उद्गीथोपासनप्रसङ्गेनोद्गीथाक्षरोपासनां प्रस्तौति –
अथेति ।
विशेषणतात्पर्यं दर्शयति –
भक्तीति ।
उद्गीथाक्षराण्युपासीतेत्युक्ते भक्त्यक्षराण्युपास्यानि प्राप्तानि तानि मा भूवन्निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः ।
विशेषणश्रुतिं व्याकरोति –
उद्गीथेति ।
नामाक्षरोपासनमुद्गीथोपासनस्याकिञ्चित्करमित्याशङ्क्याऽऽह –
नामेति ।
यथा लोके कृष्णमिश्रादिवाचकशब्दप्रयोगे वाच्यस्य पुरुषविशेषस्योपासनं गम्यते तथेहापीत्यर्थः ।
नामाक्षरोपासने नामवदुपासनेऽपि तदुपासनमेव कथमित्याशङ्क्य विभजते –
प्राण एवेति ।
प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह –
कथमित्यादिना ।
गीरित्यस्मिन्नक्षरे वाग्दृष्टिः कर्तव्येत्याह –
वाग्गीरिति ।
वाचो गिरश्च सादृश्यं दर्शयति –
वाचो हेति ।
उद्गीरक्षरयोः प्राणवाग्दृष्टिरिव थमित्यस्मिन्नक्षरेऽन्नदृष्टिः कार्येत्याह –
तथेति ।
थकारान्नयोरपेक्षितं सादृश्यं दर्शयति –
अन्ने हीति ॥ ६ ॥