छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहं ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ ८ ॥
इत्युक्तः क्षत्ता अन्विष्य तं विजने देशे अधस्ताच्छकटस्य गन्त्र्याः पामानं खर्जूं कषमाणं कण्डूयमानं दृष्ट्वा, अयं नूनं सयुग्वा रैक्व इति उप समीपे उपविवेश विनयेनोपविष्टवान् । तं च रैक्वं ह अभ्युवाद उक्तवान् । त्वमसि हे भगवः भगवन् सयुग्वा रैक्व इति । एवं पृष्टः अहमस्मि हि अरा३ अरे इति ह अनादर एव प्रतिजज्ञे अभ्युपगतवान् — स तं विज्ञाय अविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः ॥

मया हि गार्हस्थ्यं चिकीर्ष्यते तदर्थं च धनमर्थ्यते न चायं तादर्थ्येन किंचिदुपकर्तुमित्याशयेनानादरं विज्ञातवानस्मि यदुक्तलक्षणं रैक्वं तस्य च गार्हस्थ्याभिप्रायं धनार्थित्वं चेति शेषः ॥८॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाऽध्यायस्य प्रथमः खण्डः ॥