छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥
स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्याद्यायतनवानित्येवं नाम । आयतनं नाम मनः सर्वकरणोपहृतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः ॥

तं मद्गुरुपनिपत्येत्यत्र मद्गुशब्दार्थं पूर्वोक्तमेव स्मारयति –

मद्गुः प्राण इति ।

प्राणः कलेत्याद्यायतनवानित्येवमिति यथोक्तगुणं समर्थयते –

आयतनमित्यादिना ।

तद्यस्मिन्पादे वर्तते सोऽयमायतनवान्नाम पाद इति द्रष्टव्यमिति योजना ॥२-३॥