छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान्मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ५ ॥
अथेदानीं यथोक्तब्रह्मविदः गतिरुच्यते । यत् यदि उ च एव अस्मिन् एवंविदि शव्यं शवकर्म मृते कुर्वन्ति, यदि च न कुर्वन्ति ऋत्विजः, सर्वथाप्येवंवित् तेन शवकर्मणा अकृतेनापि प्रतिबद्धो न ब्रह्म न प्राप्नोति ; न च कृतेन शवकर्मणा अस्य कश्चनाभ्यधिको लोकः, ‘न कर्मणा वर्धते नो कनीयान्’ (बृ. उ. ४ । ४ । २३) इति श्रुत्यन्तरात् । शवकर्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शवकर्म एवंविदः न कर्तव्यमिति । अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयतेऽन्यत्र । यत इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वेति विद्यावतः अप्रतिबन्धेन फलारम्भं दर्शयति । ये सुखाकाशमक्षिस्थं संयद्वामो वामनीर्भामनीरित्येवंगुणमुपासते प्राणसहितामग्निविद्यां च, तेषामन्यत्कर्म भवतु मा वा भूत् सर्वथा अपि ते अर्चिषमेवाभिसम्भवन्ति अर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः । अर्चिषः अर्चिर्देवताया अहः अहरभिमानिनीं देवताम् , अह्नः आपूर्यमाणपक्षं शुक्लपक्षदेवताम् , आपूर्यमाणपक्षात् यान्षाण्मासान् उदङ् उत्तरां दिशम् एति सविता तान्मासान् उत्तरायणदेवताम् , तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवताम् , ततः संवत्सरादादित्यम् , आदित्याच्चन्द्रमसम् , चन्द्रमसो विद्युतम् । तत् तत्रस्थान् तान् पुरुषः कश्चिद्ब्रह्मलोकादेत्य अमानवः मानव्यां सृष्टौ भवः मानवः न मानवः अमानवः स पुरुषः एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः, सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः । ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति हि तत्र वक्तुं न्याय्यम् । सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति । न च अदृष्टो मार्गोऽगमनायोपतिष्ठते, ‘स एनमविदितो न भुनक्ति’ (बृ. उ. १ । ४ । १५) इति श्रुत्यन्तरात् । एष देवपथः देवैरर्चिरादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते । ब्रह्म गन्तव्यं तेन च उपलक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमावर्तं नावर्तन्ते आवर्तन्तेऽस्मिञ्जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यावर्तः तं न प्रतिपद्यन्ते । नावर्तन्ते इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था ॥

गतिं वक्तुं पूर्वोक्तब्रह्मविद्यायामधिकगुणानेवाऽऽचार्योऽन्ववादीदिदानीं तामेव गतिमवतारयति –

अथेति ।

तां वक्तुं पातनिकां करोति –

यद्यदीति ।

करणाकरणाभ्यां विदुषो न वृद्धिर्नापि हानिरित्यत्र श्रुत्यन्तरं प्रमाणयति –

न कर्मणेति ।

अथ यदु चैवेत्यादिवाक्यस्य तात्पर्यं दर्शयति –

शवकर्मणीति ।

तात्पर्यान्तरं दर्शयति –

न पुनरिति ।

यदि विदुषोऽपि शवकर्म कर्तव्यं कस्तर्हि तस्य विशेषस्तत्राऽऽह –

अक्रियमाणे हीति ।

अन्यत्रेत्यविद्यावानुच्यते –

इहेति ।

प्रस्तुतवाक्यस्य विद्यावतो वोक्तिरिति शवकर्मण्यनादरपूर्वकमिति शेषः । विद्यावतः शवकर्मभावाभावयोरप्रतिबन्धः फलं सिद्ध्यति । अविद्यावतस्तु शवकर्माकरणे कर्माणि न फलदानीति विद्यास्तुतिरिहाभिप्रेतेति भावः ।

तेऽर्चिषमेवेत्यत्र तच्छब्दार्थं व्याचष्टे –

ये सुखाकाशमिति ।

सत्यलोकस्थमितिदेशव्यवच्छेदेन किमिति व्याख्यायते मुख्यमेव ब्रह्मशब्दलम्बनं किं नोच्यते तत्राऽऽह –

गन्तृगन्तव्येति ।

एतेभ्यो हेतुभ्यः सत्यलोकस्थं ब्रह्म न मुख्यमिति सम्बन्धः ।

मुख्यब्रह्मप्राप्तावपि यथोक्तव्यपदेशा भविष्यन्तीत्याशङ्क्याऽऽह –

सन्मात्रेति ।

तदनुपपत्तर्न तादृग्ब्रह्म ब्रह्मशब्दमिति शेषः ।

अनुपपत्तिमेव स्फोरयति –

ब्रह्मैवेति ।

तत्रेति मुख्यप्राप्तिरुच्यते ।

कस्यचिदपि सन्मात्रब्रह्मप्राप्तिरत्र नास्तीत्याशङ्क्याऽऽह –

सर्वभेदेति ।

वक्ष्यति षष्ठेऽध्याये श्रुतिरिति शेषः ।

जीवस्य सन्मात्रं ब्रह्म पारमार्थिकं रूपं चेदुपासकस्यापि न गतिरुचिता तस्यापि ब्रह्मातिरिक्तस्वरूपाभावादित्याशङ्क्याऽऽह –

न चेति ।

एकत्वलक्षणो मार्गो न दृष्टश्चेदगमनाय नोपतिष्ठते । न हि ध्याननिष्ठस्यादृष्टमेकत्वं गमनं वारयितुं पारयत्यज्ञानप्रतिबन्धात् । तस्य गमनभ्रान्तिसम्भवादित्यर्थः । यद्वैकत्वलक्षणो मार्गो नावगतो न गमनाय मोक्षायोपस्थितो भवतीत्यर्थः ।

तत्र प्रमाणमाह -

स एनमिति ।

स परमात्मा प्रत्यक्त्वेनाज्ञातः सन्नेनमधिकारिणं मुक्तिप्रदानेन न पालयतीत्यर्थः ।

प्रकृतां गतिमुपसंहरति –

एष इति ।

गतिफलं निगमयति –

एतेनेति ।

इममितिविशेषणादनावृत्तिरस्मिन्कल्पे । कल्पान्तरे त्वावृत्तिरिति सूच्यते ।

आवर्तशब्दं व्याकरोति –

आवर्तन्त इति ।

सफलाया यथोक्तेन गतिपूर्वकेण फलेन सहिताया इति यावत् । कार्यब्रह्मोपासनमुच्चिता कारणब्रह्मोपासना यथोक्ता न विद्यासहिताऽविद्याऽत्र विवक्षिता तस्या इत्यर्थः ॥५॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥