यज्ञस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वात्क्रियायाश्च क्षणभङ्गिन्या गतिमत्त्वायोगान्मार्गोपदेशासम्भवात्कथमाद्या सङ्गतिरित्याशङ्क्य गतिमत्त्वं सम्पादयितुं यज्ञस्य वायुरूपत्वमाह –
एष इत्यादिना ।
यज्ञो वाय्वात्मक इति श्रौती प्रसिद्धिस्तामेव प्रकटयति –
वायुप्रतिष्ठ इति ।
श्रुतीरुदाहरति –
स्वाहेति ।
स्वाहाकारमुच्चार्य वाते वायौ धीयते क्षिप्यत इति वातेधा यज्ञः ।
श्रुत्यन्तरमाह –
अयमिति ।
आदिशब्देन “वाताद्यज्ञः प्रयुज्यताम्” (तै.ब्रा. ३ । ७ । ४ । २४) इति श्रुतिर्गृह्यते ।
आदर्शितश्रुतीनामर्थं संगृह्णाति –
वात इति ।
यो यज्ञः क्रियासमवायी तत्समुदायात्मकः स वायुरेव । द्वयोश्चलनात्मकत्वाविशेषात् । तस्माद्वायुप्रतिष्ठस्तदात्मको यज्ञ इत्यर्थः ।
वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुत्यन्तरमाह –
वात एवेति ।
पवनत्वश्रुत्याऽपि वायुयज्ञयोरेकत्वमाह –
एष ह यन्निति ।
विनाऽपि वायुं शुद्धिः सिद्ध्यतीत्याशङ्क्याऽऽह –
न हीति ।
अचलतो विहितक्रियामननुतिष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं परित्यक्तुं यतमानस्य सिद्ध्यति । न तु निषिद्धक्रियात्यागोदासीनस्य दोषनिरासात्मिका शुद्धिः सम्भवति ।
चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्वं जगत्पुनातीत्याह –
दोषेति ।
वायोरस्तु पावनत्वं प्रकृते किमायातमित्याशङ्क्याऽऽह –
यद्यस्मादिति ।
वाय्वात्मना गतिविशिष्टस्य यज्ञस्य मार्गद्वयमुपदिशति –
तस्येति ।
एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् ।
यज्ञस्योक्तमार्गद्वयवैशिष्ट्ये सोपस्कारमैतरेयवाक्यमुदाहरति –
प्राणेति ।
प्राणापानाभ्यामुच्छ्वासनिश्वासाभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पूर्वापरभावक्रमेण यज्ञः सम्पाद्यते । मनसा हि ध्यायन्वाचमभिव्याहरन्पूर्वापरीभावेन यज्ञं सम्पदयतीत्यर्थः ।
यज्ञस्य मार्गद्वयविशिष्टत्वमुपसंहरति –
अत इति ॥१॥