छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥
निश्चिता हि विद्या फलायेत्येतद्दर्शयन् उदाहरति —

महिदासोदाहरणस्य तात्पर्यमाह –

निश्चिता हीति ।

तदेतद्यज्ञदर्शनं विद्वानाह स्मेति सम्बन्धः । ह वा इति निपातयोः किलेत्यर्थः । उक्तस्य वोदाहरणस्य प्रसिद्धिविषयः । हे रोग कस्मान्मां त्वमुपतपसीति सम्बन्धः ।