आदित्यदृष्ट्योद्गीथमुपदिष्टमनूद्य निन्दति –
तमेतमिति ।
निन्दाफलं दर्शयति –
अत इति ।
पर्यावर्तयादिति प्रथमपुरुषे श्रूयमाणे किमिति मध्यमपुरुषो व्याख्यायते तत्राऽऽह –
त्वंयोगादिति ।
युष्मद्युपपदे मध्यमपुरुषविधानादित्यर्थः ।
रश्मिभेदगुणदृष्टिविशिष्टोद्गीथोपासनस्य फलं कथयति –
एवमिति ।
वक्ष्यमाणेऽध्यात्मे बुद्धिसमाधानार्थमुक्तं देवताविषयं दर्शनमुपसंहरति –
इत्यधिदैवतमिति ॥ २ ॥