्यानस्य प्राणापानसापेक्षत्वात्तयोरन्यतरस्योपासनमेवोचितं न व्यानोपासनमिति मन्वानश्चोदयति –
कस्मादिति ।
महताऽऽयासेन व्यानसतत्त्वनिरूपणेनेति यावत् ।
ताभ्यां तस्य वैशिष्ट्यमुपेत्य परिहरति –
वीर्यवदिति ।
व्यानस्यैवोपासनमिति शेषः ।
तदेव प्रश्नद्वारा प्रपञ्चयति –
कथमित्यादिना ।
कथं व्यानस्य वीर्यवत्कर्म प्रसिद्ध प्रतिज्ञायते कार्यकारणभावादित्याह –
व्यानेति ।
वाचो व्याननिर्वर्त्यत्वे लिङ्गं दर्शयति –
यस्मादिति ॥ ३ ॥