छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति न स्वर्गं लोकमति नयेदिति होवाच स्वर्गं वयं लोकं सामाभिसंस्थापयामः स्वर्गसꣳ स्तावꣳ हि सामेति ॥ ५ ॥
अपां का गतिरिति, असौ लोक इति होवाच ; अमुष्माद्धि लोकाद्वृष्टिः सम्भवति । अमुष्य लोकस्य का गतिरिति पृष्टः दाल्भ्य उवाच — स्वर्गममुं लोकमतीत्य आश्रयान्तरं साम न नयेत्कश्चित् इति होवाच आह । अतो वयमपि स्वर्गं लोकं साम अभिसंस्थापयामः ; स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः । स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावम् , हि यस्मात् स्वर्गो वै लोकः साम वेद इति श्रुतिः ॥

कथमपामसौ लोको गतिस्तत्राऽऽह –

अमुष्मादिति ।

इति पृष्टो दाल्भ्य उवाच हेति सम्बन्धः ।

तत्र च्छन्दसि कालनियमाभावमभिप्रेत्य क्रियापदं व्याकरोति –

आहेति ।

यद्यपि परो नास्याऽऽश्रयान्तरं प्रतिपद्यते तथाऽपि त्वया तद्वाच्यमेवेत्याशङ्क्याऽऽह –

अत इति ।

अतःशब्दार्थमेव स्फोरयति –

स्वर्गेति ।

तस्मात्स्वर्गलोकप्रतिष्ठं सामेति पूर्वेण सम्बन्धः ।

स्वर्गसंस्तावं सामेत्यत्र प्रमाणमाह –

स्वर्ग इति ॥ ५ ॥