छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ २ ॥
एवं पृष्टा जबाला सा ह एनं पुत्रमुवाच — नाहमेतत् तव गोत्रं वेद, हे तात यद्गोत्रस्त्वमसि । कस्मान्न वेत्सीत्युक्ता आह — बहु भर्तृगृहे परिचर्याजातमतिथ्यभ्यागतादि चरन्ती अहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहम् , परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत् । यौवने च तत्काले त्वामलभे लब्धवत्यस्मि । तदैव ते पितोपरतः ; अतोऽनाथा अहम् , साहमेतन्न वेद यद्गोत्रस्त्वमसि । जबाला तु नामाहमस्मि, सत्यकामो नाम त्वमसि, स त्वं सत्यकाम एवाहं जाबालोऽस्मीत्याचार्याय ब्रवीथाः ; यद्याचार्येण पृष्ट इत्यभिप्रायः ॥

अतिथ्यभ्यागताद्यधिकृत्य परिचर्याजातं बहु चरन्ती भर्तृगृहे यतोऽहं स्थिता तेन परिचरन्ती सती परिचरणचित्ततया गोत्रादीन्नापृच्छम् । तथा च तत्स्मरणे मनो मम नाऽऽसीदिति । गोत्रादिप्रश्नाभावे हेत्वन्तरमाह –

यौवन इति ।

यद्यपि तस्यामवस्थायां लज्जया गोत्रादि नाप्राक्षीस्तथाऽपि कालान्तरे किमिति पितरं न पृष्टवतीत्याशङ्क्याऽऽह –

तदैवेति ।

तथाऽपि किमित्यन्यमभिज्ञं नाप्राक्षीरित्याशङ्क्याऽऽह –

अत इति ।

प्रथमं लज्जया पितरं प्रति न प्रश्नः पुनश्च तस्योपरतत्वात्पश्चान्न दुःखबाहुल्यादन्यं प्रति प्रश्न इति स्थिते प्रश्नाभाव फलमाह –

साऽहमिति ।

किं तर्हि तव ज्ञानमस्ति तदाह –

जबाला त्विति ।

एवं स्थिते किमाचार्यं प्रति मया वक्तव्यमित्याशङ्क्याऽऽह –

स त्वमिति ।

नापृष्टः कस्यचिद्ब्रूयादिति न्यायं सूचयति –

यदीति ॥२॥