छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानं स्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ ५ ॥
न केवलं वागाद्यभिव्याहरणमेव ; अतः अस्मात् अन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि — यथा अग्नेर्मन्थनम् , आजेः मर्यादायाः सरणं धावनम् , दृढस्य धनुषः आयमनम् आकर्षणम् — अप्राणन्ननपानंस्तानि करोति ; अतो विशिष्टः व्यानः प्राणादिवृत्तिभ्यः । विशिष्टस्योपासनं ज्यायः, फलवत्त्वाद्राजोपासनवत् । एतस्य हेतोः एतस्मात्कारणात् व्यानमेवोद्गीथमुपासीत, नान्यद्वृत्त्यन्तरम् । कर्मवीर्यवत्तरत्वं फलम् ॥

अतो यानीत्यादि व्याचष्टे –

न केवलमिति ।

व्यानेन निर्वर्तयतीति पूर्वेण सम्बन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करोतीत्युत्तरत्र सम्बन्धः ।

प्रयत्नाधिक्यनिर्वर्त्यानि कर्माण्येवोदाहरति –

यथेति ।

यथा तानि कर्माणि तथाऽन्यान्यप्येवंप्रकाराणीति योजना ।

व्यानस्य वीर्यवत्कर्महेतुत्वे फलितमाह –

अत इति ।

वैशिष्ट्येऽपि किं स्यादिति चेत्तदाह –

विशिष्टस्येति ।

वैशिष्ट्यफलमुपसंहरति –

एतस्येति ।

फलवत्त्वादित्युक्तमुपास्तिफलं स्पष्टयति –

कर्मेति ।

व्यानदृष्ट्योद्गीथोपासनस्याङ्गावबद्धत्वादिति शेषः ॥ ५ ॥