कथमन्नस्य प्रतिहारत्वं तदाह –
सर्वाणीति ।
तां चेदविद्वानित्याद्यन्यदित्युच्यते । तथोक्तस्य ममेत्येतदन्तमिति शेषः ।
कीदृगुपासनमस्मिन्प्रकरणे विवक्षितमित्याशङ्क्याऽऽह –
प्रस्तावेति ।
उपास्तित्रयस्य फलं दर्शयति –
प्राणादीति ॥ ९ ॥