छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥
कथयतु मे मह्यं भगवान् । इत्युक्तः ऋषभः तस्मै सत्यकामाय ह उवाच — प्राची दिक्कला ब्रह्मणः पादस्य चतुर्थो भागः । तथा प्रतीची दिक्कला दक्षिणा दिक्कला उदीची दिक्कला, एष वै सोम्य ब्रह्मणः पादः चतुष्कलः चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाशवानित्येव नाम अभिधानं यस्य । तथोत्तरेऽपि पादास्त्रयश्चतुष्कला ब्रह्मणः ॥

वायुदेवता दिक्सम्बन्धिनीत्युक्तत्वाद्दिग्गोचरमेव दर्शनमुवाचेत्याह –

प्राचीति ।

ब्रह्मणः पादस्येति व्यधिकरणे षष्ठ्यौ । एकपादेव ब्रह्मेति विभ्रमं व्युदस्यति –

तथेति ॥२॥