छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःअष्टादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥
तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः । सोऽग्निना अधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च सन्तापं च औष्ण्यं करोति । अथवा तैलघृताद्याग्नेयाशनेन इद्धा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः । विद्वत्फलम् , भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं यथोक्तं वेद ॥

आध्यात्मिकान्पादान्प्रपञ्चयति –

तत्रेति ।

पादत्वं वाचो व्युत्पादयति –

वाचा हीति ।

यथा गवादिगन्तव्यं पादेनैव प्राप्नोति देवदत्तोऽपि वाचैव पादेन वक्तव्यं विषयं प्रतिलभते । तेन तस्या युक्तं पादत्वमित्यर्थः ।

प्राणस्य वाच इव पादत्वं दर्शयति –

तेनापीति ।

आधिदैविकान्पादान्विवृणोति –

अथेति ।

यथा गोरुदरे पादा लग्ना लक्ष्यन्ते तथाऽऽकाशस्योदर इवाग्न्यादयो लग्ना दृश्यन्ते । तस्मात्तस्य ते पादा इव भवन्तीत्यर्थः ।

द्विविधपादविवरणमुपसंहरति –

एवमिति ।

सम्प्रत्याध्यात्मिकपादानामाधिदैविकपादैरधिष्ठेयतया सम्बन्धोऽनुचिन्तनीय इति दर्शयितुमुपक्रमते –

तत्रेति ।

सोऽग्निनेत्यादेरर्थान्तरमाह –

अथवेति ।

कीर्तियशसोः प्रत्यक्षत्वपरोक्षत्वाभ्यां भेदः ॥३॥