छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अग्निष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥
सोऽग्निः ते पादं वक्तेत्युपरराम ऋषभः । सः सत्यकामः ह श्वोभूते परेद्युः नैत्यकं नित्यं कर्म कृत्वा गाः अभिप्रस्थापयाञ्चकार आचार्यकुलं प्रति । ताः शनैश्चरन्त्यः आचार्यकुलाभिमुख्यः प्रस्थिताः यत्र यस्मिन्काले देशेऽभि सायं निशायामभिसम्बभूवुः एकत्राभिमुख्यः सम्भूताः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्मुखः उपविवेश ऋषभवचो ध्यायन् ॥

अवशिष्टं पादत्रयं कथं द्रष्टव्यमिति बुभुत्समानं सत्यकामं प्रत्याह –

सोऽग्निरिति ।

अविदुषो विद्याभिमाननिमित्तकर्मत्यागो न युक्त इति मत्वाऽऽह –

सत्यकाम इति ।

अभि सायं बभूवुः सायंकालं प्राप्ता इति यावत् ।

तस्य ब्रह्मचर्यमव्यावृत्तमिति सूचयति –

तत्रेति ।

उपोपविवेश तत्रोपशब्दाभ्यां गवामग्नेश्च सामीप्ये निवेशनमस्योच्यते ।

अर्थिने विद्या वक्तव्येति सूचयति –

ऋषभेति ॥१॥