छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःसप्तदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्धैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसं शितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥
तद्धैतत् यज्ञदर्शनं घोरः नामतः, आङ्गिरसः गोत्रतः, कृष्णाय देवकीपुत्राय शिष्याय उक्त्वा, उवाच तदेतत्त्रयम् इत्यादिव्यवहितेन सम्बन्धः । स च एतद्दर्शनं श्रुत्वा अपिपास एवान्याभ्यो विद्याभ्यो बभूव । इत्थं च विशिष्टा इयम् , यत्कृष्णस्य देवकीपुत्रस्य अन्यां विद्यां प्रति तृड्‌विच्छेदकरी इति पुरुषयज्ञविद्यां स्तौति । घोर आङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति, तदाह — स एवं यथोक्तयज्ञवित् अन्तवेलायां मरणकाले एतत् मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः । किं तत् ? अक्षितम् अक्षीणम् अक्षतं वा असि इत्येकं यजुः । सामर्थ्यादादित्यस्थं प्राणं च एकीकृत्य आह । तथा तमेव आह, अच्युतं स्वरूपादप्रच्युतमसि इति द्वितीयं यजुः । प्राणसंशितं प्राणश्च स संशितं संयक्तनूकृतं च सूक्ष्मं तत् त्वमसि इति तृतीयं यजुः । तत्र एतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतः, न जपार्थे, त्रयं प्रतिपद्येत इति त्रित्वसङ्ख्याबाधनात् ; पञ्चसङ्ख्या हि तदा स्यात् ॥

पुरुषे यज्ञदृष्टिरुक्ता सम्प्रति विशिष्टपुरुषसम्बन्धेन विद्यां स्तोतुं विद्याङ्गं च जपं विधातुमुपक्रमते –

तद्धैतदिति ।

देवकीपुत्रस्यैतद्दर्शनश्रवणफलमाह –

स चेति ।

किमर्थेयं गुरुशिष्याख्यायिकेत्याह –

इत्थं चेति ।

अक्षितमसीति कीदृशीं देवतां प्रत्युच्यते तत्राऽऽह –

सामर्थ्यादिति ।

निकृष्टस्य स्तुतिसम्बन्धायोगात्पुरुषयज्ञे सवनदेवतान्तरानुपपत्तेश्च प्राणानामेवाऽऽधिदैविकं रूपमादित्याख्यं जप्यमन्त्रार्थत्वेन सम्बध्यत इत्यर्थः ।

द्वितीयमन्त्रस्यार्थान्तरं वारयति –

तथेति ।

प्रथममन्त्रवदित्यर्थः । न च द्वयोरेकार्थत्वे सत्यन्यतरस्य वैयर्थ्यं द्वयोरपि जप्यत्वेनोपयुक्तत्वादिति द्रष्टव्यम् ।

मन्त्रत्रयप्रतिपाद्यं सावित्रं तत्त्वमृग्भ्यामपि प्रतिपादितमिति प्रत्ययदार्ढ्यार्थमाह –

तत्रेति ।

किमिति विद्यास्तुतिपरत्वमनयोरिष्यते जपार्थत्वमेव किं न स्यात्तत्राऽऽह –

नेत्यादिना ।

अनयोर्जपार्थत्वेऽपि त्रित्वसंख्यायाःसत्त्वान्न सा बाध्येत्याशङ्क्याऽऽह –

पञ्चेति ।

अनयोर्जप्यत्वे पञ्चकं प्रतिपद्येतेति पञ्चसंख्याया वक्तव्यत्वात्त्रित्वं बाधितं स्यादित्यर्थः ॥६॥