छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिंल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥
अग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्येति ज्योतिर्विषयमेव च दर्शनं प्रोवाच ; अतो हंसस्य आदित्यत्वं प्रतीयते । विद्वत्फलम् — ज्योतिष्मान् दीप्तियुक्तोऽस्मिंल्लोके भवति । चन्द्रादित्यादीनां ज्योतिष्मत एव च मृत्वा लोकान् जयति । समानमुत्तरम् ॥

आदित्योऽपि स्वविषयमेव दर्शनमुक्तवानित्याह –

अग्निरिति ।

तृतीये पादेऽपि गुणविशेषमुपदिशति –

एष वा इति ।

यतो हेतोर्ज्योतिर्विषयमेव दर्शनमुक्तवानत एव तस्याऽऽदित्यत्वं प्रतिभातीत्यादित्यत्वे हंसस्य गमकान्तरमाह –

ज्योतिर्विषयमेवेति ।

य एतमेवं विद्वानित्याद्युत्तरम् ॥३- ४॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तमः खण्डः ॥