छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ ४ ॥
तथा वाग्विशेषामृचम् , ऋक्संस्थं च साम, सामावयवं चोद्गीथम् , अप्राणन्ननपानन् व्यानेनैव निर्वर्तयतीत्यभिप्रायः ॥

या वागित्यादिवाक्यानामर्थं सङ्क्षिपति –

तथेत्यादिना ॥ ४ ॥