छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःएकोनविंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेजेरन् ॥ ४ ॥
स यः कश्चित् एतमेवं यथोक्तमहिमानं विद्वान्सन् आदित्यं ब्रह्मेत्युपास्ते, स तद्भावं प्रतिपद्यत इत्यर्थः । किञ्च दृष्टं फलम् अभ्याशः क्षिप्रं तद्विदः, यदिति क्रियाविशेषणम् , एनमेवंविदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यदुपभोगे पापानुबन्धाभावः, आ च गच्छेयुः आगच्छेयुश्च, उप च निम्रेडेरन् उपनिम्रेडेरंश्च — न केवलमागमनमात्रं घोषाणाम् उपसुखयेयुश्च उपसुखं च कुर्युरित्यर्थः । द्विरभ्यासः अध्यायपरिसमाप्त्यर्थः आदरार्थश्च ॥

अदृष्टफलमाहत्योक्त्वा दृष्टफलमाचष्टे –

किञ्चेति ।

तद्विदो दृष्टफलमिति सम्बन्धः –

क्रियाविशेषणमिति ।

एवंविदं साधवो घोषा आगच्छेयुरिति यत्तत्क्षिप्रमप्रतिबन्धेनैवेत्यर्थः । आदित्ये ब्रह्मदृष्टिरादरस्य विषयः ॥४॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्यैकोनविंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां च्छान्दोग्यभाष्यटीकायां तृतीयोऽध्यायः ॥