छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥
एतत् यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो नामतः ; इतराया अपत्यम् ऐतरेयः । किं कस्मात् मे मम एतत् उपतपनम् उपतपसि स त्वं हे रोग ; योऽहं यज्ञः अनेन त्वत्कृतेनोपतापेन न प्रेष्यामि न मरिष्यामि ; अतो वृथा तव श्रम इत्यर्थः । इत्येवमाह स्म — इति पूर्वेण सम्बन्धः । स एवंनिश्चयः सन् षोडशं वर्षशतमजीवत् । अन्योऽप्येवंनिश्चयः षोडशं वर्षशतं प्रजीवति, य एवं यथोक्तं यज्ञसम्पादनं वेद जानाति, स इत्यर्थः ॥

कस्मादित्याक्षेपे हेतुमाह –

योऽहमिति ।

यो यज्ञः सोऽहमनेनेति योजना ।

इतिशब्दस्यान्वयमाचष्टे –

इत्येवमिति ।

निश्चिताया विद्याया ध्यानं प्रति फलं कथयति –

स एवमिति ।

यद्यपि महिदासस्य यथोक्तनिश्चयवतो यथोक्तं तथाऽपीदानींतनस्य किमायातमित्याशङ्क्याऽऽह –

अन्योऽपीति ।

प्रजीवतीति जीवनस्य प्रकर्षो रोगाद्युपतापराहित्यं प्रशब्देनोच्यते ।

एवंनिश्चय इत्युक्तं पुरुषं विशदयति –

य एवमिति ॥७॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य षोडशः खण्डः ॥